पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्ष्यादिस्पष्टनिर्णायकाभावात् । स्मृच.६३ (४) नष्टासंनिहिते लेख्ये विधिरक्तः | संप्रति दृश्य- माने।.लेख्ये यस्मिन् संशयः स्याद् भूताभूतकृते, क्वचिद् धनी भूतकृतमिति ब्रवीति ऋण्यभूतकृतमिति न मया कृतं कूटलेख्यमिति । तत्पत्रम् | स्वहस्तेनान्यत्र तल्लिखि- ताक्षरसामान्येन । क्रियया साक्षिभिः । चिह्नेन तत्काल निर्वृत्तव्यापारसंवादनेन । प्राप्तिरतिक्रान्तकाले विस्रावितं कस्यचिद्वा सकाशेऽभ्युपगमितम् | युक्तिभिर्योग्यायोग्यत्वं द्रव्यापह्नवयोः। लेख्यम् ३६१ लेख्यमिति । अत्र च संबन्धागमहेतूनां त्रयाणामपि परीक्षा आवेदकानां कल्याणकृतं श्लोकत्रयमिदमस्ति, तत्र संबन्धः – 'अन्वयज्ञातिवैवाह्या मैत्र्येकव्यवहारतः । युज्यते द्रव्यसंबन्धे निःसंबन्धे नियुज्यते ॥ अथागमः- ‘अन्वयक्रीतमाधत्तं लब्धप्रीत्याप्तलक्षणैः । सागमं षड्- भिरेतैः स्याद्विनात्वेतैर्निरागमम्' ॥ अथ हेतुः -- 'वितर्फे च निमित्ते च हेतुशब्दः प्रयुज्यते । प्रमाणं संशयो- त्तीर्ण सन्निमित्तं च नान्यथा' || इति सभ्यैः श्लोकत्रय- मिदमेवं व्याख्यातम् | ऋणिकेनापि धर्माधिकरणपृष्टेन तस्मिन्नेव धनिके समर्पिते अन्यनामाङ्कस्यापि पत्रस्य यस्यार्थसंबन्धस्तस्य प्रामाण्यम् । न पुनरर्थसंबन्धवर्जि- तस्य नाममात्रस्येति । निर्णयं दत्वा उत्तरवादिनोः प्रदत्त इति । एवं प्रथमस्यान्यनामाङ्के लेख्यस्वरूपं निर्णयस्वरूपं च परिस्फुटीकृतम् । इदानीं द्वितीयस्यो- च्यते – केनापि भारुकच्छीयब्राह्मणेन आदित्यभट्ट- नाम्ना खेटकीयब्राह्मणसोमनाम्न उपरि युक्तं मूलिकं द्रम्मसहस्रद्वयं तेनापि संततिरहितेनोपस्थितमृत्युकालेन वा आत्मनः श्रेयोऽर्थिना दीक्षितमङ्गलभट्टनाम्ना नर्मदा- तीर्थस्थितेन प्रधानब्राह्मणाय साक्षिचतुष्टयप्रत्यक्षं तत्पत्र- मुदकचुलुकपूर्वेण प्रतिपादितम् । तेन चागत्य पत्रहस्तेन | द्रव्यार्थ सोमभट्टः प्रारब्धः तावत् आदित्यभट्टभ्रात्रा बुद्धभट्टेनागत्य व्यासेधः कृतः । धर्माधिकरणस्याग्रे च एवमभिहितं, यथा - तेन अस्मदीयपत्रेण सह मङ्गल- दीक्षितभनाम्नः पार्श्वे भ्रातृद्रव्यं मया बहु लब्धव्यमत- स्तदभावे अन्यैर्वा प्रत्यक्षीकृतसाक्षिभिर्निर्हरेत् । अथवा तत्रापि पूर्वसाक्षिणामप्रत्यक्षत्वेन तत्रापि विशुद्धिलिखित- मेव श्रेयः कालकालान्तरेऽपि 'साक्षिभ्यो लिखितं श्रेय' इति वचनात् । यत्र पुनः लिखितपूर्वः प्रथमव्यवहारः, तत्र ऋणिप्रवेशेऽपि लिखितपाटनं वा विशुद्धिलिखितं वा सविशेषमेतदेव श्रेयः । न पुनस्तत्र साक्षिणः कृता अपि यसो भवन्ति । विनाशित्वपरवशत्वादिदोषात् । तथा लिखिताद् न तु साक्षिणोऽभ्यधिका भवन्तीति । अभा.६१-६२ नाभा. २।१२० 'लेख्यं यच्चान्यनामाकं हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः || (१) अत्र अन्यनामरूपोऽको यस्य लेख्यस्य तदन्य- नामाङ्कमुच्यते । तच्च द्विविधं भवति । एकं यस्य सक्तं द्रव्यं तस्यैव नाम्ना लिखितं किन्तु तस्य पार्श्वात् येन किमपि क्रीतं लब्धं वा, तस्य तद्रव्यं प्रार्थयतः । तत्पत्र- मन्यनामाङ्कं भवति । तयोश्च इयोरपि यथासंख्येनाधि- प्रत्ययसंभवरूपमुच्यते । तत्र प्रथमे अन्यनामाङ्के यस्य सक्तं द्रव्यं तस्मिन्नामारूढं स आगत्य पत्रं व्यासेधयति । तं धनिकं सुतं च वदति, अस्य ऋणिकस्योपरि यत्पत्रं तन्मदीयम् । मन्नामाङ्कितं त्वदीयपितुः पार्श्वस्थापनिक भूतं मया मुक्तम् । तदर्प्यतामिति । धर्माधिकरणस्याग्रे ईदृशे विप्रत्ययोपन्यासे कृते तेन सद्रव्यपत्रध्वनिना उत्तरं दत्तं यथायमस्मदीय पितुरष्टप्रहरिकः कर्मकर आसीत् । तथा काले च स दायादभयादस्यैव नाम्ना पत्रमिदमभिलिखितवान् । ऋणिनापि स्वहस्तेनास्मदीय पितुः समर्थ्य तत्पार्श्वात् स्वहस्तेन द्रम्मा अपि गृहीताः । यदि किञ्चिदिदमन्यथा ततो ममावसायः पृच्छ्यतामेत- दसावृणिकः, कस्तव धनी ? इति, ततो धर्माधिकरण- सभ्यैः अस्य विप्रत्ययस्य परीक्षार्थे पठितोऽयं श्लोकः- , (१) नासं. २११२११ नास्मृ. ४ | १४४; अभा. ६१; अप. २१९२; ब्यक. ६७ भवेत् ( क्वचित् ); स्मृच.६४; पमा. १३९ विप्रत्यये (विवृत्य बै); स्मुसा. ९८; व्यत. २२१ विप्र- त्यये (विप्रतिपत्तौ ) ; चन्द्र. १३३ वच्चा (यत्रा); व्यसौ. ६३ भवेत् ( च यत् ) तत् ( स्यात् ); बाल. २१९२ परीक्ष्यं तत् ( परीक्षेत); सेतु. ११३ बिप्रत्यये ( प्रतिपत्ती ); प्रका.४२; समु.४५. म. का. ४६ (२) विप्रत्यये विप्रतिपत्तौ । संबन्धोऽत्र अर्थिप्रत्य- र्थिनोः परस्परविरोधपूर्वमपि धनग्रहणादिसंबन्धः । ध्यक.६७