पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् भुक्तभूम्यादिफलं बहुमूल्यमपि पूर्वस्वामिना न प्राप्यते, भूम्यादि प्राप्यते । एवं च वक्ष्यमाणं, 'भग्नं तद्व्यव- हारेणे’ति भग्नं नष्टं न तद्धनं किन्तु तदुत्पन्नं बहुसस्यादि नष्टमित्यर्थः । मच. नन्द. (६) धनी आधाता उपनिधाता वा । अजडश्वेदपोगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्रव्यमर्हति ॥ (१) न स तल्लब्धुमर्हतीत्यस्य शेषः । अजडश्वेद- पोगण्डो, यदि जडः अप्रतिपत्तिमान्, पोगण्डो बालः, प्राक् षोडशाद् बालः पोगण्ड इत्युच्यते । एतच्च स्वधन- संरक्षणासामर्थ्यकारणानामन्येषामप्युपलक्षणार्थम् । मद्य- द्यूतविषक्तता दीर्घरोगगृहीतता तपःस्वाध्यायैकपरत्वं व्यवहारेप्चनैपुण्यं वागिन्द्रियाभावो बाधिर्य यस्यैते ऽसामर्थ्य हेतवः सन्ति न तदीये धने भोक्तहुतरेणापि कालेन स्वत्वमापद्यते । विषये चास्य भुज्यते । अस्येति धनिनः प्रत्यवमर्शः । विषयः काश्मीरकाणां कश्मीराः, पञ्चालानां च पञ्चालाः । दूरदेशेषूषिते स्वामिनि भोक्तु र्भोगाऽसिद्धिः । यदुक्तं संनिधाविति तस्यैवायं प्रपञ्चो विज्ञेय इति । यदि भोक्ता च स्वामी च एकस्मिन्नेव देशे वसेतों तथापि समानदेशवासिनोऽपि स्वामिनो न शक्ति - विहीनस्यापहारः । अजडापोगण्डग्रहणस्य प्रदर्शनार्थ तथा व्याख्यातत्वात् | तेन यस्य जानतो यचेपेक्षाकारणं न संभाव्यते, तदीयं धनं दशवर्षाणि भुञ्जानो भोक्तै- वार्हति, तस्य तत्स्व मित्यवगन्तव्यम् । ननु च न भोगात्स्वत्वं युक्तं, स्वत्वे सति भोगो युक्तः । भोगाद्धि स्वत्वेऽव्यवस्था स्यात् । यश्चायमवधि- दशवर्षाणीति, स स्मृत्यन्तरेण न सर्वस्मिन् धन इष्यते । किं तर्हि ? ' पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी' इति ( यास्मृ.२।२४ ) । अन्ये तु विंशतिवार्षिकेणाऽपि (१) भस्मृ.८।१४८; मिता. २।२४ पो (पौ) द्रव्य (धनं); अप. २।२४ मितावत् ; स्मृच. ६८ मितावत् ; दवि. २९२ द्रव्यं (धनं); सवि.१२७ मितावत् ; चन्द्र. १५३ पोग (योद) भग्नं (भग्न) द्रव्यं (धनं); व्यप्र. १५८ मितावत् ; विता. १४५ ये चास्य (यो वास्य) भग्नं (भग्न :) शेषं मितावत् ; प्रका.४५ द्रव्यं ( धनं); समु.४७ प्रकावत्. १ काश्मीराणां काश्मीरपञ्चा. २ 'दूर... विशेय इति' इत्यंशो नास्ति ३ तथा ४ 'समान... न' इत्यशो नास्ति ५ दुपे, भोगेन ने भूमेरपहारमिच्छन्ति त्रिपुरुषैव भुक्तिः प्रमाण- मिति वदन्तः । अन्ये तु न कदाचिदागमर हितेन भोगेन स्वाम्यमनुमन्यन्ते । एवं ह्याहुः – 'अनागमं च यो भुङ्क्ते बहून्यब्दशतान्यपि' । तथा – 'संभोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न संभोग इति स्थितिः' | त्रिपुरुषभुक्तिवादिनस्ताव- देवं पठन्ति -- 'यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपातु क्रमात् त्रिपुरुषागतम् || अस्थाय- मर्थः – आगमो दानादिः, असति तस्मिन् यद्भुक्तं पितृपितामहप्रपितामहैस्तच्चतुर्थस्य सिध्यति न तु विंशत्या वर्षेः । तत्रान्यत्रोक्तम् – 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । अन्ते तु भुक्तिरेवैका प्रमाणं स्थावरे भवेत् ॥ तृतीयस्य भोगात्सिद्धिर्न प्रथमद्वितीययोः पितृपितामह योरस्यापि न विंशतिवर्षैर्भोगः प्रमाणम् । अन्ये त्वागमरहितस्य वार्षशतिकस्याऽपि भोगैस्या- प्रामाण्यमनुमन्यन्ते । तथा चाहुः– 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डये- पृथिवीपतिः ॥ भोगकेवलतां यस्तु कीर्तयेन्नागमं क्वचित् । भोर्गेच्छलापदेशेन विज्ञेयः स तु तस्करः ' इति ॥ उंच्यते । यदत्र चेदमुक्तं भोगो नैव प्रमाणमिति तदयुक्तम् । सर्वस्मृतिकारैस्त्रिपुरुषभोगस्य प्रामाण्येना- भ्युपगतत्वात् । यतु बहून्यन्दशतानीति तदाहर्तृविषयं, यदात्मीयमेव भोगं चिरकालॅसिद्धिहेतुमाह तस्य पितृपिता- महभोगेन विना न सिध्यतीत्यर्थः । कथं पुनरेकस्याने काब्दशतो भोगः पुरुषस्य ? नैष दोषः, चिरकाल प्रतिपादनपरा बहुत्ववचनाः शतं सहस्रमित्यादयः शब्दाः । यथा 'शतायुर्वे पुरुषः शतवीर्यः शतेन्द्रिय' इति । एतदुक्तं भवति, विंशतिवार्षिकाद्भोगादधिका- दपि न प्रथमभोक्तुर्भोगात्स्वत्व सिद्धिः। अथवा तत्परस्यापि न सिध्यतीति यथाश्रुतमेव । न हि बहुष्वन्दशतेष्वागम- स्मरणं संभवति । ततश्च चिरन्तनदेवायतनब्राह्मणमठ- ग्रामा राजभिरपहियेरन्, लेख्यशासनमपि राजाधिकृत- लेखकलिखितमिति चिरन्तनेषु नैव प्रत्यभिज्ञायेत । , १ 'न... भोगेन' इत्यंशो नास्ति २ नाथस. ३ ग्यस्या. ४ आगम: कारणं तत्र न संभोग इति स्थितिः । ५ 'उच्यते ... गतत्वात्' इत्यंशो नास्ति. ६ या तु. ७ लत्वे हे.