पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यवहारकाण्डम् ३७६ सर्वानेतान् भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः ॥ राजकीये तथा राजा स्वहस्तेन लिखेत्स्वयम् || "संधिविग्रहकारी च भवेद्यचापि लेखकः । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥ स्वनाम तु लिखेत्पश्चात् मुद्रितं राजमुद्रया । ग्रामक्षेत्रगृहादीनामीदृक् स्याद्राजशासनम् ॥ एतच्च प्रतिग्रहीतुरर्पणीयम् । तस्योपयोगित्वात् । स्मृच.५६ ज्ञातं मयेति लिखितं दात्राऽध्यक्षाक्षरैर्युतम् । अब्दमासतदर्धाहाराजमुद्राङ्कितं तथा ॥ अनेन विधिना लेख्यं राजशासनकं लिखेत् || व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम् । भागाभिशापसंदिग्धो यः सम्यग्विजयी भवेत् । तस्य राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम् ॥ पूँर्वोत्तरे क्रियापादं प्रमाणं तत्परीक्षणम् । निगदं स्मृतिवाक्यं च यथासभ्यं विनिश्चितम् । एतत्सर्व समासेन जयपत्रेऽभिलेखयेत् ॥ (१) क्रियापादं क्रियाभिमर्शनपादम् । प्रत्याकलित- पादमिति यावत् । निगदः साक्षिवचनम् | यथासभ्यं सभ्यानतिक्रमेण । समासेन संक्षेपेण । स्मृच.५७ (२) प्रमाणस्य पृथक् ग्रहणात्क्रियापदेन प्रत्याकलि तमत्र गृह्यते । परिज्ञानाय प्राङ्न्यायस्य बोधनाय । (१) बाल. २१९१. (२) स्मृच. ५६; प्रका. ३६; समु. ४० श्चापि (स्तस्य). (३) व्यक. ६३ हा (हो); स्मृच.५६; स्मृचि.४३ हा (हो) उत्त; व्यसौ. ६० हा (हो) उत्त.; प्रका. ३६ हा (हो); समु.४० (४) व्यक. ६३; स्मृच.५७; स्मृचि.४३ नकं (निकं); व्यसौ. ६० स्मृचिवत् ; प्रका. ३६; समु.४०. (५) व्यक. १०२; स्मृच. ५७; पमा. १२४ रान् ( रं ); स्मृचि. ६०; उयप्र. ९१,१४६; प्रका. ३६; समु. ४०. (६) स्मृच. ५७; पमा १२४ प्रमाणे (परीक्षणे) ग्धो (ग्धे) निश्चितम् (लेखितम् ); व्यप्र. १४६; प्रका. ३६; समु४०. (७) स्मृच. ५७ त्तरे (त्तर); पमा १२४ भ्यं (भ्य) ऽभि (वि); व्यप्र.१४६ त्तरे (त्तर) प्रमाणं तत् (तत्प्रमाणं) गदं (गद ) भ्यं (भ्य); प्रका. ३६ स्मृचवत्; समु.४० स्मृचवत्. भागेऽभिशापे वा संदिग्धे । विवादपदमात्रोपलक्षण मे तत् । तेन विवादविषयो यो यत्र विवादे स तत्र लेख- नीयः । व्यप्र. १४६ ' लिखेज्जानपदं लेख्यं प्रसिद्धस्थानलेखकः । राजवंशक्रमयुतं वर्षमासार्धवासरैः ॥ जाति: संज्ञा निवासोऽर्थः संख्या वृद्धिश्च वत्सरः । मासः पक्षो दिनं चैषां लिखितं व्यक्तिकारकम् ॥ देशस्थित्या क्रियाधानप्रतिग्रहविचिह्नितम् ॥ देशस्थित्या क्रिया देशाचारानुसारेण करणम् । आधानमाधिः । स्मृच. ५८ "पितृपूर्वे नामजाती धनिकर्णिकयोर्लिखेत् । द्रव्यभेदं प्रमाणं च वृद्धिं चोभयसंमताम् ॥ मैयोभयाभ्यर्थितेनामुकेनामुकसूनुना । स्वहस्तयुक्तं स्वं नाम लेखकस्त्वन्ततो लिखेत् । एवं जानपदे लेख्ये व्यासेनाभिहितो विधिः || अलिपिज्ञ ऋणी य: स्याल्लेखयेत्स्वमतं तु सः । साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपगः ॥ 'ऋणी हस्तं नामयुतं साक्षिभ्यां पितृपूर्वकम् || लेख्य परीक्षा दासाऽस्वतन्त्रबालैश्च स्त्रीकृतं चैव यद्भवेत् । प्रमाणं नैव तल्लेख्य शास्त्रविदो विदुः || 'संदेहेऽपि च लेख्यस्य विशुद्धिः परिकीर्तिता ऋणिसाक्षिलेखकानां स्वहस्ताक्षरपङ्क्तिभिः ॥ (१) स्मृच. ५८; पमा. १२५; नृप्र. ११; सवि. ११३ द्ध (द्धं); प्रका. ३७; समु.४१ बृहस्पति: (२) अप. २१८५. (३) स्मृच. ५८; प्रका. ३७; समु. ४१ बृहस्पतिः. (४) स्मृच.५८ कर्णि (कर्ण); पमा. १२५ वें (ई) दं (द); रवि. ११३ वें (वें) जाती (जाति) वृद्धिं (पृथ्व); प्रका. ३७ स्मृचवत्; समु. ४१ बृहस्पतिः. (५) स्मृच. ५९; सवि. ११५ कस्त्वन्त (कोऽन्तेत); प्रका. ३८; समु.४१. (६) ब्यमा.३३८ क्षिस (क्ष्यस); व्यक. ३ २; दीक. ३९ क्षिणा (क्षिणो); व्यत. २१९ ज्ञ (लो); ब्यसौ. ५९३ वीमि. २१८ ५ अलिपि (अनभि) सर्व (पर). (७) स्मृच.५९; प्रका. ३८ णी (णि); समु. ४१ णी (णि) युतं (युक्तं) बृहस्पतिः.

(८) ग्यमा. ३३९; व्यत. २२१स्त्री (स्वी); विग्य. १६. (९)

स्मृसा. ९६; स्मृचि.४४ लेख्यस्य (लेख्ये च); चन्द्र. १३१.