मुक्तिः (१) आध्यादीनां यः स्वामी तस्य प्रत्यक्षमनुपश्त- वंश्याः द्विदशाः समाः विंशतिवर्षाणि येन भुक्तानि तस्यैव तानि जीर्यरन् परिणतिं यान्तीत्यर्थः । स्त्रीधनं सुप्रतीतम् । नरेन्द्रधनशब्देन पर्यायेण तु भूमिरुक्ता किल । नरे- न्द्राणां भूमिरेव धनमित्यतः । स्त्रीनरेन्द्रधने तु विंशति- वर्षैरपि न नश्यत इति । अभा.४९ (२) आध्यादयोऽपि जीयरन् किं पुनरन्यत् ? तस्मा- दाध्यादिव्यतिरिक्तस्य यथोक्तया भुक्त्या स्वत्वसिद्धिः । एवं चाघिसी मोप निक्षेपेत्या देर विरोधः । Xअप. २।२५ (३) एवं च विंशतिवर्षाद् बालधनं जीयंत्येव । (१) यत्किञ्चिदाधीकृतं वस्तु तत्सुचिरकालादपि द्रव्येण लभते । न भोगेन प्रणश्यति तथा परसीमा चिराक्रान्ताऽपि स्वस्थीभूते देशे पुनर्लभ्यते, न प्रण- श्यति । तथा मातापित्रोः परोक्षे, येन सधनो बालः परि- गृहीतस्तद्वालधनं चिरभोगेनापि न प्रणश्यति । तथा नि क्षेपो न्यासः, , उपनिधिः निक्षेपमध्ये अन्तर्हितसारद्रव्यम् । तथा स्त्री निक्षेपभूता या भुक्ता । तथा राजस्वशब्देन भूमिरुक्ता । श्रोत्रियद्रव्यशब्देन गावोऽभिहिताः । एतेषु सविशेषन्यासाः चिरकालातिक्रमेऽपि न नश्यन्तीति । अभा. ४८.४९ (२) 'यत्किंचिद्दशवर्षाणी'त्यस्यापवादः । नाभा. २/७३ ब्रह्मचारी चरेत्कश्चित् व्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः || समावृत्तो व्रती कुर्यात् स्वधनान्वेषणं ततः । पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः ॥ प्रतिवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥ सुहृद्भिर्बन्धुभिश्चैषां यत्संभुक्तमपश्यताम् । नृपापराधिनां चैव न तत्कालेन हीयते ॥ एतच्चापवादजातं भोक्तुरागमाभावे वेदितव्यम् । स्मृच.६९ प्रत्यक्षपरिभोगात्तु स्वामिनो द्विदशाः समाः । आध्यादीन्यपि जीर्यन्ते स्त्रीनरेन्द्रधनाते || १०७ व्यकवत् मनुनारदी; व्यचि. ७५ घी (धि:) द्रव्यं ... ति (स्वं च नोपभोगेन शाम्यति); स्मृचि. ५० व्यचित्रत्, मनु- नारदौ; व्यसौ.६९ आधि: (आधे :) घी (धि:) द्रव्यं ... ति (स्वं च नोपभोगेन सिध्यति) मनुनारदौ; व्यप्र. १६६ द्रव्यं ... ति (स्वं च नोपभोगेन नश्यति) मनुनारदौ; व्यम. १५ घी (धि:) शेषं व्यप्रवत् ; विग्य. २० घी (धि:) द्रव्यं (स्वं च). (१) स्मृच.६९; पमा.१४८ व्रती (इव्रती) यत्पंभु (यत्स्वं भु) न तत् (भवेत् ) कात्यायन:; प्रका. ४५; समु.४७. (२) नासं. २१७४ (च्च) र्यन्ते (र्येयु:); नास्मृ. ४१८२; अभा.४९; ग्यमा. ३४९ त्यक्ष (त्यर्थि) द्वि (हि) र्यन्ते (र्यन्ति); अप. २।२५ दीन्यपि (दयोsपि) र्यन्ते (येंरन्); ब्यक.७२ र्यन्ते (र्यन्ति); मभा. १२१३४ नासंवत् ; स्मृच.७० सु (च); स्मृसा. १०६ व्यकवत् ; व्यचि. ६७, ७५ व्यकवत् ; चन्द्र. ४०५ मभा. १२३४ (४) आध्यादीन्यपीति प्रौढिवादः । तेषामपि भोगो- पेक्षाकारणसंभवेन स्त्रीधननरेन्द्रधनतुल्यत्वादनागममिति वदन्नागमसंभवे जीर्यत एवेति दर्शयति । स्मृच.७० (५) राजस्वं स्त्रियं च विना आध्यादिपि विंशति- वर्षभोगेन हीयत एव । चन्द्र. १५४ (६) आध्यादीनामप्यपवादः । आध्यादिन्या तिप्रसक्तस्य निवृत्यर्थमाह - ऋते स्त्रीधनान्नरेन्द्रधनाच्च । स्त्री च नरेन्द्रश्च स्त्रीनरेन्द्रौ तयोर्धनं स्त्रीनरेन्द्रधनम् । स्त्री च नरेन्द्रधनं चेति वा । नाभा. २।७४ स्त्रीधनं च नरेन्द्राणां न कथञ्चन जीर्यति । अनागमं भुज्यमानं वत्सराणां शतैरपि ॥ (१) एवं निरन्तरभोगेन न प्रणश्यति, मुनिवचन- सिद्धादेशादिति । अभा.४९ (२) इदमपि वचनं पशुभूमिस्त्रीविषयत्वेन व्याख्या- x व्यचि. अपगतम् । १५४ व्यकवत् ; प्रका. ४६ त्तु (च); समु.४७ तु (च्च) बृहस्पति:; विव्य. १९ व्यकवत् . (१) नासं. २।७५ स्त्रीधनं (स्त्री धनं); नास्मृ. ४१८३ र्यति (र्यते); अभा.४९ नास्मृवत् ; व्यमा. ३५०; मभा. १२१३६ भुज्यमानं ( तु यद्भुक्तं ) उत्त; स्मृच. ७० र्यति ( येते) वत्स- राणां (वर्षाणां तु); व्यत. २२६ नरे (नृपे) कथं (कदा) वत्स- राणां (अपि वर्ष); चन्द्र. १५४ कथं (कदा) वत्सराणां (अपि वर्ष); सेतु . ९२ धनं च (धनं तु) शेषं चन्द्रवत्; प्रका. ४५ स्मृचवत् ; समु. ४७ स्मृचवत् ; विश्व. १४२ चन्द्रवत् ; विष्य. १९ (=) गमं (गतं).
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८३
दिखावट