पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् वस्तुना भिन्नं भवति । अथवा चौरैगृहीतं भवति । अथवा प्रधाननामाक्षराङ्कप्रदेशेषु कुत्सितलिखिताद् उन्मृष्टं भवति । अथवा पतितत्वान्नष्टं भवति । अथवा दुर्लिखितमिति प्रधानाङ्कस्थाने संजातन्यूनाधिकाङ्कदो. पम् । सहस्रे प्रयुक्ते एकाङ्कस्योपरि कुलेखको बिन्दुद्वयमेव यदा ददाति तदा तत् शतमेव भवति । नवशतानां मूल नाशः संभवति । अथवा शते प्रयुक्ते एकाङ्कोपरि शून्यत्रयं ददाति तदा धनिकदोषाद् ऋणिककृतसहस्रमिथ्याप्रयुक्त शतस्यापि प्रणाशः । अथवा न्यूनाधिकप्रधाननामा क्षरम् । ‘ग्राहको गोसमः' इति लेखनीये मि ( ग ?) लितैकाक्षरम् - लिखितागमः । अयं नाक्षरदोषः । अथवा 'ग्राहको गोसमः' एवं लेखनीये लिखितं 'समः' । एवमूनाधिकाङ्काक्षरप्रधानस्थानभ्रान्तिकारि दुर्लिखितमुच्यते । एवं च तेषु दग्धभिन्नहृतच्छिन्ननष्टदु- र्लिखितदोषैः अवसन्नभूतेषु पुनरपि कालान्तरे कालदाय- कद्रव्यफलप्रमाणादीनामविस्मरणार्थं कर्तव्यमन्यल्लेख्य स्यादित्युक्तं महर्षिणा । तच्च तेन निश्चितं कर्तव्यमिति धनिकर्णिकयोर्विशेषनामोच्चारणं न कृतम् | यथासंभव कृते लेख्य प्रमाणार्थं यदि ऋणी प्रत्यक्ष एव तिष्ठति, तदासौ धनिना अन्यलेख्यकरणाय विधारणीयः । तेना- व्यवश्यमेव करणीयमन्यल्लेख्यं स्यादिति । अथ कदा- चिद् ग्राहको मृत:, दूरदेशान्तरे व्यवहितो वा वर्तते, यंत्रास्य वा यं एकतमः प्रमाद: संपन्नः तदा धनिनै- वात्मना नित्यानित्यतालोचनस्थितेन स्वसंततेरनष्टद्रव्यसं- बन्धकरणार्थिना अल्पं भूर्जचोरकं वा समानीयान्यं लेखकमाहूय तथैव तदवस्थितनवाङ्कक्रमपरिपूर्ण तेनैव धनिना कर्तव्यमन्यल्लेख्यं स्यादेवं लेख्यविधिः स्मृतः । अभा.६२-६३ (२) यदि तु अविप्रतिपत्तिदशायामेव पूर्वलिखना- नुसारेण लिखनान्तरं क्रियते तदा तदपि प्रमाणमेव । चन्द्र. १३२ (३) छिन्नं मूपिकादिभिः । भिन्नं छिद्रितं पिपी- लिकादिभिः । हृतं चोरादिभिः | उन्मृष्टं ध्वस्ताक्षरमु दककालादिना । नष्टं पतितं विस्मृतम् । दुर्लिखिते ऽवधीरिते लेख्यमन्यच्छुद्धं कर्तव्यम् । एप लेख्यविधिः स्मर्यमाणः । नाभा. २|१२३ बृहस्पतिः लेख्य प्रकाराः तल्लक्षणानि च सांक्षिणामेष निर्दिष्टः संख्यालक्षणनिश्चयः । लिखितम्याधुना वच्मि विधानमनुपूर्वशः || षोण्मासिकेऽपि विषये भ्रान्तिः संजायते यतः । धात्राऽक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा । लेख्यं तु त्रिविधं प्रोक्तं भिन्नं तद्ब्रहुवा पुनः ॥ भागदानक्रयाधानसंविदासऋणादिभिः । सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥ (१) अत्रापि न संख्या विवक्षिता । अधिकानामपि लेख्यानामेतेभ्यो दर्शितत्वादत एवात्रादिग्रहणं कृतम् । अन्यथा गणितैरेव सप्तविधत्व सिद्धेरादिग्रहणमपार्थ स्यात् । तेनैव तत् ज्ञायते लेख्यसंख्यानवधारणार्धेति । अतो विविधसंख्यावद्वचनानामविरोधः । स्मृच.६० (२) यत्पूर्वमुदाहृतं 'लिखितं दशधा स्मृतम्' इति तद्विशदत्वेन संपन्नम् । लौकिकस्य सप्तविधत्वात् । राज- पत्रस्य त्रिविधत्वात् । शासनमेकं, जयपत्रं द्वितीयं, आज्ञा प्रज्ञापनपत्रयोरेकीकारेण तृतीयं द्रष्टव्यम् । पमा. १२१ ( १ ) व्यमा ३३६ मेप (मेव) निश्च (निर्ण) विधानम (यथा- बद); व्यक.६०; पमा ११९; व्यसौ.५७ निश्च (निर्ण); व्यप्र. १४१; प्रका. ३५ प्रजापतिः; समु. ३९. (२) व्यमा. ३३६; व्यक.६०; पमा. ११९ पा... ये (ऋणादिकेऽपि समये); व्यचि.६२ विष (सम); स्मृचि. ४२ व्यचिवत् ; व्यत २२० व्यचिवन्; व्यसौ.५७ व्यचित्रत् ; व्यप्र. १४१ यतः (नृणाम् ) शेपं व्यचिवत्; प्रका. ३५ पमा वत्, प्रजापतिः; त्रिव्य. १५ विष (सम) सृष्टानि (शस्तानि ). (३) व्यमा. ३३६; अप. २१८४ तु ( तत् ); व्यक. ६०; पमा. ११९ भि... पुन: (विदुरेवं बुधाः पुनः ) ; नृप्र. ११ भिन्नं (आद्यं); व्यसौ.५७-५८ खितं ( खनं ); व्यप्र. १४१; व्यम. ११; प्रका. ३५; समु. ३५ बहुधा (दशधा). (४) शुनी.४।६६८-६६९ भाग (भोग) लख्यं ( चैतत् ); व्यमा ३३७ क्रया (क्रिया); अप. २१८४ धान (धीनां); व्यक. ६०; स्मृच. ६०; पमा. ११९ धान (धानं); नृप्र. ११ व्यमा- वत् ; व्यसौ. ५८ व्यमावत् ; व्यप्र. १४१ व्यमावत् ; व्यम. १२; विता. १२० द्दाम (हास्य); प्रका. ३९व्यमावत; मु ४२