पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् शतसंभावना अस्त्यस्यापि शतग्रहणप्रयोजनमिति । अथै- - वमाह - नास्त्येव मम तदा तद्देशप्राप्तिर्देशान्तर स्थत्वात् । सा प्रातिस्तदेशसंनिधानेन निराक्रियते अस्त्यनयोस्तद्देशप्रातिरिति । अथैवमाह - नैतानि ममा- क्षराणि, नापि साक्षिलेखकयोरिति । तदा यदि कश्चिद् धार्मिको असाधारणेन चिह्नन तान्यक्षराणि प्रत्यभि जानाति, तदा चिह्नमपि निर्णायकम् । एवमसाधारणमपि पुत्रादिकं चिह्नं निर्णायकमिति बोध्यम् । यत्र द्रव्य- संख्यास्वरूपनिर्देशस्थाने पूर्वाक्षराणि विलुप्यान्या द्रव्य संख्या कृतेति तत्र संबन्धेन निर्णयः । यान्यक्षराणि कृटत्वेन शङ्कितानि यद्यन्याक्षरैः सह बिन्दुमात्रादिना संबद्धानि तदा प्रमाणमेव पत्रमिति | संबन्धोऽपि निर्णा- थक इति । एवमन्योन्यसंबन्धी विश्वासहेतुश्च निर्णा यक इति । हेतुभिरिति न पृथक्करणोपादानं, किन्तु युक्त्यादि भिर्हेतुभिरित्यर्थः । एतच्च दिगुपदर्शनम् । । स्मृसा. ९६-९७ (६) युक्तिः इदानीं द्रव्यं नास्ति मासान्तरे दातव्यं मयेत्यभिधानान्यथानुपपत्तिः । प्राप्तिः तत्पत्रलिखितर्ण वृद्धयादिप्राप्तिः | संबन्धः विवादपदे कुण्डलादौ पूर्व काल उत्तमणीयत्वावधारणम् । आगमो विवादपदस्य तत्पूर्वक्रियादिः ।

  • वीमि.२।९२

ऋणापाकरणसंबन्धी उपगतादिविधिः लेख्यस्य पृष्ठेऽभिलिखेद्दत्वा दत्वर्णिको धनम् । धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् + ॥ दत्वर्ण पाठ्येंल्लेख्यं शुद्धयै वाऽन्यत्तु कारयेत् । साक्षिमा भवेद्यद्वा तद्दातव्यं ससाक्षिकम् +॥ नारद: लेख्यप्रकाराः तलक्षणानि च 'लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमत्र सिद्धिर्देशस्थितेस्तयोः ॥

  • 'संदिग्ध पदार्थो मितावत् ।

+ अनयोर्व्याख्यासंग्रह स्थलादिनिर्देशश्च ऋगादाने द्रष्टव्यः | (१) नासं. २१११२ मत्सा (कंसा) ते (ति); नास्मृ. ४।१३५; शुनी. ४/६६७-६६८ पूर्वार्धे (स्वहस्तलिखितं वा इत्यहस्तेनापि विलेखितम्); अभा. ५९ ते (ति); मिता. (१) अत्र एवं स्वहस्तकृतं, द्वितीयमन्यहस्तलिखि तम् । एवं तावद्विविधमेवोक्तम् । एतयोस्तु यत्स्वहस्त- लिखितं तत्साक्षिभिर्विनाऽपि प्रमाणम् । यत्त्वन्यहस्त- लिखितं तत्साक्षिसहितं प्रमाणम् । स्वहस्तलिखितस्यैतन्मा- हात्म्यं यद्विनाऽपि साक्षिभिस्तत्प्रमाणमेवेति । यथो- तं – सिद्धिर्देशस्थितिस्तयोः तद्देशाचारमाहात्म्यं दर्शि तम् | यस्मिन् देशे या देशस्थिति: आलेख्यसिद्धि- रिति । - अभा.५९ (२) देशाचारस्थितिर्यस्मिन्देशे यादृशं लेख्यं तत्र तादृशमेव आदरणीयमित्यर्थः । Xस्मृसा. ९५ (३) लेख्यं द्विप्रकारं ज्ञेयं स्वहस्तलिखितमघमर्णेन, अन्यकृतमन्येन लिखितं तद्वचनात् । तदप्येकैकं द्विप्र- कारमविद्यमानसाक्षिकं पत्रमात्रं ससाक्षिकं च । तयोः सिद्धिः प्रमाणं देशाचारः । यस्मिन्देशे असाक्षिकः पत्र- संव्यवहारः तत्र तथा सिद्धिः, यत्र ससाक्षिकः तत्र ससाक्षिकं प्रमाणम् । नाभा. २।११२ (४) आद्यं तु साक्षिभिर्विना बलात्कारेण छद्मना च कृतं विना प्रमाणमिति विशेषः । परंतु स्वलिखित- संशयसंभावनायां तयुदासाय साक्षिमत्तदपि कार्यम् । इतरत् माधारणं विशेषणम् ।

  • त्रीमि. २१८४

व्यउ. ४३ (५) तयोरर्थिप्रत्यर्थिनोर्लेख्ययोर्वा । रोशः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ X व्यत., सेतु, स्मृसावत् । * व्यप्र. वीमिगतम् | २।८४; अप.२।८९ (=) शेयं ( विद्यात् ) ; व्यक. ६१ नासं- वत्; स्मृच.६१ शेयं (प्रोक्तं); पमा १३० स्मृचवत्, कात्या- यनः; स्मृसा. ९५ तु (च) ज्ञेयं (प्रोक्तं ) सिद्धिर्देश (देशा- चार) शेपं नासंवत्; व्यचि. ६२ शेयं (प्रोक्तं ) यकृतं (न्याक्षरं ) मत्सा (कं सा); स्मृचि. ४२ मत्सा (कंसा); व्यत. २२० शेयं (प्रोक्तं) मत्सा (कं सा); व्यसौ ५८ शेयं (प्रोक्तं ) न्यकृतं (न्याक्षरं ) ; व्यप्र. १४२ स्मृचवत्; व्यउ. ४२ ४३ मत्सा (कं सा); व्यम. १२ स्मृचवत्; विता. १२४ शेयं (प्रोक्तं) ते (ति); राकौ. ४०५; सेतु. ११३ व्यतवत्; प्रका. ४० स्मृचवत् समु.४३ स्मृचवत्. (१) शुनी. ४१६७०; स्मृच.६१; स्मृचि. ४३ पूर्वार्धे ( स्वहस्तचिह्नितं राज्ञः स्वमुद्राचिह्नितं तथा ) कात्यायनः; प्रका. ४०; समु. ४३.