पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी साक्षिभिर्भाषितं वाक्यं सह सभ्यैः परीक्षयेत् ।। (१) यथा चक्षुरादिकरणदोषानथ्यवसायेऽप्यर्थविसं- बादात्तज्जनितस्य ज्ञानस्याऽप्रामाण्येन करणदोषकल्पना | तथेहापि साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच्च 'माक्षिभिर्भापितं वाक्यं सह सभ्यैः परीक्षयेत्' इति । मिता. २७८० (२) नृपतिरित्युपलक्षणम् । व्यमा ३३१ प्रायः- B (३) मिता. टीका - यथा चक्षुरादीति । अयमभि | अर्थविसंवादादर्थस्य शुक्तिरजतादेरन्यथात्वा- त्तजनितस्येदं रजतमिति ज्ञानस्याप्रामाण्येन चक्षुरादिगत दोषकल्पना । यथेति दान्तिके योजयति तथेहापीति । न केवलं युक्तितः प्रमाणान्तरगवेषणमुचितं, अपि तु वचनबलादपीत्याह- साक्षिपरीक्षातिरेकेणेति । अयमभिप्रायः - न केवलं साक्षिवचनमात्रेण निर्णयः, अपि तु तद्वाक्यपरीक्षया च । एवं च साक्षिवचनपरी क्षायां क्रियमाणायां यदि तद्वचनमवाधितं स्यात्तदा तस्य प्रामाण्यमितरथा साक्षिवचनस्य बाधितत्वे साक्षिष्वपि दोषकल्पना स्यादिति । एतच्च परीक्षावचन विधिवला- गम्यते । सुचो. २१८० (४) साक्षिदोपानुद्भावनेऽपि ससभ्येन सभापति नैवैते परीश्योपादेयाः । तथा च कात्यायन:- • उपस्थिता- निति ।

  • व्यप्र. १२३

यंदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् ।

  • व्यप्र. (१३१) मितागतम् ।

भाषितं (व्याहृतं); व्यक.५६; व्यसौ. ५३; व्यप्र. १२३ पू., १३१ उत्त.; व्यउ. ५० भाषि (भावि) उत्त; विता. १८२ पू.; बाल. २१८० पू., नारदः; प्रका. ५४ उत्तरार्धे (अथैते साक्षिणः सर्वे साधवःऽईन्ति साक्षिताम् ) : ५९ उत्त, याज्ञवल्क्यः; समु. ३३ प्रका. ५४ वत् ; विग्य. १५ ह सभ्यै: (हामात्यै:). ३३९ शुद्धाद्वाक्याच यः शुद्धः स शुद्रोऽर्थोऽन्यथा न तु || (१) क्रिया साक्षिलक्षणा, 'नार्थसंवन्धिनो नाप्ता' इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् | वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन । 'सत्येन शुद्धयते वाक्यं' इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच यः शुद्धोऽवगतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । करणदोपबाधक- प्रत्ययाभावे सति अवितथ एवार्थ इत्यर्थः । Xमिना.२८० (२) क्रिया लिखितादि प्रमागम् | शुद्धिषगगा- दर्शनम् । अप.२/७५ (३) मिता. टीका - करणदोषबाधकप्रत्ययाभाव इति । 'यदा शुद्धा किया न्यायात्' इत्यनेनां- शेन साक्षिलक्षणक्रियारूपकरणगतदोषाभावोऽभिधीयते । 'शुद्धाच वाक्याद्यः शुद्धः' इत्यनेन तु बाधकप्रत्यया- भावोऽभिधीयते । एवं च करणदोपबाधकप्रत्यय योरभावे सत्यर्थाऽवितथः सत्य इति तात्यर्थः । सुनो. २१८० यंत्र वै भावितं कार्य साक्षिभिर्वादिना भवेत् । प्रतिवादी यदा तत्र भावयेत्कार्यमन्यथा । बहुभिस्तत्कुलीनैर्वा कूटाः स्युः पूर्वसाक्षिणः+॥ (१) कूटाः अनादेयनिगदाः । व्यचि.६१ (२) तत्कार्यमिति संबन्धः । बहुभिरिति पूर्वसाक्ष्य- पेक्षया बहुत्वम् | कुलीनैरित्यनेन तदपेक्षया गुणवत्तरत्वं विवक्षितम् । अपरार्कमदनरत्नकाराभ्यामेतत्संवादादेव योगीश्वरवचोऽपि ‘उक्तेऽपि' इत्यादिकमेतदर्थकतयैव व्यप्र. १३४ व्याख्यातम् । (१) मिता. २१८० (=) (शुद्धाच्च वाक्याथः शुद्धः स शुद्धोऽर्थ इति स्थितिः); व्यमा ३३६ न्यायात् ( न स्यात् ) (शुद्धतायान्तु वाक्यार्थ: शुद्धः शुद्धोऽन्यथा न तु); अप. २१७५ द्धा क्रि (द्धक्रि); ब्यक.५६ द्वाक्याच्च (र्थवाक्यात् ) ; व्यसौ. ५३ न्यायात् (पाल्या) द्वाक्याच्च (च्च वाक्यात् ); व्यप्र. १३१ मितावत् ; प्रका. ५९ द्धा कि ( कि) शेषं मितावत् ; समु. ३२ न्यायात् (न्याय्या) शेषं मितावत्, स्मृत्यन्तरम्; विष्य. १५ (शुद्धातु वाक्याच्छुध्दार्थः स शुध्दार्थो न चान्यथा) उत्त. X व्यप्र. मितागतम् । + व्यमा, अप, स्मृच व्याख्यानं 'उक्तेऽपि साक्षिभिः ' इति याज्ञवल्क्यश्लोके (पृ. २९० २९१ ) द्रष्टव्यम् । म (१) व्यमा. ३३५ वादिना भवेत् ( पूर्ववादिनाम्) यदा (तदा) बहुभिस्तत् (अनुक्तास्तु); अप. २१८० त्र वै (त्रैव) ना (नो भ) यदा (तदा); व्यक. ६०; स्मृच. ५४ स्तत् (श्च) कूटा: (पूर्वा:) पूर्व (कूट); व्यचि. ६१ यत्र ( यदा) ना भ (नां भ) भिस्तत् (भिर्वा) पूर्व (सर्व); चन्द्र. १२७ द्वितीयाधं विना; व्यसाँ. ५७ यदा (तदा) स्तत् (स्तु); व्यप्र. १३४ भाव (वाद); विना. १८१ ना भ (नां भ) कुलीनैर्वा (कुटा नैव); प्रका. ६१ स्मृचवत्; समु.३८ स्मृचवत्