पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् | व्यवहारकाण्डम् (१) किं पुनर्वक्ष्यमाणलेख्यलक्षणवत् कार्यम् ? नेत्युच्यते, कि तर्हि ? पटे वा ताम्रपट्टे वेति । पटवचनं भूर्जनिवृत्यर्थम् । परिशब्दात् प्रजादूतकस्वहस्तमुद्रास्क न्धावारसभावासनामदेशादि चिह्नितम् | आदावेवाभि लेखनीयाः पूर्वपुरुपास्त्रयः | वंश्यत्ववचनाच स्त्रियोऽपि । अनन्तरमात्मानम् । ततः प्रतिग्रहपरीमाणम् । अस्मिन् देशेऽमुकनामेयान् ग्राम इत्यादि । ततो दानाच्छेदमुप वर्ण्य, एतद्दानफलं, एतदाच्छेदनफलम् । 'पष्टिं वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ इत्यादि । लेखकनामाङ्कितं स्वहस्तसंयुक्तमागामिक्षुद्रनृपत्यशोचनं स्थिरं भुमेरिछद्र न्यासेनाचन्द्रात् स्थितिसंस्थानं कारयेत् । सर्वथा यथा आगामिनोऽप्यस्मादेव शासनान्न विकुर्युः, तथा कार्यमिति । विश्व.१।३१′५-३१६ (२) कार्पासिके पटे ताम्रपडे फलके वा आत्मनो वंश्यान् प्रपितामह पितामहपितॄन् । बहुवचनस्यार्थवत्वाय वंशवीर्यश्रुतादिगुगोपवर्णनपूर्वक मभिलेख्यात्मानं चश ब्दात् प्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृह्यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयते इति दानं क्षेत्रादि तस्य छेदः छिद्यते अनेनेति छेदः नद्यावाटौ निवर्तनं तत्परि माणं च तस्योपवर्णनं, अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुक ग्रामस्यैतावन्निवर्तन मित्यादि निवर्तन- परिमाणं च लेख्यम् । एवमावाटस्य नदीनगरवर्मादेः संचारित्वेन भूमेर्न्यूनाधिक भावसंभवात्तन्निवृत्यर्थे, स्वह- स्तेन स्वहस्तलिखितेन ' मतं मे अमुकनाम्नः अमुक- स्मृचि. ४३; नृप्र. ११ उत्त; सवि. २७; व्यसौ. ६०; वीमि.; व्यप्र. १४४; व्यउ.४४; व्यम. १३; विता. ११९ लेख्या (ख्याया); प्रका. ३५ उत्त.; समु. ३९. (१) यास्मृ. ११३२०; विश्व. १।३१६ दान (दाना); मिता.; अप. १।३१८-३१९ ; व्यक. ६३; स्मृच. ५५-५६; पमा १२२ पू.; स्मृचि. ४३ परीमाणं ( प्रमाणं च); नृप्र. ११ पू.; सवि. २७; व्यसौ. ६० उत्त.; वीमि.; व्यप्र. १४४; व्यउ.४४ पू.; व्यम. १३; विता. ११९; प्रका. ३५-३६; समु. ३९. पुत्रस्य यदत्रोपरि लेखितम्' इत्यनेन संपन्नं युक्तं, कालेन च विविधेन - शकनृपातीतरूपेण संवत्सररूपेण च कालेन, चन्द्रसूर्योपरागादिना संपन्नं, स्वमुद्रया गरुड- वराहादिरूपयोपरि बहिचिह्नितं अङ्कितं स्थिरं दृढं शासनं शिष्यन्ते भविष्यन्तो नृपतयः अनेन दानाच्छ्रे- योऽनुपालनमिति शासनं कारयेत् । महीपतिर्न भोग- पतिः । संधिविग्रहादिकारिणा न येन केनचित् । 'संधि- विग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समा- दिए: स लिखेद्राजशासनम् ॥ इति स्मरणात् । दान- मात्रेणैव दानफले सिद्धे शासनकारणं भोगाभिवृद्धया फलातिशयार्थम् । ।

  1. मिता.

। (३) प्रतिग्रहो भूमिर्निबन्धश्च । तस्य च्छेदोऽपहारः । स उपवर्ण्यते प्रत्यवायजनकतया येन शास्त्रेण तद्दानच्छे- दोपवर्णनं तच्च लेखयित्वा | शासनं शिष्यन्ते दानापहारा निवर्त्यन्ते भाविनो भूपतिप्रभृतयो येन तच्छासनं कारयेत् । न हि तेन विना प्रतिग्रहीता तद्वंश्यो वा भूमिनिबन्धौ शक्नुयादुपभोक्तम् । Xअप.१।३१७-३१९ (४) उद्धृतमहीमण्डलस्य श्रीपतेः वराहवपुषो वर- दानप्रतिपादकमाशीर्वाद मादावाचारप्राप्तम भिलेख्यान- न्तरमात्मनो वंश्यान् लेखयेत् | Xस्मृच.५५ (५) आत्मानं चेति चकारेण प्रतिग्रहीतुसमुच्चयः । स्थिरं अप्रामाण्यशङ्कानास्कन्दनीयम् । +वीमि. (६) तत्परीमाणम् । उपसर्गस्प दीघों बाहुलकः । इदं च साधुशब्दैरेव लेखनीयं न लौकिकवत्तदनियमः Xव्यप्र. १४५ बाल. (७) मिला. टीका -- आघाटो मर्यादा । ऋगपत्र दिलेख विधिः येः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्य तस्मिन्धनिकपूर्वकम् ॥

  • व्यम. मितागतम् | X शेषं मितागतम् | +शेपं अपगतम् ।

(१) यास्मृ. २१८४; अपु. २५५/१६ निष्णा (sभिम); विश्व. २१८६ ख्यं तु (ख्यं वा); मिता; अर.; व्यक.६२; स्मृच. ५८; स्मृता. ९५; स्मृावे. ४३; नृप्र. ११; मच. ८।१६४ निष्णा (निर्णी); उपौ. ५९; वी.; व्यप्र. १४३; व्यउ. ४३; उयम. १२; विता. १२४ रुच्या तु (रूप्यात्तु); ५. ४०५ र्थो (र्थ); प्रका. ३७; समु. ४१.