पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् विता. १७९ | (५) काले वादात्पूर्वम् । 'लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् || उक्तेऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान | न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥ प्रत्यर्थिनाऽर्थिना वाऽपि साक्षिदूषणसाधने । प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥ प्रमाणदोषविवादनिर्णयः पूर्वव्यवहारमध्य एव कर्तव्य इत्यभिप्रायः । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्य अनुचितत्वादयुक्तमिति वाच्यं, प्रमाणदोषविवाद निर्ण- यस्य पूर्वव्यवहारशेषत्वेन तत्रैव कार्यत्वात् । पृथक् फलाभावेन व्यवहारान्तरत्वाभावाच्चेति । *सवि. १४५ राजा क्रियां समीक्ष्यैव यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षणः ।। (१) सुव्यक्तवर्णवाक्यादिको लेख्याचारः । स्मृच.६१ साक्ष्याचारेण, साक्षिलक्षणजातेनेत्यर्थः । स्मृच.८४ (२) राजा साक्षिण आहूय साक्ष्याचारेण लिखितं विचारयेत् । यद्वा लेख्याचारेण लिखितं विचारयेत् । अस्मिन् व्याख्याने क्रियामिति लक्षणे द्वितीया । क्रिया- निर्णयार्थ लिखितं साक्षिणश्च विचारयेदित्यर्थः । क्रियां समादायेति पाठे ऋजुरेवान्वयः । सवि. ११९

  • व्यप्र. सविगतम् ।

(१) व्यक. ५० बृहस्पतिकात्यायनी; स्मृच. ८३; पमा. १०६; सवि. १४३ उक्तान् ( उक्तं); चन्द्र. १४३ पास्तु (पाश्च) णां चैव (दोपाश्च) वादकाले तु ( विवादकाले ) उक्तान् (वक्ता); व्यसौ.४८ उक्तान् (वक्ता); प्रका. ५३; समु. ३२. ५(२) व्यमा.३२७; अप. २।७२; व्यक. ५० न च (नैव); स्मृच. ८३; पमा. १०६ न च ( स च); दवि. ३४२; सवि. १४४; व्यसो.४९ च तत् (तत्र ) पूर्व (सर्व); व्यप्र. १२२; व्यम. १७; विता. १८०; प्रका. ५४; समु. ३२. (३) पमा.१०६ ना (नो); सवि. १४५ () ना (नो) उत्तरार्धे ( न तु साक्ष्यभियोगः स्याद्व्यवहारान्तरं तथा ); व्यप्र. १२२ गेन (गित्वात्). स्मृच. ६१,८४ (४) व्यक. ६५ समीक्ष्यैव (समाहृय); व्यकवत् ; पमा. १०७ यथा (यत्नात् ) : १२९ क्रियां (ज्ञया ) शेषं व्यकवत् ; सवि. ११९ व्यकवत् ; व्यप्र १४८ यां (याः) शेषं व्यकवत् ; प्रका.४० व्यकवत् ; समु. ४२ व्यकवत् साक्षिणः सद्यः प्रष्टव्याः नं कालहरणं कार्य राज्ञा साक्षिप्रभाषणे । महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ॥ (१) साक्षिणां निर्देशः । पृष्टानां वा अपृष्टानां वा साक्षिणां वचनं द्वयमपि साक्षिप्रभाषणं, न्यायस्यावि- शेषात् । उभयत्राऽपि विलम्बे कूटकरणेन धर्मविरोधापत्ते- रित्यर्थः । ब्यमा. ३०६ (२) तत् स्पष्टसाक्षिविषयमित्यवगन्तव्यम् । संदिग्ध- साक्ष्ये कालदानविधानात् ।

  1. स्मृच. ९२

साक्षिभ्यः कालो देयः संभ्यक्क्रियाऽपरिज्ञाने देयः कालस्तु साक्षिणाम् । संदिग्धं यत्र साक्ष्यं तु सद्यः स्पष्टं विवादयेत् || (१) सभ्यक्रियापरिज्ञाने सम्यक्कार्यशानार्थम् । व्यक.५९ (२) निगाद्याऽस्मरणे तत्स्मरणार्थ कालो देयः । व्यचि.५६ स्मरणे सद्य एव साक्षिणो निगाद्याः । साक्षिप्रश्नविधिः । सत्यप्रशंसाऽनृतनिन्दा च । आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ॥ " देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेहतं द्विजान् । उदङ्मुखान्प्राङ्मुखान् वा पूर्वाहे च शुचिः शुचीन् ।

  • सवि. स्मृचवत् |

(१) शुनी. ४/६६१ रा... णे ( राजा साधनदर्शने ) : ४।६८७ पू.; ब्यमा.३०६ हर (ग्रह) : ३२८; ब्यक. ५० कालाद्धर्म (कालो धर्में); स्मृच. ९२; व्यचि. ४६; स्मृचि. ४७ पू. ; सवि. १४८ (=) कालात (काले); चन्द्र. १४४ भवेत्का- लात् ( भवत्यस्मात् ); व्यसौ. ४९; वीमि. २१७; व्यप्र. १२६) व्यम. १८ महान् (महा); त्रिता. १७५ पू.; प्रका. ५५; समु. ३८; विव्य. १३. (२) अप. २१७७ तु (स्याद) स्पष्टं (पुष्टं); व्यकं. ५८. ५९ विवाद (विचार); स्मृच. ९२; व्यचि. ५५-५६ अपवत् सवि. १४८ देय: (शेयः) यत्र ( पत्र ) सधः स्पष्टं (स्पष्टं सद्यो); व्यसौ.५५-५६; प्रका.३४ सद्यः... स् (तत्र दिव्येन निर्णय:)

६ ०; समु.३८. (३) मिता.२|७३; व्यउ.४९.

(४) मिता. २/७३ च (वै); व्यप्र. १२५ च (वा); व्यउ.४९ च (वा); उयम. १८; विता. १६८ ऋतं (अथ ) । च (वै).