३३० व्यवहारकाण्डम् साक्षिणामनेकविधत्वे ग्राह्यान् विभजते बृहस्पतिः- साक्षिद्वैध इति । पमा. ११६ कात्यायनः साक्षिप्रकाराः । तलक्षणानि । साक्षिविशेषविषयाः । अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकाते ॥ अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु । न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् || यैस्तु कार्यप्रसिद्धयर्थं दृष्ट्वा कार्य पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ॥ (१) 'स्मारित: पत्रकादृते' इत्यस्य विवरणं तेनैव कृतम् । 'यस्तु' इति । यस्तु यदृच्छया आगतः साक्षी क्रियते स यदृच्छाभिशः । मिता. २२६८ (२) दृष्ट्वेति दर्शयित्वेत्यन्तर्भावितण्यर्थः । कार्य व्यव हारपदं दर्शयित्वा प्रमापय्य । कार्यप्रसिद्धयर्थ कालान्तरे व्यवहारनिर्णय सिद्धयर्थं पुनः पुनः स्मार्यते कार्यमेव विस्मरणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः । यस्तु यदृच्छया प्रसङ्गादागतस्त्वमत्र साक्षी भवेति साक्षित्वेन निरूप्यते स यदृच्छाभिज्ञः । व्यप्र. १०७ (३) मिता. टीका - पौनरुक्त्यं परिहरति स्मारित इति । तेनैव कात्यायनेनैव । एवमग्रेऽपि | पुनः पुनः कार्य दृष्ट्वा कार्यप्रसिद्धयर्थं यः स्मार्यते इत्यन्वयः । स्मारित इति पाठे ‘ मतिबुद्धीति' वर्तमाने क्तः । इह व्यवहारे । आगतः सन्निति शेषः । बाल. २१६८ प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । (धिका:); समु. ३७ प्रभृतास्तु ( तु बहवो स्मृतिमत्तश: ( गति- मतमाः); विव्य. ९ व्यसौवत्, नारदः. (१) मिता. २१६८; स्मृचि.४५ नारदः; नृप्र.९; सवि. १४२ (=) नीतो (हूतः); ब्यप्र. १०७; व्यउ. ४७ नीतां (नीते) ससा (स्वसा) त्र (त्रि); विता. १५७ यो (बा); सेतु. ११६; प्रका. ५१; समु. ३०. . (२) व्यक. ४३ ; व्यसौ. ४१; व्यप्र. १०९. (३) मिता. २१६८; नृप्र. ९ स्मार्य (कार्य); स्मृचि. ४५ ह्य (अ) नारदः; व्यप्र. १०७ ; व्यउ. ४७ ( = ) यस्तु ( यत्तु); विता. १५७;राकौ.४० १; सेतु. ११६; प्रका. ५ १; समु. ३०. (४) मिता. २।६८; स्मृचि.४५ क्रमेण नारदः; नुप्र.९; सवि. १४२ (=) स्वल (चालि); उयप्र. १०७; व्यउ. द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ || (१) अनयोः पत्राऽनारूढत्वेऽपि भेदस्तेनैव दर्शितः- प्रयोजनार्थमिति ।
- मिता. २१६८
(२) मिता. टीका – अनयोः स्मारितयदृच्छा मिज्ञयोः । बाल. २१६८ अर्थिना स्वार्थसिद्धयर्थ प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते || (१) मिता. टीका - अस्यार्थः, अर्थिंना साध्यवता स्वार्थसिद्धयर्थं प्रत्यर्थिनो वचनं स्फुटं यथा भवति तथा, प्रत्यर्थिनाऽविज्ञातः सन् स्थितो यः पुमान् श्राव्यते स गूढसाक्षी कथ्यत इति । Xसुबो. २१६८ व्यत. २१२ (२) तेनाऽन्यतरवाद्यभिहितार्थविषयकदृष्टकारणजं विज्ञापनं साक्ष्य मिति स्थितम् । साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥ (१) स्वपक्षसंबन्धिसाक्ष्यं परिभाषतां साक्षिणां यः स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात् श्रावणा- दुत्तरसाक्षीत्यर्थः । + व्यत. २१२ (२) मिता. टीका-साक्षिणामपि उपरि ऊर्ध्वं यः पुमान् श्रवणात् श्रावणाद्वा साक्ष्यं उपरि उत्तानं उत्कृष्टं भाषते इत्याद्यर्थः । अत एव षष्ठीसंगतिरन्यथा द्वितीयापत्तिः स्फुटैव । बाल. २१६८
- सवि., व्यप्र., सेतु. मितावत् ।
। X बाल. (२९६८) सुबोगतम् + सेतु. व्यतवत् । ४७ यः (सः); विता. १५७; सेतु. ११६ ; प्रका. ५१; समु ३०. (१) मिता. २१६८ व्यते (वित :); ब्यमा ३२१ बृहस्पतिः; सुबो. २१६८; स्मृचि. ४५ क्रमेण नारदः; नृप्र. ९ तो (रो); व्यत. २१२ स्थितो (तदा) नारद: ; सवि. १४२ (=); ब्यप्र. १०७; व्यउ. ४७; विता. १५७ ढो (ढे) नारदः; सेतु. ११६; प्रका. ५१ व्यासः; समु. ३०. (२) मिता. २१६८; स्मुसा. १०० ते (ताम् ) नारदः; व्यचि.३५ षते (षितम्) बृहस्पतिः; स्मृचि.४५ क्रमेण नारदः; नृप्र. ९-१०; व्यत. २१२ यः ( यत् ) उपर्युपरि भाषते (स्वपक्षं परिभाषताम् ) शितः (शकः) नारदः; सवि. १४२(=); चन्द्र. १३६ ते (ताम् ); वीमि. २|७२ बृहस्पतिः; ब्यप्र. १०७ ; व्यउ.४७; विता. १५७ नारदः; सेतु. ११६ शितः (शकः): ११७ उपर्युपरि (समक्षं परि) नारदः; प्रका. ५१; समु. ३०.