पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३४६ दोषानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह – असाधयन्निति । उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा पराजितो भवति ।

  1. मिता.२।७३

Xस्मृच. ८४ (२) न तु दण्ड्या इत्यभिप्रायः । (३) साक्षिधर्मेति, साक्षित्वानहर्हा इत्यर्थः । बाल. २।७३ ' जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ (१) साकाङ्क्षश्चेत् क्रियान्तरमवलम्बेतेत्यभिप्रायः । +मिता. २।७३ (२) निराकाङ्क्षः प्रमाणान्तरं प्रतीति शेषः । यदा तु साकाङ्क्षादा मानुषाभावे दिव्येनापि जयावधारणं कार्यमित्यभिप्रायः । यदा तु निर्दोत्रिणः साक्षिणो भवेयु- स्तदा तैरेव जयावधारणं कार्यन् । स्मृच.८४ (३) विनयं दण्डम् । स वादी । मदनरत्ने तु सचि नयं विनयः शिक्षा तत्सहितं यथा तथा दाप्यो विवाद- विषयीभूतघनमिति शेप इति व्याख्यातम् । तत् जित इत्यनेनैव साधितघनदानस्यार्थसिद्ध वेन निरर्थकाध्या- हारदोपापत्तेः क्लिष्टत्वाच्चोपेश्यम् । व्यप्र. ९२२ अर्थी यत्र न विद्येत तत्र साक्षी मृतान्तरः । प्रत्यर्थी वा मृतो यत्र तत्राप्येवं प्रकल्पयेत् । अयमर्थः - अर्थिना वा प्रत्यर्थिना वा साक्षिगो 'यूय- मत्रार्थे साक्षिणः' इति योऽर्थः श्रावयितव्यो भवेत् । तस्मिन् अर्थिनि प्रत्यार्थनि वा असति मृते वा साक्षी मृतान्तर इति । सवि. १४० ज्ञात्वा कार्य देशकालकुशलाः कूटकारकाः । कुर्वन्ति सदृशं लेख्यं नैते स्युः साक्षिणो यथा ||

  • अप. मितागतम् ।

x शेषं मितागतम् । सवि स्मृचवत् + विता. मितावत् । (१) मिता. २।७३; अप. २१७२; व्यक. ५० व्यव (ध्वव); स्मृच.८४ त्ये व्य (भ्येष्व); पमा १०६ कात्यायन: ; व्यसौ. ४८ दाप्य: (दण्डय:); व्य. १२३ स्मृचवत् ; व्यउ. ५० क्षि (क्षी) स्मृत्यन्तरम् ; ब्यम. १७ जित: स (तथैव); विता.१८० मारवः; बाल. २।७२ व्यकवत् ; प्रका.५४ स्मृचवत् समु. ३३ सत्ये (ध्वेव). (२) स्मृच. ८१; सवि. १४०; प्रका. ५३; समु. ३२. (३) स्मृच.७६; सवि. १३८ काल (काली) नारदः; प्रका. ४९; समु. २८. एवमुक्तविधा न जातु कूटतां प्रतिपद्यन्ते इत्याह स एव ज्ञात्वेति । स्मृच.७६ साक्षिप्रश्नविधिः । सत्यप्रशंसा । अनृतनिन्दा | साक्षिणा धर्मसंस्थेन सत्यमेव वदेत्ततः ॥ साक्षिभावे नियुक्तानां देवता वियति स्थिताः । पितरश्चावलम्बन्ते वितथाख्यानशङ्कया || सैत्यवाक्यैर्ध्रजन्त्यूर्ध्वमधो यान्त्यन्यथा तु ते । तस्मात्सत्यं प्रवक्तव्यं भवद्भिः सभ्यसंनिधौ ॥ बैध्यन्ते वारुणैः पाशैः साक्षिणोऽनृतवादिनः । पष्टिवर्षसहस्राणि तिष्ठन्ति नरके ध्रुवम् ॥

  • तेषां वर्षशते पूर्णे पाश एक: प्रमुच्यते ।

कालेऽतीते मुक्तपाशस्तिर्यग्योनिषु जायते ॥ मानवो जायते पश्चात् संपरित्यक्तबान्धवः । पङ्ग्वन्धबधिरो मूकः कुष्ठी नमः पिपासितः ।। बुंभुक्षितः शत्रुगृहे भिक्षते भार्यया सह । ज्ञात्वा त्वनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान || श्रेयस्कर मिहामुत्र सत्यं साक्ष्ये वदेत्ततः ॥ एवं संबोधन मे तैरेव वचनैः कार्य न पुरुषान्तररचितैः । स्मृच.८७ कीदृशं साक्ष्यं साध्यपयाप्तम् का लाकृतिवयोद्रव्यदेशजातिप्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् || (१) पमा. १०९. (२) स्मृच.८६; पमा. १०९ उत्त.; प्रका. ५५; समु. ३४. (३) स्मृच.८६; पमा १०९ क्यैः (क्ये) तु (च); प्रका. ५५; समु. ३४. (४) स्मृच.८७ षष्टि (पष्ठि); पमा ११० षष्टि (षष्ठिः); नृप्र. १०; सवि. १५८ बध्यन्ते (पीड्यन्ते) तिष्ठन्ति नरके (नरके वसतिः) ; प्रका. ५६ स्मृचवत्; समु. ३४ स्मृचवत्. (५) स्मृच.८७; पमा ११०; नृप्र. १० पु. ; सवि. १५; प्रका. ५६; समु. ३४.३५. (६) स्मृच.८७; पमा.११० मानवो ( स नरो) पुराणम्; प्रका. ५७; समु.३५. (७) स्मृच.८७ सत्ये च ( सत्येन); पमा. ११०-१११ पुराणम् ; सवि. १५९ वसिष्ठः ; प्रका. ५७ स्मृचवत्; समु. ३५. (८) स्मृच. ८७; पमा १११ पुराणम्) सवि. १५.९ मुत्र (मित्रे) क्ष्ये (क्षी) त्तत: (दतः) वसिष्ठः; प्रक्रा. ५७; समु.३६ सतः (दत :). (९) व्यक. ६० ; स्मृच. ९१; स्मुसा. १२१; व्यति. ५६; व्यसौ. ५७; वीमि. २७९; प्रका. ५९; समु.३७.