पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६. व्यवहारकाण्डम् धावर्थ' इत्यादिकात्यायनबचनेन यद्भोगस्य लेख्यादि- ! त्वात् । हानिशङ्काप्रसक्तितौल्यात् । प्रदेशान्तरस्थ दोषनिराकरणार्थमुक्तं तदपार्थकं स्यादिति । विधिविशेषत्वानुपपत्तेरत्र च तद्विध्यश्रवणात् । अन्यत्र स्पष्टं तद्विधिसत्वेन तदुन्नयनस्याप्यनुपयोगात् । हानि- पदेनातत्फलकप्रमाणापरिपालनलक्षणया तत्प्रतियोगिभूत- प्रमाणपरिपालनकर्तव्यतापरत्वेऽत्यन्त क्लिष्टत्वापत्तेश्च । तस्मात् समस्तदोषशून्या विज्ञानयोगिव्याख्यै वास्य वचसो ज्यायसी । ध्यप्र. १५८-१६४ तदपि चिन्त्यम् । तस्यैतादृगाधिविषयत्वं न प्रकरणा- दर्थतः शब्दतो वाऽवगम्यते । अस्य चाघिविशेषविषयता- यामाधिसीमेत्यस्यैतदपवादस्यैतादृगाधिभिन्नाधिविषयता- प्यशाब्दी कल्प्या | 'आधौ प्रतिग्रह' इत्यादेरयमपवाद इत्ययुक्तम् । अतिव्यवहितस्य तस्यात्रानुपस्थितेः । विंशत्या दिवर्षात् प्रागपि चैतादृगाधिभोगे परक्रियायाः प्राबल्यस्या- प्रतिहतेविंशत्यादिग्रहणाविवक्षाप्रसक्तिः । वचनं तावत्काली- नेतादृगाधिभोग एव तथेति यदि, तर्हि श्रुतभूमिधनसामा- न्यातिक्रमेणैतादृगाधिकृततद्विषयत्वस्याशाब्दस्य कल्पनं जल्पनमेव । उपेक्षानिमित्त कविचारकसंशयतादवस्थ्या- पुनर्विचार: कर्तव्य इत्येतन्मात्रपरमिदं वचनं न तु सर्व- थाभङ्गरूपहानिपरमिति च यदस्य वचनस्य तात्पर्यान्तर- वर्णनं,तत्रापि विंशत्यादितः प्रागपि तादृगुपेक्षाहेतुकसंशय तादवस्थ्यापरिहारात् पुनर्व्यवहारप्रवृत्यावश्यकत्वे विंश त्यादिपदार्थाविवक्षाप्रसक्तिर्दुर्वारा । प्रत्युत विंशत्यादि वपत्तरं तादृगुपेक्षायाः पुनर्विचारपुरःसरं निर्णयः कर्तव्यः प्राक्तु नेत्यनौचित्यापत्तिश्च । अतः प्राङ्नोपेक्षककोटिन्यू- नताप्रतिभासश्चिरतरोपेक्षायास्तावदेकः स इति न शक्यम्। सत्यां सामन्यां प्रागपि तस्य वारयितुमशक्यत्वादसत्यां तूत्तरमपि तदसंभवात् काल विशेषनियमानुपपत्तेः । हानि पदस्थानिश्चयपरता च बहुषु वचनेष्वयुक्ताऽस्मिन् पक्षे प्रसज्यते । यच्चोक्तं तावत्कालीनभोगस्य भोक्तृस्वत्वो त्पत्तिहेतुत्वस्य यथाश्रुतस्याश्रयणे 'शक्तस्य संनिधावर्थ' इत्यादिवचनोक्तं लेख्यादिप्रमाणान्तरस्य स्वत्वसाधकस्य दोषनिराकरणमपार्थकं तावद्भोगादेव स्वत्वसिद्धिरिति तादृग्वचनतात्पर्यबीजम् । तदमूलकम् । विज्ञानयोगि- व्याख्याने तदनभ्युपगमात् । वाचस्पतिस्तु हानिबोधकस्मृतीनां प्रमाणपरिपालन- कर्तव्यताविधिशेषत्वम् । यस्मादुपेक्षायां हानिशङ्का भवति तस्मात्स्वप्रमाणं सर्वथा परिपालनीयं न तु तत्रोदासितव्यमित्यत्र तात्पर्यम् । अत एव कल्पतरौ हानि- वचनानि लिखित्वा प्रमाणपरिपालनमुपसंहृतमित्याह । तदपि यद्वा तद्वा। विंशत्यादिग्रहणाविवक्षाप्रसक्ति- तादवस्थ्यात् । ततः प्रागपि प्रमाणपरिपालनस्यावश्यक- आध्यादिभोगो न स्वत्वहेतुः आधिसीमोपनिक्षेप जडबालधनैर्विना । तथोपनिधि राजस्त्रीश्रोत्रियाणां धनैरपि || (१) किमुपेक्षया सर्वत्रैव व्यवहारप्रवृत्ययोग्यता स्यात् ? सत्यम् । आध्यादिषु तु भुक्तिर्नैवापहारकारणमित्यभि प्रायः । आधिस्तावद् भोगायैव क्रियते । सीमा च प्रति- जागतृदोषादनेकधा भुज्यते । निक्षेपश्च समर्पितत्वात् । जडबालयोरसामर्थ्यात् । उपनिधिं वक्ष्यति । राजधन मनेक गामित्वात् । स्त्रीधनं चास्वातन्त्र्यात् । श्रोत्रियाणां व्यापा- रान्तरापेक्षया । तथेति प्रकारार्थः । सर्वथा यत्रैव स्वामि- त्वाद्यतेऽपि भुक्ति: संभाव्यते, तत्रैव तत्कृतोपभोगो नापहारकारणमित्यर्थः । विश्व.२।२५ (२) आधिश्च सीमा च उपनिक्षेपश्च आघिसीमोप- निक्षेपाः । जडश्व बालश्च जडबालौ तयोर्धने जडबाल- धने; आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसीमोप- निक्षेपजडचालधनानि तैर्विना। उपनिक्षेपो नाम रूप- संख्याप्रदर्शनेन रक्षणार्थ परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः - 'स्वं द्रव्यं यत्र विसम्भान्निक्षिपत्यवि- शङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः' इति ॥ उपनिधानं उपनिधिः । आध्यादिषु पश्यतो- ऽब्रुवतोऽपि भूमेर्विशतेरूर्ध्व धनस्य दशभ्यो वर्षेभ्य ऊर्ध्व- मपि हानिर्न भवति । पुरुषापराधस्य तथाविधस्या- भावात् । उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि, आधेराधित्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषा-

  • इदं सर्वे व्याख्यानं मिताक्षरासमर्थनपरम् । मतान्तर

प्रदर्शनार्थमेवात्रोद्धृतम् । (१) यास्मृ. २।२५; अपु. २५३।५३-५४; विश्व. २२५; मिता; रपि (रिह); सवि.१२६ (=); वीमि.; व्यप्र.१६५; विता. 1.; अप.; पमा. १४७; सुबो. २२४ पू.; व्य. २२४ १५० (=); सेतु.८९; प्रका. ४४; समु. ४७; विच, १३८.