पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी उभय यस्य विश्वस्तं कार्य वाऽपि निवेदितम् । गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा ॥ (१) बृहस्पतिकात्यायनौ कार्यमध्यगतं व्याकुरुतः- उभाभ्यामिति । व्यमा. ३२० (२) उभाभ्यामर्थिप्रत्यर्थिभ्यां यस्य विश्वासः कृतः, म गूढचारी कार्यमध्यगतो विज्ञेय इत्यर्थः । व्यक.४२ 'लेखक: प्राड्विवाकञ्च सभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृताः ॥ (१) सर्व एवैते वादिनोरनुमतिमन्तरेणापि एकैकशः साक्षिणः । व्यमा. ३२० (२) मिता. टीका----अस्यार्थ:, राजनि तत्कार्य व्यव हारकार्य पश्यति सति एते लेखकादयोऽनुपूर्वश: 'पूर्वा- भावे परः पर' इति साक्षिणः न तु लेखकादीनामेव सभापतित्वे ते एव साक्षिणः । 'नृपे पश्यति' इत्यभि धानादिति लेखकादिभिः सह परिपठितस्य प्राड्विवाक स्योपादानं लेखकाग्रुपलक्षणार्थमित्यर्थः । Xसुबो. २।६८ अर्थप्रत्यर्थिनोर्वाक्यं यच्छुत भूभृता स्वयम् । स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥ निर्णीते व्यवहारे तु पुनर्ल्यायो यदा भवेत् । अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा ॥ अन्ये पुनरनिर्दिष्टाः साक्षिण: समुदाहृताः । X बाल. (२।६८) सुबोवत् । (१) व्यमा.३२० बृहस्पतिकात्यायनौ; व्यक. ४२ बृह- स्पतिकात्यायनौ; व्यसौ. ३० विश्वस्तं (विश्रंभात्) वापि (वा वि) बृहस्पतिकात्यायनौ. (२) मिता. २१६८; व्यमा ३२० तत् ( यत् ): ३२३; व्यक. ४२ कार्य (कार्ये); सुबो. २१६८; सवि. १४२ ( ) ; व्यसौ. ४०; व्यप्र० १०७ (=); व्यउ. ४७ व्यकवत् ; व्यम. १५ पू.; विता. १५८ णः समुदाहृताः ( णो यकृता:स्मृताः) नारदः; प्रका. ५२ बृहस्पतिः; समु. ३०. (३) व्यमा. ३२० श्रुतं भूभृता (ब्रूतं प्रभृतात्) (तत्र ० ) बृहस्पतिकात्यायनौ; व्यक. ४२ बृहस्पतिकात्यायनों; नृप्र. १०; व्यसौ. ४० बृहस्पतिकात्यायनौ; प्रका. ५२. (४) व्यक. ४२ बृहस्पतिकात्यायनौ. (५) डयमा ३२० ण: सभु ( णश्च उ) नारदकात्यायनौ; व्यक.४१ नारदकात्यायनौ; व्यत. २१९ मनुकात्यायनों; व्यसौ. ३९ नारदकात्यायनौ; विव्य. १२ समु (षड्ड). ३३१ २ ग्रामश्च प्राड्विवाकच राजा च व्यवहारिणाम् ॥ कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः । • कुल्या: कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ ऋक्थभागविवादे तु संदेहे समुपस्थिते । कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये || प्रख्यातकुलशीलाञ्च लोभमोहविवर्जिताः । आप्ताः शुद्धा विशिष्टा ये तेषां वाक्यमसंशयम् || ( १ ) तेषामिति बहुवचनं येकसंख्याकसाचिवाक्य- मेवं न निश्चायकमिति प्रतिपादनार्थम् । स्मृच.७६ (२) आप्ताः यथार्थवादिनः । विबुद्धाः विवाद- विषयीभूतार्थज्ञानवन्तः शास्त्रार्थज्ञानवन्तश्च । 'मतिबुद्धि- पूजार्थेभ्यश्च (व्यासू. ३२१८८ ) इति कर्तरि क्तः । 'आदिकर्मणि' इति मदनरत्ने । तेषां वाक्यमसंशयं यथा भवति तथा । व्यप्र. १११ अत्र सर्वत्र न्यूनाधिक विशेषणोपादानं न दोषाय । अनृतभाषण भी रुत्वसत्यवदनशीलत्वस्य च साक्षित्व प्रयोजकस्योपलक्षणार्थलात्तेषाम् । व्यप्र. ११२ विभाव्यो वादिना यादृक् सहशैरेव भावयेत् । नोत्कृष्टश्श्रावकृष्टस्तु साक्षिभिर्भावयेत्सदा ॥ वादिना विभाव्योऽङ्गीकारयितव्योऽर्थात्प्रतिवादी । तत्र विशेषमाह - यादृक् प्रतिवादी नत्सदृशेस्तजातीयै- रेव भावयेत् । वादिनेत्युपलक्षणम् । वाद्यपि प्रति- वादिना तज्जातीयैरेव विभाव्यः । व्यप्र. १११ लिगिनः श्रेणिपूगाश्च वणि वातास्तथाऽपरे । ये चान्ये वर्गास्तानब्रवीद्भृगुः ॥ समूहस्थाश्च ( १ ) व्यमा ३२० यः स्याद् (यश्च); व्यक. ४१ कुन्या: कुल (कुल्याकुल्य) नारदकात्यायनी; व्यत. २१९ ल्याः (ल्या) मनुकात्यायनों; व्यसो ३९ स्याद ( च अ) नारदकात्यायनौ; विव्य. १२ पूर्वार्ध (कार्यस्याभ्यन्तरा यस्तु आत्मना सहितस्तु यः) देषु (दे तु). (२) व्यमा. ३२२ वादे (भाग). (३) व्यक.४४; स्मृच.७६; व्यसं.४२ शुद्धा विशिष्टा (शिष्टा विबुद्धा); व्यप्र.१११ व्यसांवत् ; प्रका. ४९; समु. २८. (४) व्यक.४४ व्यो (व्य); व्यसा. ४२ व (पक्क); व्यप्र. १११. (५) अप. २।६९ भृगुः (गुरु:); व्यक.४५ त्राता (जाता); व्यसौ. ४३ वातास्तथापर (प्रीतास्तथैव च ) भृगुः (मुनि:); व्यप्र. १११; व्यम. १६ व्राता (जाता ) गां (गाँ); बाल . २१६ ९ व्थम- वत् ; प्रका.४९ ये (ते) वर्गा (वर्ग्या); समु.२८ र्गा (गां).