पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४०० (१) यस्माच्च क्रममुक्तिरागमाद् बलीयसी, तस्माद् आगमस्त्विति । लेख्यकर्तुः पुत्रो न लेख्यदोषानपाकुर्यात्, न ह्यसौ पितृवल्लेख्यस्वरूपज्ञो यतः । धनं तु न तत्पुत्रस्य | तस्य तु यः पुत्रः, तस्य धनमपि स्यात् । यस्माद् भुक्तिस्तत्र गरीयसी लेख्यादित्युक्तमेवेत्यभिप्रायः । विश्व. २१२८ - । (२) पश्यतोऽब्रुवत इत्यत्र विंशतिवर्षीपभोगादूर्ध्व भूमेर्धनस्यापि दशवर्षोपभोगादूर्ध्व फलानुसरणं न भवतीत्युक्तम् । तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवस्थां दर्शयितुमाह -- आगमस्त्विति । येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः, स पुरुषः कुतस्ते क्षेत्रादिक मित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखिता- दिभिरुद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्या गममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयो ऽभियुक्तो नागममुद्धरेत् । कि तु अविच्छिन्नाप्रतिरव- समक्षभोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रति पादितम् । तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोग मुद्धरेत् अपि तु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभोगानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्वितीय- तृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुः तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमा नुद्धरणेऽर्थहानिः समानैव । दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन - 'आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानि स्तयोरपि ' इति ॥

  1. मिता.

(३) ननु चतुर्थ एव पुरुषे भोगप्रामाण्यात् कथं पुत्रपौत्रगोचरायाः भुक्तेर्गरीयस्वामिधानम् ? उच्यते ।

  • ध्यम., विता. मितागतम्

(रल); अप.; उग्रक.७१; स्मृच. ७२; स्मुसा. १०५ तमु (सदु) तत्सुतो वा (स्वतो वापि) स्तत्र (रेव); व्यचि.६९,७४, स्मृचि. ४९ स्तत्र (रेव); नृप्र.८; व्यत. २२४; दात. १८१; व्यसौ. ६७; वीमि.; ग्यप्र. १५८ प्रथमपादः; व्यम. १४; बिता. १५२; सेतु. ९०; प्रका.४७, समु. ४८ कात्यायन; विव. १३९ गरी (बली); विग्य. १७ नारदः. गरीयसीति भुक्तिः प्रधानं प्रमाणं, आगमस्तु सह- कारी, तेनागमोपन्यासस्ताभ्यामपि कर्तव्यो न तु शोध- नम् । आहर्त्रा शोधनमवश्यं कार्य, तेन तस्यागमः प्रधानं भुक्तिश्च सहकारिणी । व्यमा. ३४४ संदिग्धागमविषयस्त्वर्वाचीनो जीवतां त्रयाणां पष्टिवर्षभोगोऽनुपपत्या प्रमाणमेव । न चेदमशास्त्रीयम् । तथाह याज्ञवल्क्यः -- आगमस्त्विति । व्यमा. ३५२ (४) येन आगम: क्रयादिः कृतः सोऽभियुक्तस्तमा- गमं लिखितादिप्रमाणेनोद्धरेत्साधयेत् । तस्य आगमकर्तुः सुतः पौत्रो वाऽभियुक्तो नागममुद्धरेत् । यतस्तयो भुक्तिरेव गरीयसी गुरुतरा । आगमोद्धरणं विनैव प्रमा- णत्वं तस्या गरीयस्त्वम् । ननु चाधिभोगस्य स्वामित्व- मन्तरेण दर्शनान्न भोगस्यागमनिरपेक्षस्य प्रामाण्यं युज्यते संशय हेतुत्वात् । मैवम् । शास्त्रेषु खत्सर्गतो भुक्तेः स्वामिभावं प्रति प्रमाणता कीर्त्यते । अपवादतया पुनरा ध्यादिभुक्तिः । ततश्च यत्रांधिभुक्तिरियमिति साक्षिलिखि तादिभिः सिध्यति तत्रैवापवादः । अन्यत्रौत्सर्गिकं स्व- स्वामिभाव एव भुक्तेः प्रामाण्यमिति आगमकर्तुः सुतस्यापि भुक्त्यैव स्वाम्यसिद्धिरिहोच्यते । सा स्मार्तकालातिक्रमे सति द्रष्टव्या । स्मार्तश्च कालः पुरुषत्रयभुक्तिकालात्मकः । तथा च स्मृत्यन्तरम् –'स्मातें काले किया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रि- पुरुषागता' इति ॥ पुरुषभोगकालस्य च परिमाणमाह नारद:- 'वर्षाणि विंशतिं भुक्ता स्वामिना व्याहृता सती । भुक्तिः सा पौरुषी भुक्तिर्द्विगुणा च द्विपौरुषी । त्रि- पौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः ॥ कात्यायनः 'मुख्या पैतामही भुक्ति: पैतृकी चापि संमता । त्रिमिरेतै- रविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता' ॥ ततश्च वर्षषष्टेः पूर्व स्मार्तः कालः । ऊर्ध्वमस्मार्तः । अथ वा, वर्षाणि पञ्चत्रिंशत्तु पौरुषो भोग उच्यते । इत्येतत्स्मरणानुसारेण पञ्चोत्तरं (१) वर्षशतं स्मार्तः कालः । ऊर्ध्वमस्मार्तः । अनयोश्च पक्षयोः स्मर्तृपुरुषसद्भावासद्भावकृता व्यवस्था । आहर्तुः स्मार्तकाले व्यतीते पर्यनुयोगे च सत्यागमः साथ्यो भवत्येव । अत एवाविशेषेण बृहस्पतिराह - 'आहर्ता शोधयेद्भुक्तिमागमं वाऽपि संसदि' इति । यत्पुनरनन्तरमुक्तम्– 'तत्पुत्रो भुक्तिमेवैकां पौत्रादिस्तु