पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः | हानिस्तयोरपीति | भोग्यहानिरर्थहानिरित्यर्थः । सुबो (७) आ सम्यक् गम्यते प्राप्यते स्वीक्रियते येन स आगमः क्रयाविरिति व्यवहारमातृका । आगम: साक्षि- पत्रादिकं इति दीपकलिका । आगमो धनोपार्जनोपायः क्रयाविरिति मैथिलाः । 7 व्यत. २२५ , (८) वाशब्दोऽनास्थायां तेन प्रपौत्रादिसंग्रहः । तत्रेति सप्तमी षष्ठ्यर्थे । तुशब्देन भोगं व्यवच्छिनत्ति, तत्रापि कृतस्याऽप्युद्धरणीयत्वात् ।

  • वीमि.

आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ॥ लेख्यकृत्पुत्रस्तु किमिति धनभाङ् न भवति ? यस्माद् आगमेनेति । लेख्यस्वरूपाशत्वात् तद्दोषानपा- करणमात्रमेव स्यात् । न तु प्रमाणरहितं स्वामित्व मपीत्यमिप्रायः । प्रामाण्यं च विशुद्धागमस्यैव भोगस्य, न तु भुक्तिमात्रस्येत्यर्थः । विश्व.२।२९ योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता । न किञ्चन' इति । तदाहर्तृपुत्रस्य स्मार्तकालान्तर्गतायां भुक्तौ पौत्रस्य च तदतिरिक्तकालायां वेदितव्यम् । यत्तु कात्यायनवचनम् – 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या त्रिपौरुषी' इति ॥ चतुर्थस्य पुंसो भुक्तिः प्रमाणतयोपन्यस- नीयेति गमयति । तत्तस्यापि स्मार्तकालानन्तःपातिभुतौ सत्यां वेदितव्यम् । यद्यपि वस्तुगत्या मूलपुरुषस्य नास्त्यागमस्तथाऽपि तत्प्रभृतिपुरुषत्रयेण साधिकं वर्षशतं यावद्भुक्तौ भूश्चतुर्थात्पुरुषादन्येनापहर्तुमशक्या निरागमत्वनिश्चया भावात् । अनागमत्वनिश्चयो हि भुक्तेर्बाधकं तदभावे च प्रमाणमिति । यथोष्णजलज्ञानस्य व्यवहाराबाधात् भ्रान्तत्वेऽपि प्रामाण्यम् । यदा तु चतुर्थस्यापि भुक्तौ वर्तमानायां वर्षशतात्ययेऽपि प्रथमभुक्तेरनागमत्वनिश्च- योऽस्ति तदा ततोऽपहर्तव्यैव भुज्यमाना भूः । प्रथमा हि तत्र भुक्तिर्बाधकप्रत्यययोगादप्रमाण मप्रमाणप्रभव- त्वाच्चोत्तरा अपि भुक्तयोऽप्रमाणम् । एतद्विषयाण्येव -- 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौर- दण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ इति नारदादीनां वचनानि । अत्र च प्रथमभोक्तुरेव दण्डो न तु तत्सुता- दीनां, तेभ्यस्तु भूरेव ग्राह्या ।

  1. अप.

(५) कृतागमेनागमोद्धरणं लेख्यसाचिभ्यामेव कार्यम् । भुक्तेः स्मार्तकालीनोपक्रमत्वेनागमोद्भावनेऽलम- स्वात् । अतः कृतागमस्यागमो भोगात्पृथगेव साध्य: । पुत्रपौत्रयोश्च चिरन्तनभोगे तु भोगसाधनान्तरीयकत या (?) ऽपीत्यवगन्तव्यम् । स्मृच. ७२ (६) दण्डम्यवस्थां दर्शयितुमाह - आगमस्तु कृतो येनेति । न चैतदुनुपपन्नं, अस्मिन्वचने दण्डव्यवस्था- विधानाभावात् इति चेत् | मैवम् | आद्येन पुरुषेण प्रतिग्रहादिकमेवोपन्यसनीयम् । द्वितीयेनाविच्छिन्ना- प्रतिरवसमक्षत्वादिविशेषेण विशिष्ठो भोग एवोपन्यस- नीयः । तृतीयेन समक्षत्वाविविशेषणवैशिष्ट्य मन्तरे- णापि क्रमागतभोगमात्रमुपम्यसनीयमिति नियमविधे नियमातिक्रमे दण्डविधान मध्यर्थसिद्ध मेवेति दण्ड- व्यवस्थाप्रतिपादकत्वमुपपन्नमेवेति सर्वमनवद्यम् । भोग्य- ।

  • व्यचि. अपगतम् ।

व्य. का. ५१ (१) यदि हि लेख्यदोषापाकरणामियुक्तः परेतों मृतः स्यात् तदा तदीयधनग्राह्यपाकुर्यात् । एतच्च लेख्यकर्तृविषयम् । इतरस्थ द्रव्यापहार एव स्यात् । यस्मान्न तत्र स्वामित्वे भुक्तिरागमशून्या कारणं भवति, कृतापि तु व्यभिचारिणीत्यर्थः । विश्व.२।३० (२) अस्मार्तकालोपभोगस्यागमज्ञान निरपेक्षस्य प्रामाण्यमुक्तं विनापूर्वक्रमागतादित्यत्र तस्यापवादमाह- योऽभियुक्त इति । यदा पुनराहर्त्रादिरभियुक्तोऽक्कत. व्यवहारनिर्णय एव परेतः परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् ; यस्मात्तत्र तस्मिन् व्यव

  • वाक्यार्थ: अपवत् ।

(१) अपु. २५३/५६-५७; विश्व. २।२९; स्मुसा. १०८५ व्यचि.६५ नाभि (नैव); चन्द्र. १५६ व्यचिवत् प्रमाण मूलस्मृतिपुस्तके नोपलभ्यते. मिता.; (२) यास्मृ. २।२९; अपु.२५३१५८-५९; विश्व.२३० .; व्यमा. ३४५ यो (सो) : ३५२; अप.; व्यक.७२ १ स्मृच. ७५३ पमा. १४५; स्मृसा. १०५ तमु (तदु); ग्यचि. ७०; स्मृचि ४९; नृप्र. ८; व्यस. २२४; सवि. १ ३४१वीमि.) व्यम. १४; विता. १५२; सेतु. ९०; प्रका. ४८; समु. ४९१ विच. १३९-१४०; विन्य. १८ पू.