लेख्यम् तस्य लेख्यं साक्षिरहितमपि प्रमाणमन्यथा तु साक्षिणा निर्णयः । लेख्यं तु तत्र साक्षिणां स्मरण एवोपयुज्यत इति ।
- वीमि.
(१) साक्ष्यनन्तरं व्यक्तिप्रमाणकत्वाविशेषाल्लिखित इदं चावधेयम्- परस्याप्यतिप्रामाणिकत्वेनाऽवधारि मुच्यते - यः कश्चिदिति । यः कश्चित् ऋणाधिक्रयप्रतिग्रह- विक्रयादिरथों निष्णातः परिशुद्धस्वरूपसंख्यापरिमाण वृद्धयवध्यादिकः धनिकर्णिकादीनां स्वरुच्या परस्परमव- स्थिते तस्मिन्नव्यभिचारार्थ लेख्यं वोक्तलक्षणसाक्षियुक्तं भाविसंदेहापनोदनक्षमं कार्यम् । तस्य चायं क्रमः । धनिकपूर्वकं स्याद् ऋणिकापेक्षया च धनिकस्य पूर्वत्वं न कालाद्यपेक्षया । विव. २१८६ व्यप्र. १४३ (६) धनिकनामपूर्वकमित्यनेनोत्तमर्णनामोपरि लेख्य- मधमर्णनाम तदध इत्यर्थः । समामासतदर्घाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ।। ( १ ) ततश्चायं क्रम: -- - मुमेति । विश्व.२१८७ (२) भुक्तिसाक्षिणी निरूपितौ । सांप्रतं लेख्यं निरू- प्यते । तत्र लेख्यं द्विविध, शासनं जानपदं चेति । शासनं निरूपितम् । जानपद मभिधीयते । तच्च द्विविधं स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतममाक्षिकं, अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । तत्रान्यकृतमाह यः कश्चिदिति । धनि काधमर्णयोयोऽथ हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमियती प्रतिमा वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्व निर्णयार्थ लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वी यस्मिंस्तद्धनि कपूर्वकं धनिक नामलेखनपूर्वक मिति यावत् कार्य कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः । कर्जा तु यत्कृतं कार्य सिद्धयर्थं तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेख्यकम्' || इति स्मरणात् । Xमिता. व्यक.६२ -- (३) निष्णातः निरूपितः । मिता. टीका ‘ प्रमाणं लिखित भुक्तिः साक्षिणश्चेति मानुपप्रमाणानां मध्ये निर्देशक्रमेण लेखस्य पूर्वभावित्वेऽपि साक्षिलिखितयोरथंसंबन्धवशा सौर्वापर्य असिद्धवत् कृत्वा प्रसङ्गात् प्रथमत एवं मध्यनिर्दिष्टाऽपि भुक्तिः प्रतिपादिता । ततश्च साचिस्व रूपे त्रिज्ञाते ' लेख्यं तु साक्षिमत् कार्यम्' इति साक्षियुक्त लेख्यविधानं सुबोधमिति साक्षिप्रकरणानन्तरभावित्वं लेख्य प्रकरणस्योचितमिति सङ्गतिं दर्शयति - भुक्ति साक्षिणौ निरूपिताविति । सुत्रो. (५) आद्यतुशब्देन बलोपधिकृतत्वव्यवच्छेदः । द्वितीयतुशब्देनाऽन्यकृते लेख्येऽसाक्षिकत्वव्यवच्छेदः ।
- अप.,
विता. मितागतम् । ३५१ (२) अपि च, समा संवत्सरः । मासश्चैत्रादिः । तदर्धे पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकाधमर्णयोः । जातिर्ब्राह्मणादिः । स्वगोत्रं वासिष्ठादिगोत्रम् । एतः समादिभिचिह्नितम् । तथा सब्रह्मचारिकं बहूवृचादिशाखाप्रयुक्तं गुणनाम, 'बहू वृचः कठौं इति । आत्मीय पितृनाम धनिकार्णिक पितृ- नाम | आदिशब्दात् द्रव्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्च चिह्नित लेख्यं कार्यमिति गतेन संबन्धः | Xमिता. (३) कटादिना समानमभिन्नं ब्रह्म वेदशाखां चरत्य- धीत इत्येवंशील : सब्रहाचारी, तस्य भावः सब्रह्मचा रिकम् । नामजातिसगोत्रब्रह्मचारित्वादीनि अत्र धनिका- दीनामेव । +अप. (४) एतच्च ऋणपत्रादिविपयं, अन्यत्राऽसंभवात् । व्यप्र. १४३ (५) ब्रह्मवादिपदेन ब्रह्मवादिशाखा लभ्यते तद्यु- कम । अत्र समामासादिलिखनं आधिप्रतिग्रहादि व्यवहारे उपयुज्यते । 'आधौ प्रतिग्रह की पूर्वा तु बलवत्तरां इति वचनात । गोत्रादिकं च उत्तमा-
- वाक्यार्थी मितावत् X स्मृच, वामि मितागतम् ।
+ शेपं मितागतम् | (१) यास्मृ. २१८५; अपु. २५५११७: विश्व. २१८७ हर्नाम (हाबास) स्व (स) मादि (म्ना न); मिता; अप. स्व (स); व्यक.६२; स्मृच.५८; स्मृसा. ९५ हर्ना (होना) स्व (स) पू.; स्मृचि. ४३ पृ.; नृप्र. ११ समा (वर्ष); मच.८ | १६४; व्यसौ. ५९; वीमि. अपवत्; व्यप्र. १४३; व्यउ. ४३ चारि (वादि); व्यम. १२ अपवत् ; विता. १२५ (=); राकौ. ४०५; प्रका. ३७; समु. ४१.