पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यितुमलम् | मध्ये दानविक्रयादिना स्वत्वापगमसंभवा दिति सर्वमनवद्यम् । आगमसापेक्षो भोगः प्रमाणमित्युक्तम्, । आगमस्तर्हि भोगनिरपेक्ष एव प्रमाणमित्यत आह-आगमेऽपि इति । यस्मिन्नागमे स्वल्पापि भुक्तिर्नो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति । अयमभिसंधिः । स्वस्वत्वनिवृत्तिः पर स्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा | स्वीकारश्च त्रिविधः मानसो वाचिकः कायिश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकस्तु पुनरुपादानाभिमर्शना- दिरूपोऽनेकविधः। तत्र च नियमः स्मर्यते । 'दद्यात्कृष्णा- जिनं पुच्छे गां पुच्छे करिणं करे | केसरेषु तथैवाचं दासी शिरसि दापयेत्' इति ।। आश्वलायनोऽप्याह- 'अनुमन्त्र- येत्प्राण्य भिमृशेदप्राणिकन्यां चेति' । तत्र हिरण्यवस्त्रादा- बुदकदानानन्तरमेवोपादानादिसंभवात् । त्रिविधोऽपि स्त्रीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिक स्वीकारासंभवात् स्वल्पेनाप्युपभोगेन भवितव्यम् । अन्यथा दानक्रयादेः. संपूर्णता न भवतीति फलोपभोग- लक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति । तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज़ाने । पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वकालागम एव बलीयानिति । अथवा, ‘लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधम्' इत्युक्तम्, एतेषां समवाये कुत्र कस्य वा प्राबल्य मित्यत्रेदमुपतिष्ठते 'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकाऽपि यत्र नो' इति । अयमर्थः -- आद्ये पुरुषे साक्षिभिर्भावित आगमो भोगादष्यधिको बलवान् । पूर्वक्रमागताद्भोगा- द्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलवान् । मध्यमे तु भोगरहितादागमा तस्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम् -- 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भूक्तिरेवैका संतता या चिरन्तनी इति ॥ (३) स्तोकापीति नाल्पकालाभिप्रायम् । वृत्तेरप्यल्प- ।

  1. मिता.
  • सवि., व्यप्र., बिता. मितागतम् ।

३९९ कालभोगं बिना स्वत्वहानिसंभवात् तेनागृहीतक्रीत- गृहीतादिभूमेश्विरानुवर्तने तदेकदेशभोगेऽपीत्यस्यार्थः । व्यमा. ३४४ (४) भुक्तेः प्रमाणतयोक्ताया विषय विशेषे सहकार्य न्तरमाह -- आगम इति । आगम: स्वामिभावप्रतिपादकः क्रयप्रतिग्रहादिको- ऽर्थः, सोऽधिकोऽपरो द्वितीयो भोगात् । भोग्यमपेक्ष्य भोगस्य स्वामित्व परिच्छेदं कुर्वत आगम: सहकारी- त्यर्थः । ननु च आगम: साक्ष्यादिप्रमाणपरिच्छिन्नो भोगनिरपेक्ष एवं स्वामित्वं साधयतीति किमत्र भोगेन कार्यमित्यत्राह – आगमेऽपि बलमित्यादि । यद्विषया स्तोकाऽपि भुक्तिर्न विद्यते, तद्विषयमागमाश्रितं बलं सामर्थ्य प्रामाण्यलक्षणं नैवास्ति । अयमभिप्रायः- यद्यपि पूर्वमस्य ऋयः प्रतिग्रहो वाऽत्र क्षेत्रादौ जात इति लिखितादिवशान्निश्चितं तथाऽपीदानीन्तनं स्वामित्वं विना भुक्त्या न सिध्यति । मध्ये दानविक्रयादिसं- भवात् । तस्मादिदानीन्तनं स्वामित्वं साधयितुमागमेन वर्तमाना मुक्तिः सहकारितयाऽपेक्षितव्या । -

    • अप.

(५) आगमे लिखितसाक्षिपरिशेयक्रयादावित्यर्थः । अनेनागमलेख्यादेपशङ्कापनोदकतया स्तोकभुक्तिरनु ग्राहिकमात्रमेव न प्रमाणमित्यर्थादुक्तम् । स्मृच.६७ (६) अत्र च पूर्वक्रमागताविति उपलक्षणम् । विंशतिवर्षादिकमपि प्रत्येतव्यम् । नारदेन तस्या अपि बलीयस्त्वप्रतिपादनात् । स्मृसा. १९१ (७) भूम्यादावागमः पूर्व पुरुषक्रमानागतभोगात् बलवान् | अतः क्रमागतभोग आगमाद् बलवान् । +व्यत. २२४ (८) अभ्यधिक: तद्भिन्नस्तदङ्गभूः । अङ्गत्वलाभार्थ- मभीत्युक्तम् । यद्यप्यागमो न पृथक् प्रमाणत्वेनोप- दर्शितः, तथापि चकारसमुच्चितेऽनुमाने तदन्तर्भावः इत्यवधेयम् । Xवीमि, आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ शेपं मितागतम् । + सेतु., विव. ध्यतवत् । x सर्व व्याख्यानं अपगतम् । (१) यास्मृ. २ | २८; अपु. २५३/५७-५८३ विश्व. २१२८१ मिता; व्यमा. ३४४ तमु ( तदु ) : ३५.९ तमु (तदु) स्तन