पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषा च या । • स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये || स्वतन्त्रा स्वमूलभूतागमनिश्चयानपेक्षेत्यर्थः । व्यवहारकाण्डम् स्मृच. ७३ 'पिता पितामहो यस्य जीवेश्च प्रपितामहः । त्रिंशत्समा या तु भुक्ता भूमिरव्याहता परैः ॥ मुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपौरुषी ।। त्रिपौरुषी च त्रिगुणा परतः स्याचिरन्तनी | (१) त्रिंशत्समा पञ्चोत्तरेति शेषः । 'वर्षाणि पञ्च- त्रिंशत् पौरुषो भोग उच्यते' । इति स्मॄत्यन्तरे उक्त त्वात् । एवं चागमकत्री आगमोद्भावनं लेख्यसाक्षिभ्या- मेत्र कार्यम् | भोगस्यास्मार्त कालीनोपक्रमवतोऽसंभवात् । स्मृच. ७२ (२) यदि विंशतिवर्षः पौरुषो भोगः यदि वा त्रिंश- द्वर्षः पञ्चत्रिंशद्वर्षो वा सर्वथापि त्रिपुरुपभोगेन स्मरण- योग्यः काल उपलक्ष्यते । पमा. १४२ (३) स्मार्तकालस्वरूपमाह – त्रिंशदिति । सवि. १३४ भुक्तिर्बलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी । विच्छिन्नाऽपि हि सा ज्ञेया या तु पूर्वप्रसाधिता ॥ या चिरन्तनी पूर्व पुरुषप्रसाधितागमा सा विच्छि- नाऽपि बलवती ज्ञेयेत्यर्थः । स्मृच. ७४ "त्रिवर्ष भुज्यते येन समग्रा भूरवारिता । तस्य सा नापहर्तव्या क्षमालिङ्गं न चेत् || चतुष्पाद्धनधान्यादि वर्षाद्धानिमवानुयात् || एतद्वचनं भुक्तेरादराथै यथाश्रुतं न (?) व्याख्येयं, (१) स्मृच. ७३; प्रका.४७. (२) स्मृच.७२; पमा. १४२; सवि. १३४ उत्त, पितामहः; प्रका. ४६; समु. ४८. (३)स्मृच.७२; पमा.१४२; द्विपौ (द्विपू) त्रिपौ (त्रिपू) तनी (तना); सवि.१३४ च द्वि (तु द्वि) च त्रि (तु त्रि) परतः स्यात् (तत उर्ध्वं ) पितामहः; प्रका. ४६; समु. ४८. (४) स्मृच.७४; पमा.१४५ पूर्व (पूर्व); स्मृसा. १०४ बलवती ( बलीयसी ) शेषं व्यकवत् ; स्मृचि. ४९ बलवती (बलीयसी) हि (न) तु (च) नारदः; व्यसौ. ६६ (= ) उत्त; प्रका.४८; समु. ४९. (५) पमा. १४७ त्रिवर्ष (त्रिपुरुष ) ग्रा (क्षं): सवि. १३५; प्रका.४५ पमावत् ; समु. ४६ ग्रा (क्षं). (६) सवि. १३५; समु.४६. सवि, १३५ बहुप्रतिपक्षत्वाद् इति वरदराजः । भुक्तिस्त्रिपौरुषी सिध्येत्परेषां नात्र संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥ ( १ ) यत्र हेत्वन्तरादेव संनिहितस्याप्युपेक्षा संभ- वति, न तत्र त्रिपुरुषभुक्ति: प्रमाणमित्याह बृहस्पतिरेव — भुक्तिरिति । व्यमा ३५१ (२) अनिवृत्ते सपिण्डत्वे इति । सपिण्डत्वे विद्यमाने सल्यामपि त्रिपुरुषभुक्तौ सकुल्यानां तद्भुज्यमानं स्वं न भवतीत्यर्थः ।

  • व्यक.७३

स्त्रीधनादिभोगो न स्वत्वहेतुः ने स्त्रीणामुपभोग: स्याद्विना लेख्यं कथश्चन | राजश्रोत्रियवित्ते च जडबालधने तथा ॥ स्त्रीणां धन इति शेषः । विना लेख्यं विनागम- प्रमाणम् । स्मृच.७० अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । . सुहृद्वन्धु सकुल्यस्य न तद्भोगेन हीयते ॥ 'विवाह्य श्रोत्रियैर्भुक्तं राज्ञाऽमात्यैस्तथैव च ।

  • स्मृसा व्यकवत् ।

(१) व्यमा. ३५१ ( भुक्तिस्त्रिपुरुषिकी सिध्येत्परोक्षान्नात्र संशयः); अप. २०२८; व्यक. ७३; स्मृसा. १०७ त्रिपौ(त्रिपु); व्यचि.७० त्रिपौ (त्रिपु) परेषां नात्र (अपरेषां न); स्मृचि. ४९ पौरुषी (पुरुषात्) सपिण्डत्वे सकुल्यानां (स्वकुलत्वे सपिण्डानां); व्यत. २२७ त्रिपौ (त्रैपु) ध्येत्प (द्धेदप ) नात्र (न) ; दात. १८० व्यतवत् ; चन्द्र. १५५ उत्त.; व्यसौ. ६९ व्यचिवत्; व्यप्र. १६६ व्यतवत्; सेतु. ९३ व्यचिवत्; प्रका.४५ पौ (पु) कात्यायनः; समु.४७ त्रिपौ (त्रैषु) स्मृत्यन्तरम् ; विच.९३ व्यतवत् ; विव्य. १९ पौ (पु) निवृ (नुवृ). (२) स्मृच. ६९; प्रका.४५; समु.४७. (३) अप. २।२८; व्यक. ७३; पमा १४९ अस्वामिना (अनागमं ) ल्यस्य (ल्यैश्च); स्मृसा. १०७ त्रापणा(त्रगत्रा); ब्यचि. ७० ; स्मृचि. ४९ तु (च) त्रापणा (त्रगवा); व्यत. २२७ तु(च); दात. १८०; चन्द्र. १५५ () त्रापणा (त्रगवा) भोगेन (भोगो न); व्यसौ. ६९; व्यप्र. १६६; सेतु. ९३ ल्यस्य (ल्यानां); प्रका.४५ कात्यायनः; समु.४७ सुह... स्य (सुहृद्भिन्धुभि श्चैव) स्मृत्यन्तरम् ; विच.९३ सेतुवत्. | (४) व्यमा. ३५१ वाह्य (भाज्य ) शा (जा) सि... न (सिद्धेन्न तद्धनम् ); अप. २।२८ विवा (वैवा) तत्तु न ( तन्न तु);