पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ३२९ कथं तर्ह्यज्ञाननिगदे भङ्गलिखनम् ? साक्षिज्ञान व्यासार्थ- विशेषाभिप्रायेणेति । द्वितीय तृतीययोस्तु मानान्तरानु- सरणमित्यत्र 'ऊनं वाऽप्यधिकं वेत्यादिवचनमेव दर्श- यिष्यते । तस्मात् पञ्चमे परं भङ्गः । Xव्यचि. ५७ स्मृच.८९ : 'देशकालवयोद्रव्यसंज्ञाजाति प्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् || साध्यं सिद्धं विनिर्दिशेत् इत्यन्वयः । यत्र देशादीनां प्रतिज्ञान्तर्गतत्वं तत्रैव देशादिनिगदः प्रयोजको न सर्वत्र | चन्द्र. १५१ सत्योक्त्यपवादः सकृत्प्रमादापराधि विप्रं व्यापदि पीडितम् । छटादिभिर्बध्यमानं रक्षेदुक्त्वाऽनृतान्यपि ॥ अपिशब्दादत्राप्यनृतोक्त्या किञ्चित्पापं भवतीति गम्यते । कीदृशसाक्ष्योक्तौं जयः यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् । स जयी स्यादन्यथा तु साध्यार्थ न समाप्नुयात् ॥ (१) अन्यथा मिथ्यैतदिति विपरीताभिधाने साध्यं न लभेत, भग्नत्वादित्यर्थः । व्यमा. ३३२ (२) अत्र साक्षिण इत्युपलक्षणम् । लिखितसाक्षि- भुक्तिषु मध्येऽन्यतरप्रमाणम् । यस्यैव प्रतिज्ञासत्यार्थप्रति- पादकमस्ति स विजयीति मन्तव्यम् । एवं दिव्येऽपि कथितजय हेतुप्रकारेण प्रतिज्ञासत्यत्वेऽप्येवम् | स्मृसा. ११८ (३) अन्यथाऽशेषप्रतिज्ञातप्रतिपादनाभावे । अयं च द्वधा संभवति । अनभिधाने अनपेक्षिताभिधाने वा । अन्त्योऽपि चतुर्धा | न्यूनाभिधाने अधिकाभिधाने अज्ञानाभिधाने विरुद्धपक्षाभिधाने च । अत्र सर्वत्र साध्यासिद्धिः । किन्तु प्रथमतुर्ययोः प्रमाणान्तरमनुसर- णीयं, न तु तावतैव तद्भङ्गनिर्णयः, विचारारम्भक संशयानिवृत्तेः । न च न जानामीति निगदे पराजय एव वादिन इति प्रदीपलिखनविरोध इति वाच्यम् । प्रदीपकता हि अनिगदे संशयतादवस्थ्येन प्रमाणान्तरा- नुसरणं ब्रुवता ज्ञानाभावनिगदेऽपि तस्योक्तप्रायत्वात् । (१) स्मृच.८९; प्रका. ५८ टादि (दादि); समु. ३६ बध्य (बाध्य). (२) व्यमा. ३३२ पादितम् (वर्णितम्); अप. २ । ७९ शेषं (शेष:) शातं (ज्ञार्थ:) पादितम् (वर्णित:); स्मृच.९१ (यस्या- शेषप्रतिशार्थः साक्षिभिः प्रतिवर्णितः ); पमा ११४ पं (प:) ज्ञातं (शार्थ:) पादितम् (वर्णितम्) स... तु (सोऽजयी स्यादन्य- नीतं); स्मृसा. ११८ प्रतिपादितम् (परिवर्णितम्) प्नुयात् (पयेत्); व्यचि. ५७; ब्यत २२० यस्या ( यस्य); सवि. १४५ (यत्रादोषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः । स जी स्यात् ) एतावदेव; 'चन्द्र. १५१ स्मृसावत्; बीमि. २।७९ ध्या (क्ष्य); प्रका. ५९ शेषं (शेष:) शेषं स्मृचमत्ः समु.३७ · स्मूचवत; विज्यं . १४ शेषं (शेप) पारितम् (भाषितम्) प्नुया(पये). ध्य. का. ४१ पूर्वपक्षे प्रतिज्ञातमशेषं प्रतिभावयेत् । ऊनाधिकं तु यत्रोक्तं न तन्निगदितं भवेत् || (१) तत्रोनाधिकाभिधाने साक्षिनिर्देशकस्य भङ्ग इति केचित् अस्याप्यन्यथावादित्वादिति तदयुक्तं, ' मिथ्यावादी विहीयते' इति वचनात् विपरीताभिधा नस्यान्यथावादत्वात्, न त्वन्यथावादस्य । न स्मरामी- त्यादिवादेऽपि तथात्वापत्तः इष्यत एवेति केचित् । साधकबाधक प्रमाणाभावेन संदेहे सत्यपि भन्नत्वे छला- पत्तेः अस्य निरास्यत्वात् । बृहस्पतिश्चान्यथात्रादि- साध्यस्य प्राप्त्या भङ्गममिधाय पुनरूनाधिकाभिधानार्थं वचनान्तरविवरणं कृतवान् तदनर्थकं भवेत्, अन्यथा- वचनेनैव प्राप्तत्वात् । अत एवात्र तन्निगदित मिल्यर्थ - तत्त्व माह, न च साध्याप्राप्तिम् । व्यमा. ३३३ निगदितं (२) पूर्वपक्षग्रहणं प्रदर्शनार्थम् । विनिर्णीतम् । अप. २।७९ साक्षिदधे बहुत्वगुणाधिक्यादिना निर्णयः साक्षिद्वैधे प्रभूतास्तु माह्याः साम्ये गुणान्विताः । गुणिद्वैधे क्रियायुक्तास्तत्साम्ये स्मृतिमत्तराः ॥ x वीमि. व्यचिगतम् । (१) मा. ११४; चन्द्र. १५१ (कालाकृतियोद्रव्यदेश जातिप्रमाणत:); व्यप्र. १२९ द्रव्य (जाति) जाति (द्रव्य) | व्यम १९ ( =) जाति (शाति); विता. १७५. (२) व्यमा ३३३ प्रति (परि); अप. २।७९; विग्य. १४ भाव (पाद) ऊ (न्यू). (३) व्यमा. ३०८ स्तु (स्ते) न्विताः (धिका:) गुणि (गुण) स्मृति (शुचि) : ३२५ स्तु (स्ते ) स्मृति (शुचि); व्यक. ५९ म्ये (ध्ये); पमा. ११६ तु (स्युः) स्मृति (शुचि); व्यचि. २९ न्निता: (धिका:); चन्द्र. १५१; व्यसौ. ५६ वैधे (भेदे) न्विताः J