पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः (१) स्मार्तश्च काल: पुरुषत्रयभुक्तिकालात्मकः । तथा च स्मृत्यन्तरम् - स्मार्त इति । अप. २।२८ (२) स्मार्ते स्मरणयोग्यकाले । क्रिया प्रमाणं, आगम: स्वत्वहेतुः क्रयप्रतिग्रहादि, आगमाभावात् आगमस्थानुसंधानाभावादित्यर्थः । व्यक.७० (३) अनुगमाभावात् योग्यानुपलब्ध्यात्मकबाधा- भावादित्यर्थः । एतदुक्तं भवति । स्मरणयोग्ये पञ्चा- धिकशतवर्षपर्यन्तातीतकालमध्ये प्रारब्धा भुक्तिः स्वेतर- प्रमाणावगता आगममूलैव स्वत्वे प्रमाणमिप्यते । स्वतः स्वमूलावगतेर्योग्यानुपलब्ध्या बाध्यमानत्वात् । स्मरण- योग्ये पुनः पञ्चाधिकशतवर्षपर्यन्ताती तकालात्प्राचीन काले प्रारब्धा स्वदाढर्थाबगतागममूलिका विनाऽपि मानान्तरावगतागममूलतां स्वत्वे प्रमाणमिति । क्रमा- त्रिपुरुषागतेत्यस्य तु व्याख्या संग्रहकारेण कृता -- स्वतन्त्रैरित्यादिना । +स्मृच.७१ (४) मिता. टीका - स्मार्त काले क्रियेति । क्रिया प्रमाणमित्यर्थः । सर्वे गत्यर्था ज्ञानार्था इति । गत्यर्थे गमिर्ज्ञाने वर्तते । अतोऽनुगमो नाम निश्चयज्ञानम् | तदभावेऽनुगमाभावः । सुत्रो. २।२७ (५) आगम: स्वत्वहेतुदानक्रिया | स्मृसा. १०४ (६) अथ सागमभुक्तेः प्रमाणत्वे व्यर्थविशेषणता, न; ' इदमिदानीं मम स्वमिति' तावत्साध्यं तत्र हि स्वत्वभोगे आगमस्य तन्त्रता, तस्य त्विदानीं पर्यन्त मनुवृत्तौ भोगस्येति विवेकः । , व्यचि.६९ (७) चन्द्रिकाकारेण तु पञ्चाधिकशतवर्षपर्यन्तं स्मार्त काल इत्युक्तम् । तत्तु प्रायिकाभिप्रायकम् । नवतिवर्ष- पर्यन्तायास्त्रिपुरुष्याः प्रतिपादितत्वात् । *सवि. १३५ आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या त्रिपौरुषी || चतुर्थस्य पुंसो भुक्तिः प्रमाणतयोपन्यसनीयेति गमयति, तत्तस्यापि स्मार्तकालानन्तःपातिभुक्तौ सत्यां वेदितव्यम् । अप. २।२८ “चिरन्तनमविज्ञातं भोगं लोभान्न चालयेत् ॥ + पमा स्मृचवत् । * सवि. (१३३ पु.) मितागतम् । (१) अप. २।२८; स्मृला. १०९ तता (ततं). (२) स्मृच. ७३३ प्रका.४७. व्य. का. ५३ अविज्ञातमनागमतयेत्यर्थः । एतदुक्तं भवति, यथा छलानुलारेण निर्णीतेऽपि विंशतिवार्षिक भोगस्य पुनर्भूता- नुसारेण चालनमिष्टं न तथा चिरन्तनस्येति । स्मृच.७३ त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ येथा क्षीरं जनयति दधि कालाइसान्वितम् । दान हेतुस्तथा कालान् भोगस्त्रिपुरुषागतः ।। स्वद्रव्यसाध्यत्वाद्दानस्य स्वत्वमुत्पादयन् भोगो दानस्य हेतुर्भवति दानं वा हेतुः स्वत्वम्पैवेति दानहेतुः । अत एव नियतकालान्तरभाविना स्वत्वेन व्याप्ता त्रैपु. रुपी भुक्तिः स्वत्वे प्रतिग्रहादिवद्भवति प्रमाणम् । एवं लक्षणा हि भुक्तिः एकेन विंशतिवर्षाणि अधिकानि वा भुक्ता न तु न्यूनानि, तस्मिंश्र मृते तत्पुत्रेणापि ताव- त्कालमेव मुक्ता, तस्मिन्नपि मृते तत्पुत्रेणापि तथैव भुक्ता भूस्वामिना च वक्ष्यमाणदाक्षिण्यस्नेहादिक्षमा- कारणाभावे त्रैपुरुषिकभोगस्योपेक्षैव कृता, सेदानीं भोगेऽपि भुम्यादौ पूर्वस्वामिस्वत्वनाशकरी, भोक्तुश्च स्वत्वनिमित्तं भवतीत्यदूरान्तरितं भोगस्यैव कारणत्वमु च्यते । सर्वथा तावद्भोगे कृते पूर्वस्वत्वनाशः परस्त्रत्वो- त्पादश्च जात इति सिद्धम् । व्यमा. ३५० मुख्या पैतामही भुक्ति: पैतृकी चापि संमता | त्रिभिरेतैरविच्छिन्ना स्थिराषक मता ॥ अत्र च सर्ववचनेषु त्रिपुरुपागतत्वं भोगस्य स्मार्त कालीनत्वोपलक्षणं न तु यथाश्रुतम् । स्मरणयोग्येऽपि द्वितीयादिवर्षरूपे काले पुरुपत्रयात्ययसंभवात् । तत्र च बाधेनानुमित्यर्थापत्योरनुदयात् । व्यप्र. १५५ वत्सराणां तु नवतिरथवा स्यात्त्रिपौरुपी । अतः परं प्रमाणं स्याद्भुक्तिरेवागमाहते || (१) व्यमा ३४१ विष्णुकात्यायनौ; व्यक. ७० विष्णुका त्यायनी; दकि. ३४; व्यसी. ६६, विव्य. १६. (२) व्यमा. ३५०; प्रका. ४४ जनयति (तु नयति) लाद्रमा (लवशा); समु.४९ प्रकावत् ; विष्य. १९ कालात् भो... गतः (कालभोग- त्रिपुरुषतां गतः ). (३) अप. २१२८; व्यक. ७०; स्मृसा. १०४ चापि (वापि) त्रिभिरे (वयोपे); व्यसौ.६६ त्रिभिरे (वयोपे); व्यप्र. १५५ की(का); प्रका.४६ व्यसौवत्; समु. ४९ व्यसौनद, स्मृत्यन्तरम्. (४) प्रका.४६ पौ (पू.) ; समु. ४९. स्मृप्यन्तरम्.