पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् 1 न्यायेन भुज्यते । किं च भोगप्रमाणत्वमनुपपन्नं वक्तव्यं । नेनैव स्वत्वहानिकल्पना भवतीति युक्तम् । तथा आध्या- लिङ्गरूपेणाधानम(१)प्यनुपपत्तिरूपेण प्रमाणम् । तदा दिषु ममत्वातिशयादेव चिरकालमन्तरेण स्त्रत्वहानि- सा किमनुपपत्तिः स्त्रीराजधनगोचरा नास्ति ? ततश्च कथं तत्पर्युदासः 'स्त्रीधनं च नरेन्द्राणां न कदाचन जीयंति' इत्यादिना ? किं च यत्रापि भोगः प्रमाणं तत्रापि वैषम्य मनुपपन्नं भूम्यादिभोगादौ विंशतिवर्षाणीतरद्रव्येषु दश वर्षाणीति । अतो भूम्यादेरेव महाफलत्वेनानुपपत्तेः शीघ्रत्वमुचितम् । अतो नानुपपत्तित्वेन भोगः प्रमाणं नापि लिङ्गरूपेण । एवंविधभोगे स्वत्वप्रतिबन्धस्यापरि दृष्टत्वात् । नापि भोगेन स्वत्वमेवोत्पाद्यते । याजनाध्या- पनादिव्यतिरिक्तस्यैवंविधभोगस्य स्वत्वोत्पत्तिकारणत्वे नाश्रुतत्वात् । अतः कथं भोगः प्रमाणमिति । उच्यते, भवेदेवं यदि भोगो भोक्तः पूर्वोत्पन्नस्वत्वे प्रमाणमिति ब्रूमः । किं तर्हि ? पूर्वसंबन्धिस्वत्वत्यागे । अत एव याज्ञवल्क्यनारदा दिवचनान्यपि न भोक्तः स्वत्वप्रतिपाद- कानि, किं तु पूर्वसंवन्धिस्वत्वहानिख्यापकानि 'पश्यतो डब्रुवतो हानिर्धनस्य दशवार्षिकी | परेण भुज्यमानाया भूमेर्विंशतिवार्षिकी’ | इत्येवमादीनि । तेन पूर्वसंच न्धिनो विप्रतिपत्ति विनाऽन्यायेनापि चिरप्रवृत्तभोगो- अनुपपद्यमानः पूर्वसंबन्धिनस्तदुद्देशेन स्वत्वत्यागं कल्प- यतीति न विरोधः । प्रमाण मध्यर्थापत्तिरेव । एतेन भो- क्तरेव स्वत्वं सिध्यति । यदुद्देशेन यत्यज्यते तस्य तत्सं- भवतीति सार्वजनीनमेव । नारदेनाप्यनेनैवाभिप्रायेण भुक्तः स्वत्वहेतुत्वमुक्तम् । यथाह – 'भुज्यमानान् परैर- र्थान् यस्तान्मोहादुपेक्षते । समक्षं तिष्ठतोऽप्यस्य तान्मुक्ति: कुरुते वशम् ' ॥ ननु सानुपपत्तिः स्त्रीराजधनयोरप्य- स्तीति तत्रापि किमिति स्वत्वत्यागं न कल्पयति ? न, स्त्रीणामदेयत्वेनान्योद्देशत्यागेनापि स्वत्वस्यानिवृत्तत्वात् । तथा च नारदः – 'अन्वाहितं याचितकमाधिः साधारणं (८) आगमोऽभ्यधिक इत्यनेन सागमत्वम् । विंशति च यत् । निक्षेपः पुत्रदाराश्च सर्वस्वं चान्वये सति ॥ वार्षिकीत्यादिना दीर्घकालत्वं निश्छिद्रत्वं च, 'अब्रुवत' आपत्स्वपि हि कष्टासु वर्तमानेन देहिना | अदेयान्याहुरा इत्यनेनाऽन्यरवोज्झितत्वं, 'पश्यत' इत्यनेन प्रत्यर्थिसनि- चार्या यच्चान्यस्मै प्रतिश्रुतम् ' ॥ तथा राज्ञः तस्यापि धानत्वं च दर्शितम् । क्वचित्त्रिपुरुषभोगादौ सागमत्वं विस्तरत्वादविवादस्याप्रतिसंवन्धनादप्युपपत्तेः (१) न नाऽपेक्षितमित्युक्तं तत्र चिन्त्यते - आगमव्यतिरेकेण त्यागकल्पनोपपत्तिमती । कालवैषम्यं च त्यागकल्पनायां | भोगप्रामाण्ये स्मृतिविरोधः । तथा च नारदः - 'अंना- ममत्वातिशया दुपपद्यत एव । तथा हि, भूमिः खलु महा- गमं तु' इत्यादि । 'आगमेन विशुद्धेन भोगो याति फलत्वान्ममत्वातिशयभाजनम् । तेन तत्र चिरकालसाधं-

  • सेतु, विच. व्यतवत् ।

कल्पना न संभवतीत्यूहनीयम् । तदितरद्रव्याणां स्वतन्त्र- कालेनापि स्वत्वहानिकल्पना युक्तिमतीति नानुपपन्नमिति । अस्तु वा स्वत्वोत्पादक एवं भोगः | कालवैषम्यादिकं वचनकमेव भविष्यति । एवं हि यथा तदेव जननं हि पुत्रस्य स्वत्वोत्पादकं न सुतायास्तथा सम एव भोगः तत्कालावच्छिन्नो भूम्यादिपु स्वत्वोत्पादको न स्त्रीराज- | धनयोरिति किमनुपपन्नम् ? अस्मिन् पक्षे उक्तं नारद- वचनम् -- 'तान् भुक्तिः कुरुते वशम्' इति; तदपि मुख्यमेव | भुक्तेरेव स्वत्वहेतुत्वात् । यच्च भोगस्य स्वत्वो त्पादकत्वं निरस्तं, तदप्ययुक्तम् । तदन्यत्र नावगतं तथा- प्येतान्येव वचनानि गमयन्तीति नानुपपन्नं किञ्चिदिति । स्मृसा. १०७-११० (७) विवादमकुर्वतः समक्षं भूस्वामिनः परेणास- पिण्डादिना भुज्यमानाया भूमेर्विंशतिवर्षनिवृत्ता स्वत्व- हानिः । अत्र लोकव्यवहारकर्मत्वाद्वर्षगगना सावनेन । तथा च विष्णुधर्मोत्तरम् – 'सत्राप्युपास्यान्यथ साव- नेन लौक्यं च यत् स्यात् व्यवहारकर्म' । तत्रैव 'सावने च तथा मसि त्रिंशत्सूर्योदयाः स्मृताः' इति । तस्माद् याज्ञ- वल्क्यादिवचनाविंशतिवर्षदशवर्षादिकालैर्भोग एव स्व- त्वं जनयति तथा कालप्राप्तिचलेन बीजमङ्कुरं जनयति, तरवश्च कुसुममिति | स्वामिना च अपरित्यक्तेऽपि शास्त्रो- क्तकालीनभोगात् स्वाम्यमन्यस्य भवति । यथा जयेन राज्ञः परराष्ट्रधने इति । एवमेव श्रीकरबालकयोग्लोकभ- वदेवभट्टशूलपाणिकुल्लक भट्टचण्डेश्वर मन्त्रिनव्यवर्धमा- नोपाध्यायप्रभृतयः । व्यवहारोऽपि ताहगेव । एतद्वि- रुद्धवचनान्यन्यथा व्याख्येयानि । व्यत. २२२-२२३