पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ व्यमा. ३४५ " पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ सागमेन तु भोगेन सम्यम्भुक्तं यदा तु यत् । आहर्ता लभते तत्तु नापहार्य तु तत्कचित् || सम्यगिति विंशतिवर्षपर्यन्तम् । प्रैणष्टागमलेख्येन भोगारूढेन वादिना । काल: प्रमाणं दानं च कीर्तनीयानि संसदि ॥ दानग्रहणमागमोपलक्षणार्थम् | चशब्दः सांतत्यादि- विशेषणसंग्रहणार्थः । एवं चायमर्थः । भोगप्रमाणवादिना भोगाख्यं प्रमाणं तद्विशेषणानि आगमदीर्घकालादी नि च कीर्तनीयानीति । कीर्तितानि च तद्विप्रतिपत्तौ साध- नीयानि कीर्तनमात्रेण निश्चयाभावात् । आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥ (१) आहर्ता ग्रहीता ।

  • स्मृच.७१

व्यक. ६५ (२) सुतग्रहणं पौत्रस्याप्युपलक्षणार्थम् । स्मृच. ७२ (३) लेख्यस्य चाप्रामाण्यशङ्कायां लेख्यग्रहीत्रा त- निरसनीयं, तत्पुत्रेण तु लेख्यार्थिनो भोग एव उप- न्यस्यो न तु लेख्यमुद्धरणीयं तदाह -- आहर्तति । + व्यचि.६३ (४) तदनभियुक्तपितृमरणे वेदितव्यम् । व्यप्र. १५० शक्तस्य संनिधौ बन्धो यस्य लेख्येन भुज्यते । वर्षाणि विंशतिं यावत् तत्पनं दोषवर्जितम् || (१) विंशतिवार्षिकभोगस्य च लेख्यादिप्रमाणशुद्धि- करत्वमाह कात्यायनः -- शक्तस्येति । यथोक्तभोगस्य स्वत एत्र प्रमाणत्वेन साध्यसिद्धौ पत्रदोषनिराकरणार्थ- त्वम् । व्यमा. ३४६ (२) बिना द्रव्येणेत्यर्थः । पूर्वत्र तु वाक्ये दुष्टस्य

  • सवि. स्मृचवत् । ÷ स्थलादिनिर्देशः लेख्यप्रकरणे

(पृ. ३७०) द्रष्टव्यः। + सेतु. व्यचित् । Xस्थलादिनिर्देश: लेख्यप्रकरणे ( पृ. ३७२ ) द्रष्टव्यः । (१) व्यसौ. ६६; प्रका.४६ (तस्मिन्नतीते भुक्त्या तं भुक्त्या प्राप्तं न तस्य तत् ). (२) व्यमा. ३४५ भोगे ( भुक्ते) विष्णु- कात्यायनौ; व्यक. ७० तत्तु (यत्र) विष्णुकात्यायनौ; व्यसौ. ६५ सम्यग्भुक्तं (भुक्तं सम्यक् ) तत्तु (तत्र) विष्णुकात्यायनी. (३) स्मृच.७१; पमा. १४० प्रण (प्रन); सवि. १३०; प्रका.४६१ समु.४८. व्यवहारकाण्डम् लेख्यस्यानुद्भावितदोषस्य विंशतिवर्षायां भुक्तौ दिव्य- साध्यतोक्ता । इह त्वदुष्टस्याविद्यामानसाक्षिस्वहस्तलिखि तादेर्मुक्त्यैवोक्तकालया प्रामाण्य सिद्धिरुच्यत इत्यविरोधः। अप. २१९२ अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । येन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता * ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥ आधानसहितं पत्रमृणलेख्यनिवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेऽपि तद्विदुः + ॥ सेनाभिभिर्बान्धवैश्च भक्तं यत् स्वजनैस्तथा । भोगात्तत्र न सिद्धिः स्याद्भोगमन्येषु कल्पयेत् ॥ अन्येषु असंबद्धेषु । सर्वत्रोपभोगे सकुल्यत्वाद्यनु रोघेन शीलादे रुपेक्षाहेतोः संभवान्न भोगस्यान्यथोपपन्नस्य स्वत्वहेतुकल्पनद्वारा स्वत्वसाधकत्वं नाप्युपचयहानि हेतुत्वमिति तात्पर्यम् । व्यप्र. १६६ स्त्रीधनादिभोगः न स्वत्वहेतु: ने भोगं कल्पयेत्रीषु देवराजधनेषु च । बालश्रोत्रियवित्ते च प्राप्तेऽपि पितृतः क्रमात् ॥ (१) देवानामनिराकर्तृस्वभावत्वात्तद्धनस्थान्यभोगे न हानिः । श्रोत्रियग्रहणमन्यासक्तोपलक्षणार्थम् । स्मृच.६९ (२) भोगं न कल्पयेत् प्रमात्वेन नाद्रियेतेत्यर्थः । व्यप्र. १६६ नै स्त्रीणामुपभोग: स्याद्विना लेख्यात्कदाचन । शत्रुश्रोत्रिय राज्ञां तु तथा बालधने मतः ॥

  • स्थलादिनिर्देशः लेख्यप्रकरणे (पृ. ३७२) द्रष्टव्यः ।

+ व्याख्यानं स्थलादिनिर्देशश्च लेख्य प्रकरणे (पू. ३७३) द्रष्टव्यः । (१) व्यमा.३५१ सना...श्च (सना भैर्बान्धवैर्वापि); अप. २१२८ भुक्तं यत् ( यद्भुक्तं ) न्येषु (न्यत्र ); व्यक.७४; स्मृसा. १०७; स्मृचि. ५०; व्यप्र. १६६; प्रका.४५ नाभि (जाति) न्येषु (न्यत्र); विव्य. २० वैश्च (वैर्वा). (२) ब्यमा ३५१ वित्ते (वृद्धे); व्यक. ७४ ; स्मृच.६९ प्राप्तेऽपि ( मातृतः ); स्मृसा. १०७ ऽपि (च); व्यचि. ७१ स्मृसावत्; स्मृचि. ५० बृहसति: ; व्यसौ ६९ ते च (तेषु ) sपि (च); उयप्र. १६६ देव... च (वित्तापनयनेषु च) sपि (च) बृहस्पतिः; प्रका० ४५; समु.४७; विषय. २० ते च (त्तेपु). (३) व्यक. ७४; स्मृसा. १०७ पू.; व्यचि. ७१ शत्रु (स्वर) ख्यास्कदा (ख्यं कथं); व्यसौ.६९.