सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तिः गौतमः भुक्तिविशेषस्य स्वत्वहेतुत्वम् अजडाsपोगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः । (१) जडो विकलेन्द्रियः, पोगण्डः पूतो गण्ड: कपोलेऽनुत्पन्न: इमर्यस्य स भण्यते । तथा नारदः - 'बाल आ षोडशाद्वर्षात् पोगण्डो वाऽपि शब्यते' । केचित् पठन्ति 'पौगण्डश्चापि विंशतेः', तौ न भवत इत्यजडपोगण्डौ, तयोर्धनं तयोरेव संनिधौ परैर्भुक्तमन्य- दीयं भवति । व्यमा. ३४६ (२) जड: उन्मुग्धचित्तः संव्यवहारायोग्यः । पोगण्ड: अप्राप्तव्यवहारः । तौ मुक्त्वा यदन्यस्य धनं परैः असंबन्धैः तत्समक्षं स्वामिन्येकग्रामस्थित एवेत्यर्थः । भुज्यते तत् दशवर्षभोक्तुरेव भवति । न हि सति स्वामित्वे इयन्तं कालमुपेक्षणमुपपद्यत इत्यभिप्रायः । जडबालधनं तु नाहियते । तद्ग्रहणमाध्यादीनामप्युपलक्षणार्थम् । यथाह नारद:-- 'आधि: सीमा वालधनं निक्षेपो- पनिधिः स्त्रियः । राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यति' इति ॥ अत्र जडधनं न परिगणितमिति चेत् विंशतिधर्षेणापि जीर्णत्वं मा भूदिति । यथाह नारदः - 'प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः । आध्या- दीन्यपि जीर्येयुः स्त्रीनरेन्द्रधनादृते' इति ॥ एवं च विंशतिवर्षात् बालवनं जीर्यत्येव । संनिधावित्यनेनैव परेषामर्थ सिद्धत्वात्परग्रहणं संबन्धिभुक्तस्यानतिचार ज्ञापनार्थम् । संनिधिग्रहणादन्यग्रामस्थस्य न दोषः । मभा. (३) जड उन्मत्तः, पौगण्डो व्याकृतव्यवहारः । यो

  • व्यत., सेतु. ब्यमागतम् ।

(१) गौध. १२।३४; व्यमा.३४६ डा (ड) धौ (धाने); व्यक. ७३; मभा.; गौमि. १२१३४ पो (पौ); स्मृसा. १०६ धौ+ (तस्य); ब्यचि.६७ परैः संनिधौ (संनिधौ परै :); व्यत. २२३ पो (पौ); व्यप्र. १६६ पो (पौ); सेतु.८८ पो (पौ) वर्ष (वर्ष); विच.१३७, जडो न भवति पौगण्डो वा न भवति तस्य धनं परैः तत्संनिधावेव चेद्दश वर्षाणि भुक्तं भवति तदा तद्धनं भोक्तुरेव स्वमिति निश्चीयते । स एव भोगः स्वामिनः सकाशाद्दानादिरूपेण तस्य धनस्य निर्गतं सूचयति । गौमि. श्रोत्रियादिभुक्तेर्न स्वत्वहेतुत्वम् नं श्रोत्रियप्रव्रजितराजन्यपुरुषैः । श्रोत्रियादि भिर्भज्यमानं न भोगमात्रात्तेषां भवति उपेक्षाकारणत्वोऽपत्तेः । श्रोत्रियप्रव्रजितयोर्धर्मतृष्णयो- पेक्षेति । राजपुरुत्रस्य तु भयेन | राजपुरुषग्रहणं सर्वेषां बलवतामुपलक्षणम् । एतेन साहसिका व्याख्याताः । अपरिग्रहस्यापि प्रत्रजितस्य स्वस्वामिके शून्यगृहादात्रुप- भोगः संभवति ।

  1. गौमि.

विषयविशेषभुक्तेर्न स्वत्वहेतुत्वम् पैशुभूमिस्त्रीणामनतिभोगः । (१) अनतिभोगः अतिभोगेन न हानिरित्यर्थः । व्यक. ७४ (२) पशुशब्देन सर्वे चतुष्पादा यज्ञिया गृह्यन्ते, 'चतुष्पादा वै पशवो यज्ञियाः' इति श्रुतिदर्शनात् । भूमिः क्षेत्रारामादिःन गृहम् । 'दशवर्षाद् वेश्मनो भो भूमिः' इत्यौशनसवचनात् । स्त्रियः परिचारिकाः। एपा- मनतिभोगः दशवर्षानुभवेन न स्वाम्यं भवतीत्यर्थः । तथा च नारद:--- 'अनागमं तु यद्भुक्तं वत्सराणां शतैरपि ' इति । इदमपि वचनं पशुभूमिस्त्रीविषयत्वेन व्याख्यात- मिति । मभा.. (३) पशवश्चतुष्पादः । भूमिः क्षेत्रारामादिका । स्त्रियः परिचारिका दास्यः । पश्चादीनां स्वत्वे नातिभोगोऽपे- क्षितः । अल्पेनापि भोगेन भोक्तः स्वं भवति । कथमन-

  • मभा. गौमिगतम् ।

(१) गौध. १२१३५; व्यक. ७३ राजन्य (राज); मभा.; गौमि. १२१३५ जन्यपु (जपू); व्यसौ. ६९ गौमिवत् ; ध्यप्र. (२) गाँध. १२१३६ ; व्यक. ७४ भूमि ( पुष्प); मभा; गौमि. १२१३६; व्यसौ. ६९; व्यप्र. १६६. भूमि (पुरुष); प्रका. ४५. १६६ व्यकवत् .