पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० ‘अनागमं तु यो भुङ्क्ते' इत्यविशेषाभिधानात् । 'नोप- भोगे बलं कार्यमाहर्त्रा तत्सुतेन वा । पशुस्त्रीपुरुषादी- नामिति धर्मो व्यवस्थितः ॥ इति कात्यायनवचनाच | समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैतन्मन्तव्यम् । आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राचल्यादपवादेन भूविषये विंशतिवर्षापभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्तायाः, उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यते इति । यतस्तेषूत्रैव क्रिया ततो नोपपद्यते स्वमेव ह्याधेयं देयं विक्रेयं च भवति । न चाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वमस्ति । अस्वस्थ दाने प्रतिग्रहे च दण्डः स्मर्यते । 'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति । उभौ तो चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम्' इति ॥ तथा आध्यादीनां त्रयाणामप- वादत्वेऽस्य श्लोकस्याधिसीमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपपन्नैव । नापि ब्यवहारहानिः । यतः, 'उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ इति नारदेनोपेक्षायां लिङ्गाभावकृता व्यवहारहानिरुक्ता न तु वस्त्वभावकृता । तथा मनुनाऽपि (८।१४८) 'अजडश्चेदपौगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यव- हारेण भोक्ता तद्धनमर्हति ॥ इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारमङ्गश्चैवम् । भोक्ता किल वदति 'अजडोऽयमपौगण्डोऽवालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षिणः सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमि त्येतावन्तं कालमुदास्ते इति' तत्र चायं निरुत्तरो भव- तीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्त्र भूतेन व्यवहारान्नयेन्नृपः (यास्मृ. २ | १९ ) इति नियमात् । व्यवहारकाण्डम् कात्यायन:- •'शक्तस्य संनिधावर्थो यस्य लेख्येन भुज्यते । विंशद्वर्षायतिक्रान्तं तत्पत्रं दोषवर्जितम्' इति ॥ तदपि न । आध्यादिष्वपि विंशतेरुर्ध्व पत्रदोषो- द्भावननिराकरणस्य समत्वेनापवादासंभवात् । यथाह कात्यायन: – 'अथ विंशतिवर्षाणि आधिर्भुक्तः सु निश्चितः । तेन लेख्येन तत्सिद्धिलेख्यदोष विवर्जिता ॥ तथा – 'सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोपाः प्रवक्तव्या यावद्वर्षाणि विंशतिः' इति ॥ एतेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोक- स्पान्योऽर्थो वक्तव्यः । उच्यते । भूमेर्धनस्य च फल- हानिरिह विवक्षिता न वस्तुहानिर्नापि व्यवहारहानिः । तथा हि, निराक्रोशं विंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी न्यायतः क्षेत्रं लभते, तथापि फलानुसरणं न लभते, अप्रतिषेधलक्षणात् स्वापराधात्, अस्माच्च वच नात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव । पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे अब्रुचत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निरा- क्रोशे च लभते, विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि फलस्य स्वत्वात्तद्धानिरनुपपनैव । बाढं, तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदु- त्पन्नपूगपनसवृक्षादीनाम् । यत्पुनस्तदुत्पन्नमुपभोगान्नष्टं तत्र स्वरूपनाशादेव स्वत्वनाशः । 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेट थिवीपतिः' ॥ इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समद्रव्यदानं प्रातं हानिर्विशतिवार्षिकीति अपो- द्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्ध्वमपि । अनागमो- पभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षणस्वाप- राधादस्माच्च वचनाविंशरूर्ध्व फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्या

  1. मिता.

अथ मतम् । यद्यपि न वस्तुहानिर्नापि व्यवहारतम् । हानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का (३) भूम्याविधनविषये स्वामित्वं प्रति भुक्तेः क्वचि भवतीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत इति । तच्च न । स्मार्तकालाया भुक्तेर्हानिशङ्काकारण त्वाभावात् । तूष्णीं न स्थातव्यमित्येतावन्मात्राभि- धित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अत्रोच्यते । विंशतिग्रहणमूर्ध्वं पत्रदोषोद्भावन निराकरणार्थम् | यथाह द्विषये आगमसापेक्षायाः, क्वचिच तन्निरपेक्षायाः प्रामाण्यं वक्ष्यति; तस्याः विशेषणं तावदाह – पश्यत इति । आध्यादिव्यतिरिक्ताया भूमेः परेण प्रत्यर्थिना विंशतिवर्षाणि यावद्भुज्यमानाया अर्थिनः पश्यत इमां

  • पमा., सवि., व्यम., विता. मितागतम् ।

-