पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (३) हेत्वन्तरकृतं दायादादेर्वञ्चनार्थं कृतम् । आगम: एतावतो धनस्य संभवोऽस्यास्ति नेत्येवमात्मकः । हेतुरनुमानम् । एवं धनिनामाङ्कलेख्यमपि वञ्चनादि- हेतुकं परीक्ष्यम् । स्मृच.६५ (४) यत्र पुनरन्य एव ऋणं ददाति पत्रं च केनापि हेतुनाऽन्यनाम्ना लिखितं तत्र विप्रतिपत्तौ संबन्धागमा दिना हेतुना निर्णयः यस्य नाम्ना तत्पत्रं तेन सः । यदि तस्यैव द्विविधविश्वासहेतुः संबन्धः कश्चिदस्ति । एवमागमे तदीयपञ्जिकायां यदि पुरातनक्रयेण पत्रस्य दिवसमासद्रव्यसंख्यापरिमाणानि प्रतीयन्ते । तदा तदपि प्रमाणमेव । तदाह - लेख्यमिति | Xस्मृसा. ९८ (५) यच्च लेख्यं अन्यनामाकम् । अन्यस्य नाम अन्यनाम, अन्यनाम अङ्क: लक्षणं यस्य तदन्यनामाङ्क, अन्यस्य नाम्ना कृतं स्यात् । हेत्वन्तरेण कृतं पितृभ्रातृभयेन श्रशुरादिनाम्ना कृतम् । विपरीतः प्रत्ययो यस्य स विप्रत्ययः । विप्रत्यये विसंवादिते तस्मिन् ममै वैतन्नान्यस्येति तत् संबन्धागमहेतुभिः परीक्ष्यम् । संव- न्धिभ्य आगम: संबन्धागमः | सुहृज्ज्ञातिबान्धवास्तत्का- लानुकालवृत्तं जानन्ति क उदयं गृहन्ति कोऽभिमन्ता क उदासीन इत्यादि । हेतवः प्रागभिहिताः साधारण- नाभा. २।१२१ 'लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् । साक्षिभ्यो लिखितं श्रेयो लिखितान्न तु साक्षिणः ॥ ( १ ) अत्र हरेदिति क्रियापदेन लिखितं कृत्वा ऋणि- केन धनिकस्य धने प्रवेशिते तेनैव हस्तीकृतेन ऋणी तमृणसंबन्धं निर्हरेत् । यदि पुनर्धनी तस्य लिखितस्य हृतनष्टदग्धादि कारणमुपन्यस्यति, ततस्तदीयं प्रणष्टविशु- द्विपत्रं ग्राह्यम् । अत इदमुक्तं 'लिखितं लिखितेनैव' हरेदिति । यत्र पुनः प्रथमसंव्यवहारकरणं साक्षिमत् संजातं, तत्र ऋणे विशोध्यमाने तैरेव साक्षिभिः प्रत्यक्षी- नयादयः । x भ्यत., सेतु. स्मृसागतम् । (१) नासं. २११२२ तान्न (तेन); नास्मृ.४।१४५; अभा. ६३ साक्षि... रेत् (तेन हस्तीकृतेन सु); मेधा. ८०३ साक्षि भिर्हरेत् ( चैव साक्षिभिः) तान्न (तेन); अप. २ ९२ (=) हरेत् ( नयेत.); स्मृच. ६ ३ श्रेयो (ज्ञेयं); स्मृसा. १२२ उत्त.; प्रका. ४१ स्मृचवत; समु.४४ स्मृचवत्. कृतैस्तदृणं निर्हरेत् । (२) लिखितानारूढसाक्षिविषयमेतत् । (३) अविद्यमानसाक्ष्यादिकं लिखितं लिखितादिना शोधयेदित्यर्थः ।

  • स्मृच.६३

(४) लिखितं सपत्रं व्यवहारं पत्रवशेनैव समापयेत् । साक्षिमदपत्रं व्यवहारं साक्षिवशेनैव समापयेत् । यत्रैकः पत्रं दर्शयत्यन्यो नैवमिति साक्षिण उपस्थापयति, तत्र साक्षिभ्यो लिखितं श्रेयः प्रत्ययकरं प्रमाण मित्यर्थः । यतो लिखितेन तु साक्षिणः लिखितपक्षे पत्रसाक्षिणो विद्यमान- त्वात् । इतरत्र साक्षिण एव । साक्षिणश्चान्यथा शक्या: संपादयितुम् । अथवा लिखितं श्रेयः । कस्मात् । यस्मा- ल्लिखितेन सह साक्षिणोऽविनाभूताः । तस्माद् बलवत्तरं लिखितमिति । नाभा. २।१२२ दुष्टे पत्रे स्फुटं दोषं नोक्तवानृणिको यदि । ततो विंशतिवर्षाणि क्रान्तं पत्रं स्थिरं भवेत् || (१) यदि सदोषं पत्रं, कथं विंशतिवर्षपर्यन्तं पत्र- वतो भुक्तिरित्येवं संदिग्धप्रामाण्यं लेख्यं दिव्यप्रति- साधनायें स्थिरीभवतीत्यर्थः । अप.२।९२ (२) तस्यामयर्थ: - दौष्ट्यचिरकालभोगाभ्यां सं- दिग्धप्रामाण्य कं लेख्यं दिव्येन साधितार्थ स्थिरं भवेदिति । चिरकालत्वमात्रेण स्थैर्यासंभवात् । स्मृच. ६५ 'छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च । कर्तव्यमन्यल्लेख्यं स्यादेष लेख्यविधिः स्मृतः ॥ (१) अत्र लिखितमाहात्म्यं प्रथमोक्तमपि पुनरत्र प्रस्तावागतमुच्यते ' देशकालफलद्रव्यप्रमाणावधि- निश्चये | सर्वसंदेहविच्छेदि लिखितं चक्षुरुत्तमम् ॥ एत- दर्थं धनिना लिखितं कारितमपि यदि कथमपि प्रमादा- हग्धं वा छिन्नं वा भवति । अथवा उदकतैलादिद्रव-

  • शेषं अपवत् ।

(१) अप. २१९२ क्रान्तं (कान्तं); स्मृच.६५; प्रका.४७. (२) नासं. २|१२३ कर्त... स्याद् ( लेख्यमन्यद्धि कर्तव्यं ) ; नास्मृ. ४|१४६; अभा.६२ छिन्न... मृष्ट (दग्धभिन्नहृतछिन्न); स्मृच. ६१ नष्ट (दग्ध); स्मृसा. ९७ हृतो ( कृतो) लेख्यं ... लेख्य (लिखितमेष एव); व्यत. २२१ हृतो (कृतो) लेख्यं स्यादेष (लि (लिखितं ह्येष); चन्द्र. १३२ हृतोन्मृष्ट (कृतम्लिष्ट) लेख्यं स्यात् (लिखितं); सेतु. ११३ लेख्यं स्यादेष (लिखितं ह्येष); प्रका. ४० स्मृचवत् ; समु.४२ स्मृचवत्. अभा.६३ अप. २१९२ तत्सजातीय-