पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३३८ स्मृच.८९ अन्यत्र स्थावरस्योपरीत्यर्थः । अर्थिप्रत्यर्थिसान्निध्ये साध्यार्थस्य च संनिधौ । प्रत्यक्षं चोदयेत्साक्ष्यं न परोक्षं कथञ्जन || व्यचि.४७ विता. १७४ (१) वादिप्रतिवादिवस्तूनां संनिधौ साक्षिवादनं कार्यमिति मुख्यः कल्पः । (२) साध्यं गवाश्वादि । अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् । चतुष्पादेष्वयं धर्मो द्विपदस्थावरेषु च ॥ (१) तयोः पूर्वोक्तस्थानयोते स्थाने विनाऽपि क्वचि- दूधरूपविवादे साक्ष्यं वक्तव्यमित्यर्थः । +स्मृच.८९ (२) वस्तुमात्रसंनिधौ वादिसंनिधापनाशक्यत्वे सति कार्यमित्यवरः कल्पः । अयं च नियमश्चतुष्पादादावेव । व्यचि.४७ (३) तयोः वादिनोर्विनापीति संबन्धमात्रविवक्षया पठी | अपिशब्दात् कैमुतिकन्यायेन तदुभयसंनिधाने न तात्पर्यम् । किन्तु साध्यार्थसान्निध्यावश्यकतायाम् । यद्वोभयासंनिधिः प्रत्यर्थ्यसान्निध्यानुमत्यर्थः । तेन कथं चित् प्रत्यर्थ्यसनिधानेऽपि साक्षिप्रश्ने न दोषः । वत्रि- दित्यस्यैव विवरणं चतुष्पादेवित्यादि । व्यप्र. १२५ तौल्यगणि ममेयानामभावेऽपि हि वादयेत् । + पमा स्मृचवत् । १५७ अपवत् ; चन्द्र. १४५ व्यचिवत्; व्यसौ ५२ व्यनि- बत् ; वीमि. २१७८ व्यचिवत् ; प्रका. ५८; समु. ३६. (१) शुनी. ४।६८७-६८८ धंस्य (र्थेऽपि) चोद (वाद); उपमा. ३२९ यत् (यं) कथं (कदा ) उत्त, मनुः; व्यक. ५१; व्यचि.४७ चोद (वाद) न परोक्षं (परोक्षं न); स्मृचि. ४७ व्यचित्रत् ; चन्द्र. १४३ १४४ व्यचिवत्; व्यसौ. ४९ चोद (देश) न परोक्षं (परोक्षं न); व्यप्र. १२५ चोद (वाद) क्षंक (क्षे क); व्यम. १८; त्रिता. १७४; समु. ३६. (२) व्यमा ३२९ पांदेष्वयं (पदेष्वेवं) पद ( पदे) मनुः; व्यक. ५१ ष्पा (प) द्विप (द्विपा); स्मृच.८९ पा (प); पमा. ११३; व्यचि.४७ षु च ('वपि); चन्द्र. १४४ अयं धर्मो (धर्मोऽयं); व्यसौ. ४९ वक्त (कर्त) अयं धर्मा (धर्माऽयं); व्यप्र. १२५ द्विप (द्विपा) शेषं व्यसौवत् ; व्यम. १८ व्यसौवत् ; प्रका. ५८ स्मृचवत् ; समु.३६ स्मृचवत्. (३) ब्यमा.३२९(तैन्ये गणेयमेथेनमभावेऽपि हि वाचयेत् ) पू., मनुः; व्यक. ५१; व्यचि.४७; चन्द्र. १४४ गणिम (गणेय) पू.; व्यसौ.४९ हि (वि) ; व्यप्र. १२५ ल्य (ल्यं) ततो क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा || (१) तौल्यं सुवर्णादि, गणिमं कपर्दकादि, मेयं व्रीह्यादि । क्रियाकारेषु व्यवहारेषु । व्यक. ५१ (२) हिरण्यादिषु तु वस्त्वसंनिधावपि साक्षिवाद-

  • व्यचि.४७

नम् । (३) अभावेऽपि साध्यार्थसान्निध्याभावेऽपि । व्यप्र. १२५ वंधे चेप्राणिनां साक्ष्यं वादयेच्छवसंनिधौ तद्भावे तु चिन्हस्य नान्यथैव प्रवादयेत् || (१) तदभावे शवाभावे । चिन्हस्य अस्थिकेशादेः मंनिधावित्यर्थः । व्यक.५५ (२) चिह्नस्य वधचिह्नस्याभियोज्यसंबन्धिनोऽभावे तत्साक्ष्यं वादयेत् । अन्यथा तत्सद्भावे नैव वादयेत्सा- श्यम् । वधचिह्नेनैव निर्णयसंभवादित्युत्तरार्थाऽनु वाद्यः । विधेयस्तु पूर्वार्धार्थः । स तु स्पष्ट एव । Xव्यप्र. १२५ अर्थिप्रत्यर्थिसान्निध्यादनुभूतं तु यद्भवेत् । तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न बृहस्पतिः ॥ (१) अनुभूतं चक्षुषा श्रोत्रेण वा । व्यमा. ३१७ (२) अर्थिप्रत्यर्थिसान्निध्यादनुभूतमिति मुख्यः कल्पः । तदसान्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरेरनुमत- व्यप्र. १०६ त्वात् । साक्ष्युक्तिपरीक्षा उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् ।

  • शेषं व्यकवत् ।

X व्यम. व्यप्रगतम् । ( त्वतो ); व्यम. १८ ततो (त्वतो); त्रिता. १७४ णिम (णित) पू.; प्रका. ५८ तौल्य (तौल) कारेषु (कालेपु); समु. ३६ तौल्य (तौल) ततो (त्वतो). (१) व्यक. ५५ चेत् (च) प्रवाद (च दाप); स्मृच.८९ च्छव (च्छिव); पमा. ११३; व्यचि.५३ नेत् (च); सवि. १५७; चन्द्र. १४५ चेत् (तु) थैव (था तु); व्यसो.५२: त्रीमि. २१७८ चेत् (च); व्यप्र. १२५ चेत् (च) च्छव (च्छित्र); व्यम. १८ च्छव (च्छिव) थैत्र (थैतत्); विता. १७४ स्मृत वत् ; प्रका. ५८ स्मृचवत्; समु. ३६ च्छव (च्छिव) चिन्हस्थ (विप्रस्य). (२) शुनी.४।६ ७८ यद्भवेत् (प्राग् यथा) पू.; व्यमा. ३१७ न (ssह); व्यक. ४१; व्यसौ. ३९; प्र. १०६, (३) मिता. २१८० उत्त; ब्यमा. ३३१ सह सभ्यैः (सभ्यैः सह) : ३३६ भाषितं (म्याहृतं); अप. २।७५ क्षेत (क्याथ)