पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४१२ वाऽबाधितत्वं तदा विंशतिपदं विरुद्धं त्रिंशद्वर्षात् प्रभृति प्रमाणत्वात् । उच्यते । 'पश्यतोऽब्रुवत' इति निर्देशात् वाङ्मात्रेणाविरोधे विंशतित्रचनं बोद्धव्यम् । त्रिंशद्वर्षवचने त्वविधातिनीति श्रुतेः विशिष्टो घातो विघातः कलहकादिरूपः, स यत्र नास्ति, वाचनिक मात्रस्तु विद्यते तद्विषय इत्यविरोधः । तथा विंशतिवर्षाणि क्रमेण बलीयसः पत्रस्य कूटताशङ्कानिवृत्यर्थ, दुर्बलस्त्र तु साक्षिण: त्रिंशद्वर्षभोगेन शुद्धिरिति प्रयोजनम् । Xव्यमा. ३४२ अप. २।२७ व्यक.७० (२) अध्यासनं परिग्रहः । (३) अविघातिनी निर्विघ्ना । (४) एवं च दीर्घकाला भुक्तिरागमानुगृहीता प्रमाणम् । अदीर्घकाला चेत्तदनुगृहीतागम इत्यनुसंधेयम् । स्मृच.७० (५) ननु, 'अध्यासनात्' इति बृहस्पतिवचने त्रिंश- द्वर्षभुक्तेर्हान्यापादकत्वोक्त्या विंशतिवर्षभुक्तेस्तन्न्यूनवर्ष भुक्तेरिव हान्यनापादकत्वमर्थसिद्ध मिति योगीश्वरव्यासा- दिवचनैरस्य विरोधः ? मैवम् । योगीश्वरादिवचनेषु 'अब्रुवत' इत्येतावन्मात्रा भिधानाद्यत्र विरुद्धं वाङ्मात्रमपि भूमिस्वामिनो नास्ति तत्र विंशतिवर्षभोग एवं हानिकार- णम् । बृहस्पतिवचने तु अध्यासनात् भूमिपरिग्रहादा- भ्य यस्य भुक्तिरविघातिनीत्यविघातिनीपदप्रयोगाद्वि घातस्य च कलहताडनादिरूपत्वेन लोके प्रसिद्धेवी- मात्रविप्रतिपत्तौ सत्यामपि यत्र भोक्त्रा सह पूर्वस्वामिना तद्भोगप्रतिरोधकं कलहताडनादि नाचरितं तत्र त्रिंशद्वर्ष- भोगस्तादृशो हान्यापादक इति वचनस्वरमेनैव विरोध- परिहारात् । मम तु प्रतिभाति । विंशति वार्षिकीत्यादि- हानि विशेषगाद् भूम्याद्युत्पन्ननष्टफलस्य विंशतिवार्षि का दे निस्तावत्कालीनं तत्फलमुपेक्षालक्षणादपराधान्न प्राप्नोति । विंशतिदशवर्षेभ्यः प्रागुक्तभोगकालगणनया तदुत्पन्नं नष्टमपि फलं निष्क्रयरूपेग लभत एव । विंशत्या- दिशब्दोपादानात् । अन्यथा यावत्कालीनपरकृतभोगो पेक्षा तावत्कालीननष्टफलहानिमेव सामान्येन वदेत् । एतावता विंशत्यादिग्रहणस्यार्थवत्वे विंशत्याद्यधिकवर्षी- यफलहानिर्दण्डापूपिकया सिध्यति, भुक्तिविशेषणताया- Xव्यचि., वीमि. व्यमागतम् । मिव विंशत्यादिसंख्यायाः । न चैवं वचनान्तरसंवादा यत्तभुक्तिविशेषणत्वव्याख्यातोऽस्य व्याख्यानस्य न कलतो विशेष इति वाच्यम् । यतो विंशत्यादिग्रहणस्य भुक्तिविशेषणत्वे कियत्कालीन नष्टफलहानिरिति साका- क्षमेवेति । व्यप्र. १६४-१६५ स्वत्वहानिकारणानि ऋक्थिभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते । अन्यस्य भुञ्जतः पश्चान्न स तल्लब्धुमर्हति ॥ समझदाने नाप्रतिषिध्यमानेन स्वाम्यनुमतिपूर्वकत्वसूच केन स्वामिनो यदागमलेख्यं तस्य स्वत्वसाधकत्वे प्रति- इतिर्भवतीत्यर्थः । अनेनार्थाल्लेख्येन स्वार्थसिद्धि मिच्छता स्वामिना समक्षदानं प्रतिषेद्धव्यं यत्नत इत्युक्तं भवति । स्मृच. ६८ पश्यन्नन्यस्य ददतः क्षितिं यो न विचालयेत् | स्वामी सताऽपि लेख्येन न पुनस्तां समाप्नुयात् ॥ 1 (१) यदि तु भोग्यमपि भूम्यादिकमेकस्मिन् विक्रीय तत्समक्ष मेवान्यस्मिन् विक्रीणानं पश्यन्नपि पूर्वक्रेता न निवारयति, तदैव पूर्वक्रेतुः स्वामित्वहानिः, न तु तत्रापि यथोक्तकालभोगापेक्षा, तदाह बृहस्पति:- पश्य अन्यस्येत्यादि । वचनद्रयेऽपि पश्यत एवाविरोधकमात्रेणैव स्वाभ्य निवृत्तिश्रुतेः । एवमाधिप्रतिग्रहादिष्वपि द्रष्टव्यम् । (१) व्यमा. ३४८ (ऋथिभिर्वा परैर्वाऽपि दत्तं तेनैव गु:) पू.; अप. २२५; व्यक. ७३; स्मृच.६८; स्मृसा. १०६ १०७ ; व्यचि.६८ पश्चा (पश्य) : ७५ र्वा (श्चा) पश्चा (पश्य); चन्द्र. १५५ भुजतः (भुक्तं तत्); व्यप्र. १५८; प्रका. ४४ भुजतः ( सुव्रतः ) कात्यायनः; समु. ४६. (२) व्यमा. ३४८ विचाल (निवार); अप. २।२५ उत्त राधे (सताऽपि लेख्येन भुवं न पुनस्तामवाप्नुयात् ) शेषं व्यमावत् ; व्यक. ७३ चाल (चार); गौमि. १२१३४ विचाल (निवार) (स्वामी सताऽपि लेखेन न स तल्लब्धुमर्हति); स्टच. ३८; स्मृला. १०७ व्यमावत् ; व्यचि. ६८ न पुनस्तां ( पुनस्तां न) : ७५ विचाल (निवार) शेषं पूर्ववत् ; चन्द्र. १५६ (=) व्यचि. ७५ वत्; व्यप्र. १५८ ( सताऽपि लेख्येन भुवं न पुनस्तां समाप्नुयात् ); प्रका.४४ कात्यायनः; समु. ४६; विष्य. १८ व्यमावत्.