पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी एवं शात्वा अनृते दोषान् सत्ये च शोभनान् गुणान् सत्यं वदोद्धरात्मानं देवत्वं प्रापय । अनृतमुक्त्वा मा आत्मानं नरके पीपतः । नाभा. २।१९८ ने बान्धवा न सुहृदो न धनानि महान्त्यपि । अलं धारयितुं शक्तास्तमस्युम्रे निमज्जतः ॥ बान्धवाः स्वजनाः सुहृदो मित्राणि, धनानि गवाश्व- हिरण्यादीनि, महान्त्यपि भूयांस्यपि, न शक्ता न पर्याप्ताः धारयितुं समस्यु महति नरके निमज्जतः, सत्यमेवैकं समर्थम् । तस्मात् स्वार्थं तदेवैकमवलम्बस्व, अनृतं परार्थ मा वादीरिति । नाभा. २।१९९ 2 पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते । तारयिष्यति किन्त्वस्मान्किमधः पातयिष्यति ॥ पितरस्त्ववलम्बन्ते यथोलपा लम्बमानास्तथा पतेमन पतेमेति संशयावस्थायां त्वयि साक्षित्वमागते साक्षित्वेन नियुक्ते । किमिति संशये, न्विति वितर्के । किन्नु तार- यिष्यति नरकादस्मानात्मानं च, किन्नु पातयिष्यति अनृतबचनेन नरकेऽस्मानात्मानं चेति । तस्मात् तान् भूतवचनेनोद्धर्तुमर्हसि । नाभा. २ |२०० सत्यमात्मा मनुष्यस्य सत्ये सर्व प्रतिष्ठितम् । सत्यमुक्त्वाऽऽत्मनाऽऽत्मानं श्रेयसा संनियोजय ॥ यिष्यति); व्यक. ५५ ज्ञात्वा सत्ये (तथा सत्ये) उत्तरार्धे (सत्यं धर्मेण सततमात्मानं पावयेत्स्वयम्); व्यचि. ५२ ( उक्तान्वै- ताननृते दोषान् तथा सत्येषु सद्गुणान् ) तय ( तयेत् ). (१) नासं. २।१९९; नास्मृ. ४ | २२१; अभा. ७१; व्यक. ५५; व्यचि.५२ शक्तास्तमस्युग्रे (सर्वे तमस्यन्धे); स्मृचि. ४८ धारयितुं... ग्रे (वारयितुं सर्वे तमस्यन्धे). (२) नासं. २१२०० किन्त्व... मध: (किन्न्चस्मानात्मानं); नास्मृ.४|२२२ अधः (चाय); अभा. ७१ नास्मृवत् ; अप. २।७५ स्त्ष (स्तेS) किन्त्व... मध: ( किन्न्वस्मान् किन्न्यस्मान् ); व्यक. ५५ अपवत् ; स्मृसा. १२१ मनुः; व्यचि. ५२ त्वयि (पुत्रे) किन्त्व (किन्न्व); स्मृचि. ४८ त्वस्मान् किमध: (चास्मान् किं वास्मान्); चन्द्र. १४८ त्वयि (पुत्रे). (३) नासं. २/२०१ सत्ये सबै (सर्व सत्ये) सत्यमुक्त्वा (सर्वथैवा) संनियोजय ( योजयिष्यसि ) ; नास्मृ. ४ | २२३; अभा.७१ पू.; उयक. ५५ सत्यमुक्त्वा (सर्वथैवा) सा सं (स्यैब); व्यचि.५२ सा सं (स्थेव) शेषं नासंवत् ; स्मृचि. ४८ व्यचिवद्. 1 ३१९ सत्यमात्मा मनुष्यस्य, यथात्मानं श्रेयसा योजयिष्यति तथा सत्यमिति सत्यमात्मेत्युच्यते । सत्ये सर्वे प्रतिष्ठितं आ ब्रह्मणः स्थानात् सत्यं निमित्तं तदभाव आकीट- पतङ्गेभ्यः सर्वनारकाणीति । सर्वथा आत्मानमात्मना श्रेयसा योजयिष्यसि, सत्यवचनं न पितॄणामेव हितार्थ - मात्मार्थमपीति । नाभा. २/२०१ यां रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि । वृथां तदन्तरं ते स्यात् साक्ष्यं चेदन्यथा वदेः || 'अन्तरान्तरेण युक्त' (व्यास २१३१४ ) इति द्वितीयोभयत्र । यां रात्रिमवधिं कृत्वा यां च मरणं जन्मन आरभ्यामरणादन्तरा यत् कृतं, सुकृतमिति सामर्थ्यात्, तत् तव वृथा स्यात् साक्ष्यं चेदन्यथा वदेः । तस्मात् सुकृतरक्षणार्थमपि माऽनृतं वादीरिति । नामा. २ | २०२ ब्रह्मन्नस्य तु ये लोका ये च स्त्रीबालघातिनाम् । ये च लोकाः कृतघ्नस्य ते ते स्युब्रुवतो वृथा || नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साधर्मे विशेषेण सत्यमेव वदेत्ततः ॥ कुँबेरादित्यवरुणशक्रवैवस्वतादयः । पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षुषा ॥ पुराणानुमतौ चात्र द्वौ श्लोकौ समुदाहृतौ । (१) नासं. २ | २०२ न्तरं (न्तरा); नास्मृ.४१२२४ (यस्यां रात्रावजनिष्ठा यस्यां रात्रौ मरिष्यसि । वृथा तदन्तरं तुभ्यं साक्ष्यं चैदन्यथा कृथा:II); अभा.७१ (यस्यां रात्रावयायिष्ट यस्यां रात्रौं मरिष्यति । वृथा तदन्यं तत्तुभ्यं साक्ष्यं चेदन्यथा कृथाः।।); व्यक.५५; व्यचि. ५२ वदे: ( वदेत्). (२) नास्मृ. ४ | २२५; अभा. ७१; व्यचि.५० ब्रह्म... लोका (ब्रह्मनां ये स्मृता लोका) ये न लोका: (मित्रद्रुहः) भुवनो वृथा (वदतो मृपा) मनुनारदौ. (३) नासं. २।२०३ देत्तत: ( देरत: ); नास्मृ. ४ | २२६; अभा. ७१; व्यमा ३३१ में वि (र्मवि); व्यक. ५३; स्मृच. ८६ त्ततः (दतः); पमा.१०८ उत्त.; व्यचि.४९ परम् (महत्); स्मृचि.४८ सत्य ... ततः ( सत्यं ब्रूहि परंतप); नृप्र. १० पू.; व्यसौ. ५०; प्रका. ५५ स्मृचवत् ; समु. ३४स्मृचवत्. (४) स्मृच.८६; पमा. १०९; नृप्र. १०; सवि. १५८; प्रका. ५६; समु. ३४. (५) नास्मृ.४।२२७ (पुराणोक्ती द्वौ श्लोकी भवतः) पता- वदेव; अभा. ७१ ( पुराणोक्तौ तथैवात्र लोकौ द्वौ भवतः शुभौ ) पू.; ब्यक.५३; व्यचि.४९; व्यसौ. ५०,