पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ लेख्यम् । तद्भुक्तेर्बलीयः, निश्चितत्वात् । अन्यथापि भुक्त्युपपत्तेः । पूर्वक्रमे तु सति भुक्तेर्बलीयस्त्वं, लेख्या न्तरनिरस्तस्यापि लेख्यस्य प्रमादतः स्थितिसंभवात् । त्रिपुरुषभुक्तिः पूर्वक्रमः । यतश्च नाशादिव्याजेन लेख्य स्योपगतादिबाधितस्यापि स्थितिसंभवः । तत्र 'आगमे ऽपि' इत्यादि न स्याद् यावत्या विना लेख्यप्रतिष्ठा न स्यादित्यर्थः । व्यवहारकाण्डम् निश्चयाभावादिति । अतश्च वर्षशताधिको भोगः सन्ततो- ऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे वाइनिश्चिते अव्य- भिचारादाक्षिप्तागमः स्वत्वं गमयति । अस्मार्तेऽपि कालेऽनागमस्मृतिपरंपरायां सत्यां न भोगः प्रमाणम् । अत एव – 'अनागमं तु यो भुङ्क्ते बहून्यब्दशता- न्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ इत्यु- तम् । न चानागमं तु यो भुङ्क्ते इत्येकवचननिर्देशा- द्वहून्यब्दशतान्यपीति अपिशब्दप्रयोगात् प्रथमस्य पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधान- मिति मन्तव्यम् । द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गान्न चैतदिष्यते । 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे 'अनागमं तु यो भुङ्क्ते' इत्येतत् द्रष्टव्यम् । यदपि, 'अन्यायेनापि यद्भुक्तं पित्रा पूर्वतरैस्त्रिभिः । न तच्छक्यमपाहतु क्रमात्त्रिपुरुषा- गतम्' इति ॥ तदपि पित्रा सह पूर्वतरैस्त्रि भिरिति योज्यम् । तत्रापि क्रमात् त्रिपुरुपागतमित्यस्मार्तकालो- पलक्षणम् | त्रिपुरुपविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुष- त्रयातिक्रमसंभवात् । द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गः । तथा सति 'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते' इति स्मृतिविरोधः । अन्याये- नापि यद्भुक्तमित्येतच्चान्यायेनापि भुक्तमपहर्ते न शक्यम् । किं पुनरन्यायानिश्चय इति व्याख्येयमपिशब्द- श्रवणात् । यच्चोक्तं हारीतेन – 'यद्विनाग ममत्यन्तं भुक्तं पूर्वेस्त्रिभिर्भवेत् । न तत् शक्यमपाहर्ते क्रमात्त्रिपुरुषा- गतम्' इति ॥ तत्राप्यत्यन्तमागमं विनेति अत्यन्तमु पलभ्यमानमागमं विनेति व्याख्येयम् । न पुनरागम- स्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । क्रमात्त्रिपुरुषागतमित्येतदुक्ता- र्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथा हि, यद्यागमः प्रमाणान्तरेणा- वगतस्तदा तेनैव स्वत्वागमान्न भोगस्य स्त्रत्वे आगमे. वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ? उच्यते, प्रमाणान्तरेणावगता- गमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गम विश्व.२।२७ (२) स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्य मुक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वात्कीदृशो भोगः प्रमाणमित्यत आह - आगम इति । स्वत्वहेतुः प्रति ग्रहक्रयादिरागमः । स भोगादप्यघिको बलीयान् । स्वत्व- बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारदः--- 'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अवि शुद्धागमो भोगः प्रामाण्यं नैव गच्छति' इति ॥ न च भोगमात्रात्स्वत्वागमः | परकीयस्याप्यपहारादिनोपभोग प्रसङ्गात् । अत एव 'भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥ इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निरा- क्रोश: प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथा च स्मर्यते – 'सागमो दीर्घकालश्चाविच्छेदोऽपरवोज्झितः । प्रत्यर्थिसंनिधानोऽपि परिभोगोऽपि पञ्चधा' इति॥ क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्य मित्याह -- 'विना पूर्वक्रमागतात्' इति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति संबन्धः। स पुनरा गमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः । तत्राप्या ग़मशाननिरपेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । विना पूर्वक्रमागतादित्येतच्चास्मार्त कालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति च स्मार्त कालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवादागमज्ञाननिरपेक्ष एव सन्ततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन- 'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मातें अनुगमाभावात्क्रमान्त्रिपुरुपागता' इति ॥ स्मार्तश्च कालो वर्षशतपर्यन्तः 'शतायुर्वे पुरुप' इति श्रुतेः अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभाव-