पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ मित्यर्थः । क्रियाणां लेख्यक्रियाणाम् । अप.२।९२ (२) लेख्यस्योपरि यत्साक्ष्यं लेख्यसाधकतयोपन्यस्त- मित्यर्थः । अधर्मस्य च तद्द्वारमित्यत्र हेतुर्वाचिकीति । तत्रापि हेतुः क्रियाणामिति । तत्राप्युपपत्तिरनवस्थेति । प्रमादपरिहारमतियत्नेन कृत्वा हि प्रायशो लेख्यं भवति । तेन तत्राप्रामाण्यशङ्कापि नोचिंता । साक्ष्यादावपि तत्संभवादिति तात्पर्यम् । न तु सर्वथा तत्र साध्यादि- निवर्तनमभिप्रेतम् । लेख्यपरीक्षोपदेश विरोधात् । व्यवहारकाण्डम् व्यप्र. १५१-१५२ बेलोपधिकृतं चैव मत्तोन्मत्तकृतं तथा । एते चान्ये च बहवश्चिरस्था वादहेतवः || तेनैवमादिषूक्तशुद्धित्रिधिरनुसंधेयो निर्णेतृभिरित्यभि- स्मृच.६७ प्रायः । मरीचि : लेख्य प्रमाणविषय: स्थावरे विक्रयाधाने विभागे दान एव च । लिखितेनानुयात् सिद्धिमविसंवादमेव च ॥ लेख्य प्रयोजनमाह मरीचिः - - स्थावर इति । आधानमाधिः । आद्यश्वशब्द: ऋणादिनिष्कृतार्थसं- ग्रहार्थः । अविसंवादः कालान्तरेऽपि निष्कृतार्थस्यान- न्यथाभावः । एवं च स्थावरादावविसंवादेन सिद्धि- मालोच्य राजवंशवर्षा दिलेखनीयांनामावापोद्वापौ कार्यो । तेषां दृष्टार्थत्वात् । अतो न दानादिलेख्ये धनिकर्णिकादि लेखनीयम् । नापि ऋणादानादिलेख्ये प्रतिग्रहादिकम् । एत्रमन्यत्रापि लेख्ये लेख्यं समूहनीयम् | दृष्टप्रयोजनवा- लेख्यस्य । अत एवाकृतप्रयोजनस्य लेख्यस्य कार्याक्षमत्वे नाशे वा लेख्यान्तरमुत्पाद्यम् । स्मृच.६० 3 सिध्यते वाचिकोऽप्याधिः स्थावरेषु दशाब्दिकः ।। (१) स्मृच. ६७ पधि (पाधि); प्रका.४४ स्मृचवत्; समु. ४६ स्मृनवत् (२) व्यक. ६० विक्रयाधाने ( विक्रियादाने) द्धिम (द्धिं स); स्मृच.६०; पमा १२८ क्रया (क्रिया) पू.; सवि. ११७-११८ मंवि (मपि); व्यसौ. ५८; व्यप्र. १४१, १४७; विता. ११७ मविसं ( मनित्यं ); प्रका. ३९; समुं. ४२ यांधा (क्रये दा) दान (दाय) पू., कात्यायन:. (३) व्यक. ६१; पमा १२८ उत्त.; व्यसौ.५८ च क्रीते च (षु क्रीतेषु); व्यप्र. १४७; समु. ४२ उत्त, कात्यायन:. प्रतिग्रहे च क्रीते च नालेख्या सिध्यति क्रिया ॥ स्थावरविषयस्त्वाधिर्दश वर्षपर्यन्तमुपभुक्तः स तथा वाचिकोऽपि लेख्यं विना सिध्यतीत्यर्थः । व्यक. ६१ वृद्धवसिष्ठः जयपत्रलक्षणम् येथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रं तदिष्यते ॥ मिता. टीका – यथोपन्यस्तसाध्यार्थ इति । अस्यार्थः, साध्यार्थः प्रतिज्ञातार्थः तेन संयुक्तम् । तथा उत्तरेण द्विती- यपादसरूपेण क्रियया पत्रादिरूपेण च सहितम् । तथैव सावधारणकं अवधारणकं निर्णयः, तेन सहितं जयपत्रं भवतीति । सुत्रो. २।९१ संभासन्यस्तचिह्नं च वादिप्रत्यर्थिसंयुतम् ॥ प्राविवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिनो दद्याज्जयिने जयपत्रकम् || स्मृत्यन्तरम् दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च । क्रयलेख्यं दासलेख्यमाधिलेख्यमतः परम् ॥ संविदुद्धारलेख्यं च जयपत्रकमेव च । संधिपत्रं तथैवैतत् क्रियाभेदादनेकधा || विभागपत्रमित्येतत् भागानां निर्णये कृतम् । सीमाविवादे निर्णीते सीमापत्रमिति स्मृतम् ॥ आध्यर्थमाधिलेख्यं स्याद्दासार्थ दासलेख्यकम् । समीहितार्थसिध्यर्थ ग्राम श्रेणिगणादिभिः ॥ (१) मिता. २।९१ त्रं तदि (त्रकमि); अप. २१८४; व्यक. ६३ मितावत् ; व्यचि. ३० पत्रं तद्विष्यते (पत्रकमुच्यते); स्मृचि. ६० न्यस्त (न्यास) बृहस्पतिः; व्यसौ. ६० व्यचिवत्; व्यप्र. १४६ व्यचिवत्; व्यउ. ४४ साव (स्वाव) शेषं मिता- वत् ; विता. १२१ मितावत् ; समु. ४० मितावत् . (२) समु.४०. (३) मिता. २।९१; अप. २ ८४; व्यक. ६३ पू.; स्मृच. ५७ दिनो ( दिनो:); पमा. १२४ वसिष्ठः; ध्यचि ३० हस्ता (मुद्रा) पू.; नृप्र. ११ नो (ने) ज्जयि... कम् (ज्जयपत्रं तदुच्यते) वसिष्ठः; सवि. ११२ त्रकम् (त्रिकाम्); ध्यसौ.६० व्यचिवत्, पू.; ग्यप्र. १४६ पू.; व्यउ. ४४ द्धेऽयें (द्धार्थ); विता. १२१; प्रका. ३४. स्मृचवत्; समु.४० स्मृचवत्. (४) प्रका.३९ थैव च (थाडपरम्) बृहस्पतिः; समु.४२. (५) समु. ४२.