पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ तदिति । तच्च लेख्यं च, ते च साक्षिणश्चेति द्वन्द्वे ' नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ' ( व्यासू . १।२।६९ ) इति नपुंसकैकशेषैकवद्भावौ। व्यप्र.१२३ साक्षिमिर्गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः । पुनर्विवादं कुरुते तस्य राजा विचारयेत् ।। (१) गदितैः अर्थिना निर्दिष्टैः । सभ्यैः प्रकटदोष- रहितैः साक्षिभिर्निर्णये प्रक्रान्त इत्यर्थः । प्रक्रान्तग्रहणं निर्णयादूर्ध्व न दूषणाभिधानकाल इति प्रतिपादनार्थम् । स्मृच.८३ (२) अयं कूटसाक्षीत्यभिधाय यः पुनर्वादी वादं कुरुते तद्राजा विचारयेदित्यर्थः । व्यचि.४६ व्यवहारकाण्डम् साक्ष्याप्रदाने दण्डविधि: आंहूतो यस्तु नागच्छेत् साक्षी रोगविवर्जितः । ऋणं दमं च दाप्य: स्यात् त्रिपक्षात्परतस्तु सः ॥ (१) ऋणपदं निक्षेपादीनुपलक्षयति, न्यायस्याऽवि- शेषात् । व्यमा. ३३२ (२) रोगविवर्जितग्रहणं सामर्थ्योपलक्षणार्थम् । ऋणा- दिव्यवहारविषयमेतत् । अप. २।७६ (३) रोगपदं अलङ्घ्यप्रतिबन्धकपरम् । ऋणपदं विवादवस्तुमात्रपरम् | व्यचि. २५ ॲपृष्टाः सत्यवचने प्रश्नस्याकथने तथा । साक्षिणः संनिरोद्धव्या गह्य दण्ड्याश्च धर्मतः || साक्षिप्रश्नविधिः । सत्यप्रशंसा । अनृतनिन्दा | सत्य प्रशंसावचनैरनृतस्यापवर्जनैः । सभ्यैः संबोधनीयाश्च धर्मशास्त्रार्थवेदिभिः ॥ (१) व्यक. ५० प्रक्रान्ते... यः (प्रयोक्ता निर्णये तु यत् ); स्मृचि.८३; व्यचि.४६ गदितैः सभ्यैः (गदिते साक्ष्ये) निर्णये तु य: (कार्यनिर्णये); व्यसौ.४८; प्रका. ५३; समु. ३२. (२) व्यमा. ३३२; अप. २|७६ यस्तु ( यत्र ) ; व्यक. ५८; स्मृच. ९१ दमं (दत्तं); पमा. ११५; व्यचि.५५ दमं ( दण्डं); सवि. १४८; व्यसौ. ५५ दमं ( दण्डं ) परत ( परम); प्रका. ६०; समु.३७; विव्य.१४ दमं (देयं ). (३) व्यमा ३३२; व्यक. ५८; व्यचि. ५५ प्रश्नस्थाकथने (पृष्टश्चावचने). (४) व्यमा.३२९ श्च (स्तु); व्यक. ५२ श्च (स्तु) स्त्रार्थ (स्त्रप्र); ब्यचि.४८ स्त्रार्थ (स्त्रप्र); स्मृचि. ४७ यास्तु (यस्तु) ; व्यसौ. ५० व्यभावत्. L आं जन्मनश्चा मरणात् सुकृतं यत्त्वयार्जितम् । तत्सर्वं नाशमायाति वितथस्याभिशंसनात् ॥ कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः । भ्रूणहा वित्तहा चैषां नाधिक: समुदाहृतः ॥ एवं विदित्वा यः साक्षी स यथार्थ वदेत्तत्तः । तेनेह कीर्तिमाप्नोति परत्र च शुभां गतिम् ॥ साक्ष्योक्तिविधिः “विहायोपानदुष्णीषं दक्षिणं पाणिमुद्धरेत् । हिरण्यगोशकुदर्भान् समादाय ऋतं वदेत् ।। (१) दक्षिणं पाणिमुद्धरेत् । प्रावृतं वस्त्रं यज्ञोपवीत- वत् कुर्यादित्यर्थः । स्मृच.८९ (२) अत्र दक्षिणपाण्युद्धारोऽवधानार्थोऽदृष्टार्थो वा । श्र्व्यचि.५३ (३) तथा च श्रुतिः - दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् । सवि. १५७

  • चन्द्र व्यचिवत् |

(१) व्यमा. ३२९; व्यक. ५२ यत्त्वया (यदुपा) वितथ अनृत); व्यचि.४८ व्यकवत् ; स्मृचि. ४७ व्यकवतु; चन्द्र. १४७ न (त) सुकृतं ... जिंतम् (यच्चापि सुकृतं कृतम्) माया (माप्नो); व्यसौ. ५ .५० व्यकवत्; व्यप्र. १२७ यत्त्वया (यदुपा) वितथस्यामि (अनृतस्य तु); विव्य. १४ न (त) सुकृतं यश्वया ( पुण्यं यत्समुपा). (२) व्यमा.२८३ वित्त (मैत्र) : ३२९ कूट (गूढ़); अप. २१७५ सभ्यः ( सत्यः) मा स्मृताः (मः स्मृतः) वित्त ( मित्र); व्यक.५२; स्मृच.८६; व्यचि.७ पू. : ४८ वित्त (वृत्त) चै (ते); स्मृचि ४७ पू.; सावे. १५८; चन्द्र. १४७ (=) सभ्यः (सत्यः) वित्त (वृत्ति); व्यसौ. ५० वित्त (वृत्त); व्यप्र. १३५ प. प्रका. ५६; समु. ३४. (३) व्यमा. ३२९; व्यक. ५२ यः (तत्) स यथार्थ ( यथाभूतं ) ; व्याचे. ४८ ( एवं विदित्वा तत्साक्षी यथा ब्रूतं वदेद् वचः); स्मृचि.४७ व्यकवत्; ब्वसौ. ५० पु.; विष्य. १४ स यथार्थ (यथाभूतं). (४) अप. २१७५ ण्य (ण्यं ) ; व्यक. ५६; स्मृच.८९; पमा. ११२ रेत् (रन्) ण्य (ण्यं ) ; व्यचि. ५३; नृप्र. १० रेत् (रन्); सवि. १५७ पाणि (बाहु); चन्द्र.१४८ योपानदु ( य पादुको); व्यसौ. ५३; व्यप्र. १२९ रेत् (रन्); प्रका. ५८; समु. ३६ सविवत्.