पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'लेख्यमालेख्य वत्केचिल्लिखन्ति कुशला नराः । कर्तुरिति गम्यते । तथा च लेख्यं परकीयं यः कूटं करोति कूटमेतदिति वदतीत्यर्थः । कूटलेख्यकर्तुस्तु दण्डान्तरं वक्ष्यते । ऋणादानादावपि लेख्य दोषमुद्भावयितुस्तदसाध- यतो विषयानुबन्धानुरोधेन दण्डः कल्यः । व्यप्र. १५० संवर्तः लेख्यस्य प्रमाणान्तरत: प्राबल्यं, लेख्यपरीक्षा च सम्यग्भावितः प्रमाणेन सल्लेख्यत्वमङ्गीकारितः । तस्मान्न लेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता ॥ अनेन, कूटलेख्यकर्तुर्नायं दण्डः; किन्तु कूटत्वोद्भावन- तेन सम्यक् परीक्षणीयमित्यभिप्रायः । स्मृच.६५ ज्ञात्वा कालं देशकार्ये कुशलाः कूटकारकाः । कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत् || स्त्रीबालानलिपिज्ञानान् वलयन्ति स्वबान्धवाः । लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्याऽऽगमैस्तु तत् यैवान्यस्य कृतं लेख्यमन्यहस्ते प्रदृश्यते । अवश्यं तेन वक्तव्यं पत्रस्यागमनं ततः ॥ (१) अमुकस्यैतल्लेख्यं ततो मां प्रत्यनेनोपायेन आ- गतमिति यस्य हस्ते दृश्यते तेन वक्तव्यं साधनीयमि- व्यर्थः । अप. २।९२ (२) ततो लेख्यस्वामिनः सकाशादित्यर्थः । स्मृच.६६ दूषितः कर्मदुष्टो वा साक्षी यत्र निवेशितः । कूटलेख्यं तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ अष्टाऽश्रावितं लेख्यं प्रमीतधनिकर्णिकम् । अबन्धलमकं चैव बहुकालं न सिध्यति ॥ (१) बहुकालं बहुकालीनम् । (२) अबन्धलग्नकं आधिप्रतिभूरहितम् । बहुकालं बहुकालीनं न सिध्यति स्वत इत्यभिप्रायः । स्मृच.६६ (३) अदर्शितत्वादिसप्तदोषाश्रये लेख्यं न प्रमाण- मित्यर्थः । व्यचि.६३ स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यग्भावितः कार्यो जिह्वापाण्यप्रिवर्जितः ॥ अप. २।९२ (१) शुनी. ४।७०६ पूर्वार्धे (कुशला लेख्यबिम्बानि कुर्वन्ति कुटिला: सदा ); व्यमा ३३९ ख्यवत् (ख्य यत्); अप. २८९२ न लेख्य (तल्लेख्य) रैका (नैका); व्यक. ६५; स्मृच. ६५; ब्यप्र. १४८ लिखन्ति (कुर्वन्ति); प्रका. ४२; समु. ४५. (२) अप. २१९२. (३) अप. २१९२; व्यक. ६ ७; स्मृच.६६; पमा. १३९; व्यसौ. ६३ हस्ते प्र (इस्तेषु); प्रका. ४३; समु.४५. (४) स्मृच.६२; प्रका,४०, समु. ४३ शितः (शयेत्). (५) अप. २१९२; व्यक.६९; स्मृच. ६६; पमा १३५ नारदः; व्यचि.६३; सवि. १२३ दृष्टा (दृष्टं); उयप्र. १४८ सविवत्; प्रका. ४३; समु.४५. व्यसौ. ६४; (६) व्यक. ६५; दवि.३४९; व्यसौ. ६२ ले (कूटं लेख्यं); ब्यप्र. १५०; विता. १३३ धाने (धान). ब्य. का. ४८ लेख्यम् कूटं ' लेख्ये लेख्यक्रिया प्रोक्ता वाचिके वाचिकी मता । वाचिके तु न सिध्येत्सा लेख्यस्योपरि या क्रिया ।। (१) वाचिकी साक्षिक्रिया । अत्रापि बलीयसीति शेषः । लेखस्योपरि किया विरोधिनी या क्रिया सान प्रमाणमित्यर्थः । व्यक.६८ - (२) अस्यार्थः – लेख्ये सति लेख्यक्रिया प्रोक्ता सैव बलीयसीत्यर्थः । वाचिके साक्षिरूपे प्रमाणे सति वाचिकी क्रिया साक्षिरूपा क्रिया सैव मता बलीयसी । लेख्यस्योपरि या वाचिकी साक्षिरूपा किया लेख्याना- रूढेति यावत् । तत्र सा (न) सिध्येत् । व्यप्र. १५१ लेख्यस्योपरि यत्साक्ष्यं कूटं तदभिधीयते । अधर्मस्य हि तद्द्वारमतो राजा विवर्जयेत् ॥ वाँचिकैर्यदि सामर्थ्यमक्षराणां विहन्यते । क्रियाणां सर्वनाशः स्यादनवस्था च जायते ।। (१) लेख्यस्योपरि यत्साक्ष्यं लेख्यविरुद्धं तद्वर्ण्य (१) व्यमा. ३१४ ख्यक (ख्या क्रि) वाचिके तु.... सा (वाचिकी न तु सिद्धे च); अप. २१९२; व्यक.६८ के तु न (की तत्र); स्मृला. ९८ प्रोक्ता (कार्या) के तु...सा (की न तु सिध्येत) : १११ के तु... सा ( की तु न सिध्येत); व्यसौ. ६४ मता (तथा ) शेषं व्यकवत् ; व्यप्र. १५१ व्यकवत् ; विष्य. १० के तु....सा ( का सा न सिध्येत्तु ). (२) हि (तु); व्यमा. ३१४; अप. २९२; व्यक.६८; स्मृच.६६ स्मृला. ९९ विवर्ज (निवर्त ) : १११ हि (च) शेषं पूर्ववत् ; सवि. १२३ अतो (ततो) विवर्ज (निवर्त); व्यसौ. ६४ हि (तु) विवर्ज (निवर्त); व्यप्र. १५१; प्रका..४३ पू.; समु. ४५ हि (तु); विग्य. १० हि (तु). (३) व्यमा. ३१४ च (इपि); अप. २१९२; व्यक.६८ कै: (की); समुसा. १११ कै: (के) सर्व (पूर्व); यसौ ,६४ कै: (के); ब्यप्र. १५१ कैः (की).