पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३५४ (१) किं पुनः स्वहस्तारोपणे प्रयोजनम् ? उच्यते विनापीति । ऋणिकसंप्रतिपयर्थ हि साक्षिणः । स चेत् स्वहस्तेनापि संप्रतिपद्येत, मन्दं साक्षिप्रयोजनं मन्यते । एतच्चोपगतादिविषयं द्रष्टव्यम् । विश्व.२।९२ (२) यल्लेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभि विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते, बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादि- लक्षणेन यत्कृतं तस्माद्विना । मिता. (३) उपाधि: छद्म । अपिशब्दात् ससाक्षिकमपि । यत्पुनर्न स्वहस्तलिखितं तत्साक्षिमदेव सत्प्रमाणम् ।

  • अप.

(४) तल्लेख्यप्रामाण्येन योऽभियोज्य: तल्लिखितमि त्यर्थः । व्यचि. ६२ (५) तुशब्देन परलिखिते साक्षिविनाकृतत्वस्य व्यव- च्छेदः । सर्वमित्यनेन वादिसाक्षिपत्रलेखकानां सर्व लिखितमुच्यते । वीमि. (६) बलोपधिकृतपर्युदासः सर्वलेख्य विषयो न स्वकृत मात्रविषयः । व्यप्र. १४२ पूर्वलेख्यहानिसंभवे तत्तुल्यलेख्यकरणम् 'देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्ठे हृते तथा । भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ (१) यदा त्वृणिकदेशात् देशान्तरे लेख्यं, प्रमाणतो वा भ्रष्टं तदा यः प्रकार: तमाह - देशान्तरेति । राजा, परस्परं वा धनिकर्णिकावित्यभिप्रायः । लेख्य दोषो यत्र प्रमादालिख्यमाने संजातः, तद् दुर्लेख्यम् ।

  • शेषं मितागतम् | स्मृच. अपगतम् ।

(१) यास्मृ. २१९१; अपु. २५५/२४ दग्धेऽथवा छिन्ने (छिन्ने तथा दग्धे); विश्व. २१९४ भिन्ने... छिन्ने (छिन्ने भन्ने तथा दग्धे); मिता; अप. इथवा ( तथा ); व्यक.६४ न... हृते (ततोन्मृष्टे कृते) ऽथवा (तथा ); स्मृच. ६० अपवत् ; पमा. १२९ ष्टोन्म (टे घू); स्मृचि.४४ पमावत् ; सवि. ११८ अपवत् ; मच. ८ | १६४ ष्टोन्म (ष्टेम्लि) ऽथवा ( तथा ) ; व्यसौ. ६१ स्थे ...न्मृष्टे (स्थिते लेख्ये तथोन्मृष्टे); वीमि. हृते तथा (तथैव च); व्यप्र. १४७ अपवत् ; व्यउ.४४ (=) नष्टो (मृष्टो) लेख्य (लेख); व्यम. १३ अपवत् ; विता. १३० वा छि (बोच्छि); प्रका.३८ अपवत ; समु.४२ अपवत् . उन्मृष्टं भग्नाक्षरम् | छिन्नं मूर्षिकादिभिः | भिन्नं पाटि- तम् । तथाशब्द: प्रकारार्थः । स्पष्टमन्यत् । विश्व २९४ (२) प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसरति-- देशान्तरस्थे इति । व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहित देशान्तरस् पत्रे । दुर्लेख्ये दुष्टानि संदिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तत् दुर्लेख्यं तस्मिन्दुर्लेख्ये | नष्टे कालवशेनोन्मृष्टे मत्रीदौर्बल्यादिना मृदितलिप्यक्षरे । हृते तस्करादिभिर्भिन्ने विदलिते । दग्धे प्रज्वलिते | छिन्ने द्विधाभूते सति भवति । एत चार्थिप्रत्यार्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाय दुर्गाध्वापेक्षया कालो दातव्यः । दुर्गदेशावस्थिते न वा पत्रे साक्षिभिरेव व्यवहार निर्णयः कार्यः । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य: । 'अलेख्यसाक्षिके दैवी व्यव हारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं व्यव- स्थापत्रम् | राजकीय मपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेष: 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिन्हितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्येषु साक्षिमत्' इति ॥

  • मिता.

(३) छिन्ने शीर्णे | स्मृच.६० (४) तथाशब्देन लिएपदघटितस्य चकारेण चौर- हृतस्य समुच्चयः । एवकारेण देशान्तरस्थत्वाद्यभावे लेख्यान्तरकरणव्यवच्छेदः । यदि तु परः पापिष्ठहारिणा पूर्वलेख्यं न मन्यते तदा साक्ष्यादिना पूर्वपत्रं प्रमाप्य पत्रान्तरं करणीयमिति | Xवीमि. (५) शासनादौ तथाभूते राजादिद्वाराऽन्यस्करणीय मित्याह — देशान्तरस्थे इति । यद्यपि दग्धमपि नष्टमेव तथापि कालमात्रकृता शीर्णता नष्टपदेनात्र विवक्षिता । Xव्यप्र. १४७ लेख्यपरीक्षा 'संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः ।

  • सवि. मितागतं स्मृचगतं च । व्यउ., विता. मितागतम् ।

x शेषं मितागतम् । (१) यास्मृ. २१९२; अपु. २५५/२५ (संदिग्धार्थविशु-