पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ (१) लेख्यस्वरूपे चेद् व्यभिचाराशङ्का, कोऽत्र निर्णयहेतुः ? उच्यते, संदिग्धेति । संदिग्धश्वासावर्थ श्वेति संदिग्धार्थः, तद्विशुद्धिरर्थ: प्रयोजनं यस्य लेख्यस्य तत् तथोक्तम् । संदिग्धार्थनिर्णये तदेव प्रमाणमित्यर्थः । तच्च स्वहस्तलिखितं यदि स्यात्, ततः शुद्धमेव | संशये तु युक्त्यादिभिर्निर्णयः कार्यः । तस्मिन् काले देवदत्तस्य द्रव्यप्रयोजनमासीद्, यज्ञदत्तश्च तदा स्वधनं प्रयुक्तवान् इत्यादिका युक्तिः । समानदेशस्थौ तदोभावण्यभूतां इति प्राप्तिः । अप्रतारकश्वासौ लेखकः प्रसिद्धः, तदीया लेख्या इति क्रिया | चिह्नं मुद्रालिपिविशेषादिकम् । संबन्धो बलोपध्याद्यभावः। आगमो लेख्यलक्षणयोगः । कूटसाक्षित्वाद्यसंभवो हेतुः । एवं युक्त्यादिभिर्यत् परी- क्षितं लेख्यं, तत् प्रमाण मित्यवसेयम् । विश्व.२।९५ (२) शुद्धमशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्ले- ख़्यान्तरं तेन शुद्धिः | यदि सदृशान्यक्षराणि भवन्ति तदा शुद्धि: स्यादित्यर्थ: । आदिशब्दात् साक्षिलेखक स्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति । युक्त्या प्राप्ति- युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्ति: । क्रिया तत्साध्युपन्यासः । चिह्नमसाधारणं श्रीकारादि । संबन्धः आर्थप्रत्यार्थेनोः पूर्वमपि परस्पर- विश्वासेन दानग्रहणादिसंबन्धः । आगमोऽस्यैतावतोऽर्थ स्य संभावित: प्राप्त्युपायः। एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यशुद्धिः स्यादित्यन्वयः । यदा तु लेख्य संदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायन: 'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ' । इति साक्षिसंभव विषयमिदं वचनम् | साक्ष्य- संभवाविषयं तु हारीतवचनं 'न मयैतत्कृतं पत्रं कूट- द्धयर्थ स्वहस्तलिखितं तु यत् ); विश्व. २।९५ अपुवत् ; मिता; ब्यमा. ३३९; अप. लेख्य (लेख्ये); स्मृच.६३; पमा. १३३; स्मृसा. ९६; स्मृचि. ४४; नृप्र. १२; सवि. १२०; मच. ८ | १६४ ग्ध (ग्धे); चन्द्र. १३१; वीमि.; व्यप्र.१४९; व्यउ.४५; व्यम. १३; विता. १३ २ ग्ध (ग्धे); प्रका.४१; समु.४४ ग्ध (ग्धे); विव्य. १६.

३५५ मेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णय' इति ॥ Xमिता. (३) युक्तिप्राप्तिः पत्रलिखित देशकाले तयोः सहावस्था- नम् | चिह्नं मुद्रादिकम् । +व्यमा. ३३९ (४) लेख्ये प्रमाणतया संदिग्धे स्वहस्तलिखितादिभिः प्रामाण्यलिङ्गैर्युक्त्यादिभिश्च कारणैः शुद्धि: संशय- निवृत्तिः प्रामाण्यावधारणलक्षणा स्यात् । एतच्चाधमर्गेन साक्षिरहितं स्वहस्तेन कृतं यल्लेख्यं तद्विषयवचनम् । तत्र ह्यधमर्णस्य न मयैतल्लिखित मिति प्रत्यवस्थानसंभवः। तत्र तेनैव यदन्यल्लेख्यं कृतं तत्स्वहस्तलिखितं तेनेव निर्णय: । आदिशब्देन च पितृनामगोत्रसब्रह्मचारि त्वानां ग्रहणम् | युक्त्यादीनामपि तत्रैव पत्रके स्वयं प्रमाणतया प्रमाणान्तरानुग्राहकतथा वा निर्णायक त्वम् | युक्तिरर्थापत्तिः । प्राप्तिरेकत्र देशे काले च वादिप्रतिवादिनोः स्थितिः । एतच्च प्रमाणान्तरानुग्राहक- तथा शुद्धिहेतुर्न स्वातन्त्र्येण । यदि हि नैकत्र देशादौ तयोः स्थितिस्तदा लिखितमप्रमाण मेवेति निश्चिते स्वहस्त- लिखितादिषु लेख्यप्रामाण्यावधारकेषु विचारकाणां जिज्ञासैव न जायते । क्रिया संव्यवहारः | ययोः खलु नास्त्यार्यद्रविडयोरिव संव्यवहारस्तत्र लेख्यं प्रति प्रामा- ण्यमसंभवनिरस्तम् | चिह्नं मुद्रा | संबन्धो वादिप्रति- वादिनोः प्राग्विवादात्परस्परं विश्वासपूर्व आदानप्रति दानादिः । आगमो विवादासदीभूतस्यार्थस्य स्वस्वामि संबन्धोपायः क्रयादिः । अस्यार्थिन एतावद्धनं क्रयादि- नोपायेनास्य संभवत्येतद्बुद्धिरिति हेतुग्नुमानम्। स्वह- स्तलिखितादिकं न लेख्यस्य शुद्धौ युक्त्यादिनिरपेक्षं कारणं भवितुमर्हति । अनैकान्तिकत्वात् । सन्ति खलु पुरुषाः कुशला ये पुरुपान्तरलिखिततुल्यं लेख्यमा- पादयन्ति । पितृनामादीनां वाऽभेदः संभवति । #अप. (५) तत्र स्वहस्तलिखनमुक्तमेव | युक्त्यादीन्युच्यन्ते । तत्र यदि गूढपत्रविभावनार्थमेवाह यस्मिन् काले मयास्य शतं गृहीतमिति पत्रे लिखितमस्ति तत्काले नास्य शतसंभावना । न वा मम शतेन प्रयोजनम् । सेयमाशङ्का युक्त्या निराक्रियते -- अस्ति तत्कालेऽस्य x सवि., व्यप्र., व्यउ, विता. मितागतम् | चन्द्र, व्यम मितागतं अपगतं च 1 + शेषं मितागतम् । * स्मृच. अपगतम् ।