भुक्तिः ३८९ मात्रेणैवार्थनाशः । एवं तर्ह्येतदपि वेदादेव | उपेक्षयापि द्रव्यनाशो भवतीत्यतो द्रष्टव्यम् । परैर्भुज्यमानं नोपेक्षणी- यमित्यभिप्रायः । अथेतरस्य किं स्वत्वसंबन्धोऽस्ति ? पूर्वस्य तावद्धानिरित्याचार्याभिप्रायः । इतरस्यापि तु स्वत्वं नैव, परस्वत्रुद्ध्यैव भोगप्रवृत्तेः । यद्येवं न, तर्हि राजस्तदा दोषः । तदपि सत्यम् । अथ किं ? नृपस्यैव तद् भवतु स्वामिनो हान्युपदेशात् तथाविधस्य च राजगामित्वात् । अथवा पूर्वस्वामिन एव तदर्पण तत्स्वत्वापाये हेत्वभावात् । स्मृतिस्तु दृष्टमूलतयाऽप्युप- पद्यत एव । उपेक्षानिषेधमात्रं चैतत् । हानिवचनं तु निन्दामात्र त्वेनोपेक्षकस्य व्यवहारप्रवृत्ययोग्यतामात्रशप्ति- फलम् । तदेव चात्र युक्तम् । अन्यथा श्रुतहानिरश्रुत- कल्पना च स्यादित्यलं प्रसङ्गेन । विश्व.२।२४ (४) अत्र आगमः स्वामित्वपरिच्छेदे संभोगसहितः कारणं न तु केवल: संभोग इत्युक्तम् । अप. २।२७ (५) एकस्य भोगो दृश्यते आगमश्च लेख्यादिर्न दृश्यते इतरस्य च आगमो दृश्यते तत्र यस्यागम- स्तस्यैव, न भोगिन इत्याह - संभोग इति । भवि. (६) आगमः प्रतिग्रहक्रयादिः कारणं तहते दशवर्षो- त्तरं भोगमात्रात्स्वत्वासिद्धेः भुक्त्यसत्त्वे आगमो न प्रमाणं किन्तुभयम् । मच. (७) नाष्टिकविप्रतिपत्तौ बलाबलमाह - संभोगो यत्रेति । यत्र अस्वामिना विक्रीतेऽर्थे एकस्य संभोगो दृश्यते तत्रागमः कारणं प्रमाणं, न संभोगः अस्वामिविक्रय- साधर्म्यात् । नन्द. यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतु क्रमाधिपुरुषागतम् || याज्ञवल्क्यः भुक्तिविशेष: स्वत्वहेतुः पंश्यतोऽब्रुवतो भूमेहा॑निर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी * ॥ (१) भुक्तौ तु - पश्यतोऽब्रुवतो भूमेरिति । पश्यन्नपि यः परैरसंबद्धैर्भुज्यमाने न किञ्चनेयता कालेनापि ब्रूयात्, नूनं तदीयं न भवेदित्यभिप्रायः । कालनिय मस्तु वेदमूलतयैव द्रष्टव्यः । नन्वेतदयुक्तम्, यदनभिधान
- व्यचि. व्याख्यानं व्यप्र. व्याख्याने द्रष्टव्यम् । व्यमा.
अशुद्धिबहुलत्वान्नोद्धृतम् । (१) मस्मृ. ८।१४९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । (२) यास्मृ. २२४; अपु. २५३/५२-५३; विश्व.२ | २४; मेधा.८३ : ८/१४८ पू. ; मिता.; व्यमा. ३४२ भूमेहा॑नि (हानिर्भूमे); अप.; गौमि.१२ १३४; स्मृच.६८, ३११; पमा. १४७; स्मृसा.९४ भूमेर्हानिर्विशति (हानिर्धनस्य दश) धनस्य दश (भूमेविंशति) : १०६, १०९; व्यचि. ६५ व्यमावत् : ७५ ; नृप्र. ८; व्यत. २०८ भवदेवतपाठस्तु स्मृसावत्, शूलपाणिधृतपाठस्तु व्यमावत् : २२२ व्यमावत् ; सवि. १२५, ४४३; मच. ८ | १४८; चन्द्र. १५३ परेण (संनिधौ) नाया (नस्य) शेषं व्यमावत् ; व्यसौ. ६८ भूमेनिविंशति ( हानि- भूमेद्बांदश); वमि. व्यमावत् व्यप्र. १५७ नाया (नस्य); व्यम. १५; विता. १४४; राकौ. ३९५; सेतु. ८७ व्यमावत् ; प्रका.४४-४५; समु. ४६; विच. १३६ व्यमावत्. (२) परेणासंबन्धेन ।' भुज्यमानां भुवं धनं वा । पश्यतः अब्रुवतः मदीयेयं भूः न त्वया भोक्तव्येति अप्रति- पेधयतः | तस्या भूमेर्विंशतिवार्षिकी अप्रतिरवं विंशति वर्षापभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादे- दशवार्षिकी हानिः । नन्वेतदनुपपन्नम् । न ह्यप्रतिषेधात्स्वत्वमपगच्छति, अप्रतिषेधस्य दानविक्रयादिवत् स्वत्वानिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवपपभोगा- त्स्वत्वम | उपभोगस्य स्वत्वे प्रमाणत्वात् प्रमाणस्य च प्रमेयं प्रत्यनुत्पादकत्वात् । रिक्थक्रयादिषु स्वत्वकारक- हेतुपु अपाठाच । तथा हि 'स्वामी रिक्थक्रयसंविभाग परिग्रहाधिगमे । ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य विजितम् । निर्विष्ठं वैश्यशूद्रयोः' (गौध. १०।३८-४१) इत्यष्टावेव स्वत्वकारणहेतून् गौतमः पठति न भोगम् । न चेदमेव वचनं विंशतिवपपभोगस्य स्वत्वोत्पत्ति- हेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्ध त्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् । अपि च, ‘अनागमं तु यो भुङ्क्ते बहून्य- ब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' ॥ इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुद्धयते । न च 'अनागमं तु यो भुङ्क्ते' इत्येतत्परोक्षभोगविषयं 'पश्यतोऽब्रुवत' इति प्रत्यक्षभोगविषयमिति युक्तं वक्तुम्,