पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ व्यवहारकाण्डम् ! (१) अस्यायमर्थः- आगमो दानादिः । असति | युक्तं चैतत् । आहर्तुर्हि विदितागमवृत्तान्तस्य तदुपेक्षया तस्मिन् यद्भुक्तं सिध्यति न तु विंशत्या वर्षेः । पितृपितामहप्रपितामहैस्तच्चतुर्थस्य भोगं बदतोऽनागमत्वावधारणात् चौरत्वमेव स्यात् । मेधा.८।१४८ व्यमा. ३४३ (२) अत्यन्तं विनागमं भुक्त्याऽप्युपलभ्यमानमा- गमं विनेत्यर्थः । स्मृच.७२ (३) तत्रात्यन्तमागमं सातत्यादिगुणविशेषणविशिष्ट- मुपलभ्यमानं विनेति व्याख्येयम् । न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं विज्ञानयोगिना । सबि. १३३ (४) विनाप्यागमेन पूर्वैस्त्रिभिर्यद्भुक्तं, ऊर्ध्वं न तच्छक्यं निरसितुम् । क्रमात् त्रिपुरुषागतं प्रमाण मेवेत्यर्थः । पुत्राशोधितमप्यव्याहतं त्रिपुरुषभुक्तं शुद्धं विनापि प्रमाणेनेति । नाभा. २१८१ (५) तदपि अत्यन्तं उपलभ्यमानं, आगमं विना आगमाभावनिश्चयाभाव इति व्याख्येयम् । व्यप्र. १५६ आहतवाभियुक्तः सन्नर्थानामुद्धरेत्पदम् । भुक्तिरेव विशुद्धिः स्यात्प्राप्तानां पितृतः क्रमात् || (१) कश्चित्परकीयार्थानामाहर्ता स एवार्थी धनिना स्वार्थसंचितार्थमारम्भणीयः । स चाहत्व तेनाभियुक्तः सन् तमर्थं प्रतिष्ठापदं नयेत् । तस्मिन् पुनरर्थाहर्तरि मृते तदीयसंततेरुपरतपितृक्रमागता भुक्तिरेव प्रतिष्ठाऽति- शुद्धिकारिणी न (१) भवति । अभा. ४९ (२) आहर्तेबोद्धरेन्नान्य इति नायमन्त्रयः । तदा हि तत्पुत्रादीना मागमशोधन निषेधः स्यात् । न च तदुचितं, सति संभवे तेषामप्यागमशोधनेन भुक्तेरेव सुदृढसिद्धेः । नर्थानां पदं प्रापकं यादिक मेवोद्धरेन्न भुक्ति मित्यर्थः । 'आहर्ता शोधयेद् भुक्तिमागमं चापि संसदि' इति बृह- स्पतिविरोधात् तस्मादाहर्ता शोधयेत् एतैरित्यन्वयः । 4 (३) पदं स्थानं आगममिति यावत् । विशुद्धा सांतत्या दिमत्तया प्रमाणतः सिद्धा । प्राप्तानां चतुर्था- दीनाम् । स्मृच. ७३ (४) मृते तद्वंश्यभोग्यतां यातीत्युक्तम् । जीवति कथमिति तदुच्यते – आइत्व प्रथमपुरुष एव भुञ्जानो. ऽभियुज्यते कथं त्वया लब्धमिति अर्थतो न्यायात् पत्र- साक्ष्यादिभिर्लाभं शोधयेत् पदं व्यवहारपदं व्यवहार- स्थानं वा । यदि शुध्यति तस्यैव तत् । नो चेद्धीयते, यावद्भुक्तं तावद्दाप्यश्च दण्डयश्च, प्रमाणेन विना परकीय- भोगात् । मृते तस्मिन् भुक्तिरेव विशुद्धिः स्यात् प्रमाणं तत्पुत्राणां भवति पितृतः प्राप्तत्वात्, अविवादेन पित्रा भुक्तं चेत् । अथ सविवादेन, तदा पुत्रैर्व्यवहर्तव्यम् । नाभा. २१७८ भुज्यतेऽनागमं यत्तु न तद्भोगपदं नयेत् । प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् || अत्र यावद्भोक्ता जीवति तावदनागमं भुज्यमानं पर कीयं भवति यथा, तथाऽस्योद्धरणसंभवो भवति । यदा पुनरनागमभोक्ताऽपि अप्रार्थित एव मृतः तदा तद्वस्तु तद्वंश्यभोग्यतां याति । अतो नोपे यमित्यर्थः ।

  1. अभा.४९

अन्यायेनापि यद्भुक्तं पित्रा पूर्वतरैस्त्रिभिः । न तच्छक्यमपाहतु क्रमात्त्रिपुरुषागतम् ॥

  • नाभा अभावद्भावः ।

x मिता. व्याख्यानं ' आगमोऽभ्यधिक ' इति याज्ञवल्क्य लोके (पृ. ३९८) द्रष्टव्यम् । अप, भ्यचि., सवि., ध्यप्र., व्यम, बिता, मितागतम् । (१) नासं. २|७७ भोगपदं नयेत् (भोगोऽतिवर्तते); नास्मु. ४९८८ वंश्य (वंश); अभा. ४९; ब्यसौ.६८ पूर्वार्धे (अना गमं भुज्यते यश तद्भुक्तिर्बलं भवेत् ) वंजयभोग्य (वंशभोग). ६६ () सविवत् ; वीमि. २१२९ न्तं (थं) शेषं सविवत् ; ब्यप्र. १५५ मुपा (मपा) । विता. १४१ (=) व्यप्रवत् ; प्रका. ४७ व्यप्रवत् ; समु. ४९ व्यप्रवत्. (२) नास्मु. ४१९१ पित्रा (पितु:); अभा.४९ नास्मृवत् (१) नासं. २१७८ र्थानामुद्ध (र्थतस्तद्ध); नास्मु. ४/९० सन्न मिता. २ | २७; व्यमा. ३४१ हर्तु (कर्तु) : ३५० पू.; अप ( स्यान्ना) प्राप्तानां ( प्राप्ता या); अभा. ४९; ग्यमा. ३४३ २।२८ ; ब्यक.६ अन्यायेनापि (अनागमं तु) : ७० नापि (न तु); भुक्ति (भुक्ते) प्राप्तानां (प्राप्तायाः); स्मृच. ७३ सन्न (स्याद) लोकाध व्यत्यासेन पठितौ; स्मृच. ७३; सुबो. २ २७ (=) पू.; स्मृसा. १०४, १०९. व्यमावत; व्यचि.६४ व्यकवत् : शुद्धि: (शुद्धा); प्रका.४७ स्मृचवत्