३४४ व्यवहारकाण्डम् व्यासः साक्षिणः कीदृशा भवन्ति धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः । • श्रौतस्मार्तक्रियायुक्ता विगतद्वेषमत्सराः ॥
- श्रोत्रिया न पराधीनाः सूरयश्चाप्रवासिनः ।
युवानः साक्षिणः कार्या ऋणादिषु विजानता || श्रोत्रियाः श्रुतिपाठकाः । स्मृच. ७६ साहसदो असाक्षित्वापवादः सुँचिक्रियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥ (१) अनुभूतवाक् सत्यत्वेन अनुभूता वाक् यस्य सः । व्यक.४३ (२) अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति । भव- देवभट्टोऽप्येवम् । व्यत. २१३ (३) आप्तत्वेन राजादिभिरवधारितोऽप्येकः साक्षी इत्याह व्यास: – शुचीति । व्यप्र. ११२ (४) अनुमत्यभावेऽपि राज्ञा शिष्टो ज्ञात एकोपी- त्याह व्यासः - शुचीति । विता. १६५ साक्षिप्रकाराः साक्षिणोऽपि च यः साक्ष्यमुपर्युपरि भाषते । श्रवणवणाद्वाऽपि स साक्ष्युत्तरसंज्ञितः ।। रांज्ञा धर्मासनस्थेन यच्छ्रतं तत्वमिच्छता । (१) स्मृच. ७६, १३६; पमा. ९४; नृप्र. १० पू.; व्यप्र. १११ ; व्यम. १६; बाल. २१६९; प्रका.४९; समु. २७. (२) शुनी. ४/६८१-६८२ श्रोत्रिया (गृहिणो) ऋ... ता (स्त्रियः स्त्रीषु च कीर्तिताः); स्मृच. ७६,१३६; पमा ९४; नृप्र. १०; व्यप्र. १११; व्यम. १६; बाल. २०६९; प्रका. ४९; समु. २७-२८. (३) व्यमा. ३१९ ; व्यक.४३; गौमि. १३।२ उत्त.; स्मृच.७६; ममु.८।७७; पमा. ९६ यत्रा ( योऽत्रा); दीक. | ३८ सेषु (सेतु); व्यचि. ३९; स्मृचि. ४५ क्रमेण नारद:; व्यत. २१३ यश्च (याश्च) साक्षी यत्रा (योऽन्यत्राप्य); मच.८।७७ साहसे (सदृशे ); चन्द्र. १३४ यश्च (योsथ); व्यसौ. ४१; व्यप्र. ११२ यत्रानु (यस्त्वनु ); व्यम. १६ व्यप्रवत् ; विता. १६५ व्यप्रवत् ; सेतु. ११९-१२०; प्रका. ४९; समु. २८.
- (४) व्यक.४२ णोऽपि च ( णामपि); व्यसौ. ४० पाच्छा
(णाश्र). (५) व्यमा. ३२०:३२२ नान्यः ( न्याय्य:) मुक्त्वा 1 नान्यः साक्षी भवेत्तत्र मुक्त्वा राजानमीश्वरम् ॥ दिव्यापेक्षया साक्षिण : वरीयस्त्वम् मणिमन्त्रौषधिबलात्प्रदत्तं चाविधानतः । विसंवदेहित्र्यमपि न तु साक्षी गुणान्वितः || ं दिव्यमौपधिभिर्मन्त्रैः प्रायेण व्यभिचार्यते । न स्वल्पदोषदुष्टानां व्यभिचारोऽस्ति साक्षिणाम् ॥ साक्षिपरीक्षा साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना । पत्रेऽभिलेख्य तान्सर्वान् वाच्या प्रत्युत्तरं तु ते || (१) प्रत्युत्तरं उत्तरं प्रति ते दोषा वक्तव्याः । व्यक. ५० (२) पत्रे लिखितान् साक्षिदोषान् प्रतिलक्षीकृत्य तद्विषयं परिहारं ते साक्षिणः सभ्यैर्वाचनीया इत्यर्थः । व्यम. १७ (३) मिता. टीका --‘पत्र तान् सर्वान भिलिख्य उत्तर- मुत्तरं ते दोषा वाच्या' इति कल्पतरुः । *वाल.२।७२ प्रतिपत्तौ न साक्षित्वमर्हन्ति तु कदाचन । अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना || (१) अन्यथा असंप्रतिपत्तौ । व्यक.५० (२) प्रतिपत्तिः दोपाङ्गीकारः । क्रियया साक्षिव्य- तिरिक्तयेति शेषः । स्मृच.८३
अत्रोध्दतं कल्पतरुवाक्यं अस्मत्पुस्तके न समुपलभ्येत । (त्यक्त्वा); व्यनि.; प्रका. ५२ मिच्छता (दर्शिना); समु. ३० प्रकावत्. (१) व्यमा. ३१५ चावि (चाभि); व्यक.४४ न तु(नैव); स्मृच. ९४; यसौ. ४२ (); प्रका. ६१ कात्यायनः; समु. २८; विव्य. १० चा (वा) (२) स्मृच. ७८; प्रका. ५०; समु. २९.(३) अप. २।७२ लेख्य (लिखि) तु (च); व्यक. ५० पत्रे- ऽभिलेख्य (यत्रातिलिखि) ते (ये); स्मृच. ८३; पमा. १०६ भिलेख्य (विलिख्य ) तु ते (ततः ) कात्यायन: ; व्यसौ. ३२ लेख्य (लिखि); व्यप्र. १२२ प्रयो (प्रव) लेख्य (लिखि); ध्यम. १७ व्यसौवत; बाल. २|७२ प्रयो ( प्रव) लेख्य (लिख्य); प्रका. ५४ मिले (विलि) उत्त.; समु. ३२. (४) अप.२।७२; व्यक.५० वादिना (पादिता :); स्मृच. ८३; पमा.१०६ न (तु) तु (न) कात्यायनः; व्यसौ.४८ न (तु) तु (न) कदा (कथं); व्यम. १७; बाल . २।७२; प्रका. ५४; समु. ३२.