पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः ३९१ कार्याणि सिद्धयन्ति स्थावराणि चराणि च' ॥ तस्माद्दश- विंशत्यादिवर्षपर्यन्तं समक्षमन्यस्य भुजतः संबन्धिनोपेक्षा यदा कृता तदा हानिरपि तावत्संभाव्येत । तस्मान्नोदासि- तव्यम् । विंशत्यादिग्रहणं दीर्घकालोपलक्षणार्थं न तु विंशत्यादिवर्षपर्यन्तं पश्यतोऽब्रुवतः पूर्वस्वामिनो बाल्यादि- दोषरहितस्य स्वत्वं नाशयति भोक्तुश्च स्वत्वं जनयति पूर्वस्वामिस्वत्वाभावं भोक्तः स्वत्वं चागमयति भुक्तिरेवा- गमानपेक्षिणीति युक्तम् । उक्तयुक्तः कात्यायनविरोधाद- न्यपरत्वाच्चेति । भवदेव निबन्धे लिखितं एवमेव यथोक्त- कालव्यापिनी भुक्तिः प्रमाणम् । ननु आगमयुक्ता भुक्तिः प्रमाणमुक्तं न तु भुक्तिमात्रम् । तथा च याज्ञवल्क्यः - 'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धा- गमो भोगः प्रामाण्यं नाधिगच्छति' || पुलहोऽप्याह- 'भोगं तु केवलं यश्च कीर्तयेन्नागमं वचित् | भोगच्छला- पदेशेन विज्ञेयः स तु तस्करः' ॥ व्यासेनाप्युक्तम्-- 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतानि च । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ अतः कथमभिधीयते भुक्तिः केवळैव प्रमाणमिति उच्यते । नैतानि वचनानि सर्वत्रागमसहितभुक्तिप्रामाण्यप्रतिपादकानि । पूर्वोक्ता- नेकवचनविरोधात् । युक्तिविरोधाच्च । न हि संभवति वि- द्यमाने संबन्धिनि स्नेहादिकं विनान्येनाविवादेन विंशत्या- दिवर्षपर्यन्तं भूमिर्भुज्यते । तेन तत्र निरपेक्षा मुक्ति- रेव प्रमाणम् | यच्च याज्ञवल्क्यवचनं पुलहवचनं च, तत्स्वल्पकालभोगाभिप्रायम् । व्यासवचनं प्रतिवादिनो- ऽसंनिधाने पुरुपैकद्वयंभोगाभिप्रायम् । त्रिपुरुषभोगस्य तत्रापि प्रमाणत्वात् । तथा च कात्यायनः – 'आरौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरे. वैका संततं या चिरन्तनी ॥ इत्थमपराण्यपि वचनानि समर्थनीयानीति न किञ्चिदनुपपन्नम् । भूमिमेष भुङ्क्त इति प्रत्यक्षमुपलभमानस्याब्रुवतोऽना क्षिपतो हानिः स्वस्वामिसंबन्धाभावो भवति । एवं भूव्यति- रिक्तस्य धनस्य दश वर्षाणि भुज्यमानस्य हानिः । एवं विधा हि भुक्तिस्तूष्णींभूतस्य पश्यतः स्वामित्वे ति न घटते । किं तु भोक्तुरेव स्वामित्वे सति भुज्यत इति भवति तत्र भुक्ति: प्रमाणम् । एतच्च व्यवहारस्थितिमाश्रित्योच्यते । न धर्मगतिम् । अत एव मनुः (८।१४८)-- 'अजड श्वे दपौगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥ तथा च यत्परमार्थतः परकीयमेव व्यवहारेणैवार्जित तत्प्रत्यवायभयादेव यथास्थानं गमयितव्यम् । यत्तु नारदे- नोक्तं 'अनागमं च यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' इति । तत् बहुवा लादिधनविषयम् । पूर्वजभूमिभोक्तृपुरुषविषयं वा । अत एव वक्ष्यति -- 'आगमस्तु कृतो येन' इत्यादि । अप. (४) याज्ञवल्क्येनाप्येवमुपेक्षकस्य हानिरेवाभिहिता न पुनर्भोक्तुः स्वत्वापत्तिः पश्यत इति । हानिश्चात्र लिखि- तबलेनात्मीयत्वप्रसाधनमात्रस्याभिप्रेता । न पुनर्भुम्यादी तत्फले वा स्वत्वस्य । नोपेक्षामात्रेण स्वत्वमपैतीत्युक्तत्वात् । तेनात्र न धर्माख्य निर्णयवशादुपेक्षकस्य हानिः । तद्वशेना- त्मीयत्वप्रसाधनसंभवात् । नैवं व्यवहाराख्यनिर्णय वशेन । लेख्यवैगुण्यस्योक्तत्वात् । किं तु द्वितीयव्यवहारा ख्य निर्णयात् । भोक्तुरनिन्द्यत्वं स्वामिनो निरुत्तरत्वेना- स्वामिना जितत्वात् । स्मृच. ६८ (५) मिता. टीका – भुक्तेः कैश्चिद्विशेषणैर्युक्ताया इति । आसेधराहित्यचिरकालत्वादीनि विशेषणानि तैर्यु- क्तायाः । अत्र क्रिया नाम करणं कृतिरिति यावत् । सुचो. (६) अत्र हलायुधनिबन्धे स्वरसः– आगमस्मरणाई- काले सागमैव भुक्तिः प्रमाणम् | त्रैपुरुषिकभोगे त्या- गमाऽस्मरणे भुक्तिः प्रमाणम् | 'स्मार्तकाले क्रियाभूमेः सागमा भुक्तिरिष्यते । स्मार्ते त्यागमाभावात् क्रमात्त्रि पुरुपागता' ॥ इति कात्यायनवचनात् । हानिप्रतिपाद- कानां च वाक्यानां प्रमाणपरिपालनकर्तव्य ताशेषत्वात् । तथा च बृहस्पतिः – 'भूमेरभुक्तिलेख्यस्य यथाकालम दर्शनम् । अस्मारणं साक्षिणां च स्वार्थहानिकरणानि तु || तस्माद्यत्नेन कर्तव्यं प्रमाणपरिरक्षणम् । तेन 1 इदं तु विचिन्त्यं, किमयं भोगो भूम्यादिषु विंशत्या- दिवर्षावच्छिन्नः पूर्वान्नस्त्वे प्रमाणं, अमिनबस्वत्वो- त्यादको वा १ न तावदभिनवस्वत्वे प्रमाणम् । 'अन्याये- नापि यद्भुक्तं पित्रा पूर्वतरत्रिभिः । न तच्छक्यमपा कर्तु क्रमात्त्रिपुरुपागतम्' || इत्यत्र नारदेनान्यायप्रवृत्तत्रि- पुरुषभोगस्वत्वसंबन्धस्य प्रतिपादितत्वात् । यदि पर्वोत्पन्न - मेव स्वत्वं तदा कथमन्यायेनेति संगच्छते? न हि स्वम-