शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्रकम् ॥ लेख्यपरीक्षा लेख्यम् जेडमूकान्धबालाज्ञक्रुद्धरुग्णार्तभीरुभिः । अस्वतन्त्रोपधादुष्ठैः कृतं लेख्यं न सिध्यति || समामासादिहीनं च देशाचारविरोधि च । विलुप्तक्रमवर्ण च शृङ्गहीनं च दुष्यति ॥ एकमेव भवेल्लेख्यमेकस्यार्थस्य सिद्धये । अनेकेषु तु लेख्येषु दोषमुद्भावयेदपि ।। २ लेख्ये संशयमापने साक्षिलेखककर्तृभिः । दुष्टेषु तेषु तद्धस्तकृतपूर्वाक्षरादिभिः । यथालाभोपपनैस्तैर्निर्णयं कारयेन्नृपः || अनिर्दिष्ट कर्तृकवचनम् स्वहस्तलेख्यं प्रबलम् स्वहस्तलिखितं पत्रं साक्ष्यभावेऽपि तद्बलि ।। शुक्रनीति: लेख्यप्रकाराः तलक्षणानि च ने कार्य भृतकः कुर्यान्नृपलेखाद्विना क्वचित् । नाज्ञापयेल्लेखनेन विनाऽल्पं वा महन्नृपः ॥ भ्रान्तेः पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम् । अलेख्यमाज्ञापयति ह्यलेख्यं यत्करोति यः ।। राजकृत्यमुभौ चोरौ तौ भृत्यनृपती सदा । नृपसंचिह्नितं लेख्यं नृपस्तन्न नृपो नृपः ॥ समुद्रं लिखितं राज्ञा लेख्यं तच्चोत्तमोत्तमम् । उत्तमं राजलिखितं मध्यं मन्त्र्यादिभिः कृतम् ॥ पौरलेख्यं कनिष्ठं स्यात्सर्व संसाधनक्षमम् । यस्मिन्यस्मिन् हि कृत्ये तु राज्ञा योऽधिकृतो नरः ॥ सामात्ययुवराजादिर्यथानुक्रमतश्च सः । दैनिकं मासिकं वृत्तं वार्षिकं बहुवार्षिकम् || तत्कार्यजातलेख्यं तु राज्ञे सभ्यङ् निवेदयेत् । राजाद्यङ्कितलेख्यस्य धारयेत्स्मृतिपत्रकम् || कालेऽतीते विस्मृतिर्वा भ्रान्तिः संजायते नृणाम् । अनुभूतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा ॥ यत्नाच्च ब्रह्मणा वाचां वर्णस्वरविचिह्नितम् । (१) समु.४३. (२) समु.४४. (३) सवि. ११७. (४) शुनी. २।२८१-३११. ३७९ वृत्तलेख्यं तथा चायव्ययलेख्यमिति द्विधा || व्यवहारक्रियाभेदादुभयं बहुतां गतम् । यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् || सावधारणकं चैव जयपत्रकमुच्यते । सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु यत् || कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते । ऋत्विक्पुरोहिताचार्य मान्येष्वभ्यर्चितेषु च || कार्य निवेद्यते येन पत्रं प्रज्ञापनाय तत् । सर्वे श्रृणुत कर्तव्यमाज्ञया मम निश्चितम् ॥ स्वहस्तकालसंपन्नं शासनं पत्रमेव तत् । देशादिकं यस्य राजा लिखितेन प्रयच्छति ॥ सेवाशौर्यादिभिस्तुष्टः प्रसादलिखितं हि तत् । भोगपत्रं तु करदीकृतं चोपायनीकृतम् ॥ पुरुषावधिक तत्तु कालावधिकमेव वा । विभक्ता ये च भ्रात्राद्याः स्वरुच्या तु परस्परम् ॥ विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते । गृहभूम्यादिकं दत्वा पत्रं कुर्यात्प्रकाशकम् || अनाच्छेद्यमनाहार्य दानलेख्यं तदुच्यते । गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्यप्रमाणयुक् || पत्रं कारयते यत्तु ऋयलेख्यं तदुच्यते । जंगमं स्थावरं बन्धं कृत्वा लेख्यं करोति यत् || देशश्च यत्कुर्यात्सत्यलेखं परस्परम् । राजाविरोधि धर्मार्थ संवित्पत्रं तदुच्यते || वृध्या धनं गृहीत्वा तु कृतं वा कारितं च यत् । ससाक्षिमञ्च तत्प्रोक्तं ऋणलेख्यं मनीषिभिः ॥ अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते बुधैः । दत्तं लेख्यं साक्षिमद्यत् शुद्धिपत्रं तदुच्यते ॥ मेलयित्वा स्वधनांशान् व्यवहाराय साधकाः । कुर्वन्ति लेखपत्रं यत्तच्च सामायिकं स्मृतम् || सभ्याधिकारिप्रकृतिसभासद्भिर्नयः कृतः । तत्पत्रं वादिमान्यं चेज्ज्ञेयं संमतिपत्रकम् || स्वकीयवृत्तज्ञानार्थं लिख्यते यत्परस्परम् । श्रीमङ्गलपदाद्यं वा सपूर्वोत्तरपक्षकम् ।। ! असंदिग्धमगूढार्थ स्पष्टाक्षरपदं सदा । अन्यव्यावर्तकस्वात्मपरपित्रादिनामयुक् ॥ एक द्विबहुवचनैर्यथार्ह स्तुतिसंयुतम् ।
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५७
दिखावट