पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०३ हारे भुक्तिरागमरहिता साक्ष्यादिभिः साधितापि न प्रमा- णम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेना- प्युक्तम् – 'नवारूढ विवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगों निवर्तयेत्' इति ॥ Xर्मिता: व्यवहारकाण्डम् (३) एवं विषये भुक्तेरागमेन विना प्रामाण्यनि- धात् अन्यंत्र तदनुजानाति । व्यमा. ३५२ (४) तस्य रिक्थी धनग्राही पुत्रादिस्तममियोंगमुद्ध रेत् । व्यवहारं समापयेदित्यर्थः । + अप. (५) तमागमं चतुर्थादिरग्यवश्यं समुद्धरेत् । यस्मा- स्वतन्त्रा भुक्तिः तत्राप्रमाणं, अविगीतत्वाभावादि त्यर्थः । स्मृच.७५ (६) तस्य ऋक्थी पुत्रादिः तदर्थमागमेनोद्धरेत् साधयेत् । +व्यचि. ७० (७) एष सविवादभोगः षष्ठयब्देतरपरः । तथा विधभोगस्यागर्म विनाऽपि प्रामाण्यात् । *व्यत. २२५ नारद: • साक्षिलेख्य भुक्तीनां प्रामाण्यस्वरूप प्रावल्यदौर्बस्यविनारश्च श्रुत्वोत्तरं क्रियावादे लेख्यं साधनमुद्दिशेत् । सामन्तलक्षणोपेता भुक्तिर्वा चिरकालिकी || साधनशब्देनात्र गोबली वर्दन्यायात् साक्षिण उच्यन्ते । तेनायमर्थ:- लिखितं साक्षिणो वा गृहक्षेत्रादिवित्रादेषु उद्दिशेत् । मुक्तिर्वा कीर्तनीयेति । . ÷स्मृच.६७ साध्यभूतक्षेत्रादेः समन्ततो यत्क्षेत्रादि तत्स्वामिनः सामन्ताः । तैर्विज्ञाता सामन्तोपेता । लक्षणोपेता तु पितामहेन दार्शता — 'सागमा दीर्घकाला चेत्यादिना / ÷स्मृच. ७० गृहक्षेत्रादिवादेषु सामन्तेभ्यो विनिर्णयः । नगरप्रामगणिनो ये च वृद्धतमा नराः [. यद्वदन्ति नियोगस्थाः तद्ग्राह्यं व्यावहारिकम् ।। एतदुक्तं भवति । क्षेत्रादिस्थावरविवादे मानुषप्रमाणा- ·x वि., विता, मितागतम् | + शेषं मितागतम्..

  • पदार्थों मिताबत्। सवि. स्मृचगतम् ।..

(१) स्मुच्च.६७:७० उत्त.; नृप्र: ९; सवि. १२३ श्रु (क); प्रका. ४४ बादे (पादे): ४६ उत्त, हारीतः; समु. ४६ (२) पृ. ६७; प्रका.४४; समु. ४६.. नामन्यतमं प्रमाणमुद्दिशेत् न जातु दिव्यमिति । स्मृच.६७ 'लिखितं स्याहुच्छिद्रं साक्षिणो नाजरामराः । भुक्तिस्त्वनर्थसंबद्धा संततैवार्थसाधकीं ॥ लिखितं बलवत् जीवन्तस्त्वेव साक्षिणः । कालातिहरणाद् भुक्तिरिति शालेषु निश्चयः ॥ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । पूर्व पूर्व गुरु ज्ञेयं भुक्तिस्तेभ्यो गरीयसी ॥ (१) तत्र पूर्वस्य पूर्वस्य गुरुत्वे निर्दिष्टे लिखित- प्रमाणस्यैवाधिक्यमुपपद्यते । उत्तरोत्तरं भुक्तर्मान्द्यगौरव- व्याख्यानमागच्छति । पुनश्चास्मिन्नेव श्लोकचतुर्थपादे- ऽभिहितं 'भुक्तिस्तेभ्यो गरीयसी' ति भुक्तेरेबातिगौरव मापा- दितम् । तत् कथमेतद् योजनीयम् ? अत्रोच्यते, स्थावर विषये निरागमाया दुर्बलत्वं दृष्टम् । यथोक्तमंत्रैव- ‘संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् | आगम: कारणं तत्र न भोगस्तत्र कारणम्' ॥ एवमनागमाया मुक्तेः दुर्बलत्वमात्रं प्रतिष्ठते । तस्याः पूर्व प्रमाण साक्षिण उक्ताः । ते च यदि स्थावरस्यागमप्रतिष्ठाकारिणो भवन्ति ततो भुक्तिः प्रतिष्ठते, नान्यथा । एवं भुक्तेः पूर्वस्य साक्षिणः प्रमाणस्य गुरुत्वमापन्नम् । ततश्चागम- द्वारेणैव साक्षिम्यो लिखितं श्रेय इति । एवं चागम- प्रतिष्ठिता सती भुक्तिस्तेभ्यः साक्षिलिखितदिव्येभ्यो गरीयसीति योजितमिदम् । अभा.४७-४८ (२) एभ्यः स्वल्पकालभुक्तिसाक्षिलिखितेभ्यो बहु- काला भुक्तिर्बलवती ।

व्यक. ७१

(३) अत्र पूर्वपूर्वशब्देन लिखितसाक्षिभुक्तिषु यद- त्यन्तपूर्व लिखितं तदभिप्रेतम् । तेनायमर्थो भवति, यदै- कस्य लिखितं भवत्यन्यस्य साक्षिणः तदा लिखितमेव प्रमाणं भवति । स्वहस्तचिह्नितलिखितस्य बलीयस्त्वात् । यदा त्वेकस्य साक्षी लिखितमुभयमपि समस्ति, अभ्यस्य च यथोद्दिष्टकालीना भुक्तिस्तदा भुक्तिरेव प्रमाणम् | न साक्षिलिखने । भुक्त्यनुमितस्वत्वत्यागय पूर्वकालीनलिखितसाक्षिबाधकत्वात् । तदुक्त 'मुक्ति- राभ्यां गरीयसीति । यत्तु, “संभोगो दृश्यते

X व्याख्यासंग्रह: स्थलादिनिर्देशश्च (पृ. २१८) क्रियाप्रकरणे द्रष्टव्यः । * स्पॅलादिनिर्देशः क्रियाप्रकरणे (पृ. २१८) द्रष्टमः। (१) नास्मृ.४/७३; अभा.४७.