पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तिः ३९५ i मिति स्वामिनस्तदभिसंधिपूर्वकं वचनं शापकं दान मेवेति । तत एव स्वामिनः स्वत्वध्वंसे कृतमुपेक्षानुसर णेन । न च यथोक्तक्षमयैव त्यागानुमानम् । अत्यक्तेऽपि सौशीत्यादिना क्षमासंभवात् । न चैवं यथोक्तक्षमया भोक्तुः स्वत्वानुमानमफ् िन स्यात् । पूर्वस्वामिनः स्वत्व- सत्वेऽपि सौशील्यादिना तस्य अन्यथा सिद्धत्वादिति वाच्यम् । तावत्कालं सौशील्यादिना क्षमाया असंभव- सहकृतो भोगो भौक्तुः स्वत्वप्रमापक इति स्मृतिबला- दवगतम् । तच्च स्वत्वं पूर्वागमाद्वोत्पद्यतां स्वामिनो भोक्त्रुद्देशेन तद्वस्तुत्यागाद्वेत्यत्र न नो ग्रह इति । यथोक्तभोगो भोक्त्रुद्देश्यक पूर्वस्वामिकर्तृकत्यागं कल्पयंस्त- तस्तत्स्वत्वध्वंसे सति परिग्रहाद्भोक्तुः स्वत्वोत्पत्ति निर्वाधा- मादधातीति तमर्थमिदं वचनं बोधयतीति तन्मतम् । तच्च त्वयाऽप्यभ्युपगतं तावत्कालीनभोगस्य सौशील्यादि- हेतुकक्षमाहेतुकत्वासंभवेन पूर्वस्वामिन इदानीन्तन- भोगकर्त्रेद्देश्यकत्यागं विना तदीयपूर्वागमं विनाऽसंभवा- द्भोक्तु: स्वत्वनिमित्तत्वेन तदुभयान्यतरानास्थावादम- भ्युपगच्छंता । तथा च यत्तन्मते नैकान्तिकत्वं त्वया दूपणमापादितं तद्भवन्मतेऽपि तुल्यम् | यच्च सोशी - ल्यादिहेनुकत्वं तावत्कालीनक्षमायां न संभवतीत्युक्तं अत्र वदामः । प्रदीपकृद्भिर्यत्सिद्धान्तितं क्षमायास्ता- तत् त्वन्मतेऽपि समाधानक्षममेवेति । वस्तुतस्तु ताव वत्कालीनायाः सौशील्यादिहेतुकत्वासंभवेन सहकृतो | त्कालीनक्षमायाः सौशील्यादिहेतुकत्वासंभवोऽपि न भोगो भोक्तुः स्वत्वं प्रमापयति । तच्च भोक्तः पूर्वागमा- द्वोत्पद्यतां भोक्त्रुद्देश्यकस्वामिकृतत्यागाद्रेत्यत्र न नो ग्रह इति । तत्र प्रष्टव्यम् । भोक्तः स्वत्वोत्पादकौ पूर्वा गमस्वामिकृतभोक्त्रुद्देश्यकत्यागौ प्रमाप्य तावत्कालीनो भोगो भोक्तः स्वत्वमनुमापयत्यप्रमाप्य वा । नाद्यः । भोक्तुः पूर्वागमसिद्धौ संप्रति तत्र स्वामिनः स्वाम्यासंभ- वेन तदीयाऽप्रतिरवविंशत्यादि वर्षकालीनभोगोपन्यासवैय- र्थ्यात् । तेनैव तदनुमानान्न तद्वैयर्थ्यमिति चेत्, न । तत्र व्यभिचारेणानुमानासंभवात् । भोक्त्रुद्देश्यकत्याग प्रमापणेऽपि तद्रूपणानपगमात् । न द्वितीयः । पूर्वस्वत्व ध्वंसानवगमे भोगसहस्रेणापि स्मार्तकालीनेन भोक्तुः स्वत्वानुमानं न । अनुमानबाधात् । स्मर्तव्यास्मरणरूप- योग्यानुपलब्धेर्जागरूकत्वात् । यश्चात्र न नो ग्रह इत्य- नास्थावादः सोऽप्ययुक्तः । पूर्वागमभोक्त्रुद्देश्यकस्वत्व त्यागयोः फलभेदेन तत्वनिर्णयफलके निर्धारणेऽन्यतर- निर्धारणस्याबश्यकत्वात् । पूर्वागमो हि यदि भोक्तुरेव स्वामिमन्यस्याभोक्तुर्मिथ्याभियोगनिबन्धनो दण्डोऽपि स्यान्न केवलं भूधनहानिः । तस्य स्वत्वस्यागम सिद्धौ तदपलापदण्डमात्रं न मिथ्याभियोगित्वनिमित्तो द्विगुणो दण्डः | स्वत्वहानिरुभयपक्षे तुल्या | विंशत्या दिग्रहणाविवक्षाप्रसक्तिश्श्रोभयपक्षेऽपि कक्षीकरणीया । मोक्तृपूर्वागमपूर्वस्वामि कर्तृकभोक्त्रुद्देश्यकत्यागस्य द्वित्रा- दिवर्षोपभोगस्थलेऽपि सिद्धौ भोक्तृस्वत्वस्याचारणीय ध्वात् । भवदेवमताच्च भवन्मतस्य नातीव भेदः । संप्रति नियतः । अतिसुशीलतादिस्वभावानामाजन्मा'युपेक्षायाः संभवात् । वचनमस्तकेऽतिगौरवं चोभयमते तुल्यम् । विज्ञानेश्वरमते त्वतिलाघवमुपपादितमेव । किं च स्मार्तं काले स्मर्तव्यास्मरणरूपया योग्यानुपलब्ध्या भोक्तुरा- गमाभावनिश्चये पूर्वस्वामिनश्र त्यागाभावनिश्चये तदीय- परिग्रहकृतस्वत्वोत्पत्तिपूर्वस्वामिस्वत्वध्वंसात्रुभावपि कल्प- यितुमशक्याविति मतद्वयमपीदमत्ययुक्तम् । यच्चापरमत्र प्रदीपकृद्भिरुक्तम् । आधेरनुपभोगेन यत्रासिद्धिस्तद्विपयं 'पश्यतोऽब्रुवत' इत्यादि वचनम् । तेन यत्राधिग्रहीत्राधेयं भूम्यादि न भुज्यते, किन्त्वाधात्रा चिरं भुक्त्वान्यत्राधीयते तत्रोत्तरस्याधिग्रहीतुस्तत्र भूम्यादौ प्रभुत्वं न तु प्रथमस्येति 'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इत्येतदपवादार्थमिदमीदृशे विषये वचनम् । तेनात्र द्वितीयस्यैवाधिः सिध्यति । यद्वा हानिपदमुपेक्षितकोटौ विचारकाणामुपेक्षानिमित्ता न्यूनता प्रतिभातीति संशयतादवस्थ्यपरं न तु हानिर्भङ्ग एव । तथा सति 'हीनस्य गृह्यते वाद' इत्यादिवचनसिद्धं दण्ड- मन्तरेणैव पुनर्व्यवहारदर्शनं न घटत इति पुनर्विचारे- णैवात्रापि निर्णयः । अत एव 'उपेक्षिता यथा धेनुः' 'वर्षाणि विंशतिर्यस्या' इत्यादिव्यासवचनयोः पश्यन्तम नादृत्य ये यदीये भूमिधने परैरुपभुज्येते तदीयत्वेन ते हीयेते न निश्चीयेते इति व्याख्यानं रत्नाकरकृतापि कृतम् । किं च यदि विंशतिवार्षिकी भुक्तिः स्वतो भोक्तः स्वत्वे प्रमाणं तर्हि तत एव माध्यसिध्दौ 'शक्तस्य संनि-