पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् या श्रुत्वा सत्यमेवेह सदा वाच्यं यः परार्थेऽपहरति स्वां वाचं पुरुपाधमः । आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः ॥ अंर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः । यो हि तां स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः ।। साक्ष्यनृतप्रतिषेधोद्बोधनार्थत्वादिहोपन्यस्तौ । यः परस्यार्थे वाचं सत्यान्महाफलादपहरति अनृतं महादोषं प्रापयति । स्वायत्तानपराधिनां परायत्तत्वेन दोप: स्यात् । अत एव पुरुषाधमः । स आत्मार्थे किं न कुर्यात् पापम् ? आत्मनः फलसंबन्धो दृष्टादृष्टविषयो यत्र नास्ति तत्राप्यकार्ये प्रवृत्तोऽयं यत्रात्मनो दृष्टफलसंबन्धोऽस्ति तत्र नरकनिर्भयः किं पापं न करिष्यतीति । 'सुवाग् ब्राह्मण' इति दर्शनाद् वागिति शब्द उच्यते इन्द्रियं च । तत्रार्था दृष्टादृष्टा अग्निहोत्रादयः कृप्यादयश्च नियताः तथा प्रवर्तन्ते । वाङ्मूलाः शब्दा देवाग्निहोत्रा दयो गम्यन्ते । वाचि शब्दब्रह्मणि मिश्रिताः स्थिताः । अतः सर्वत्र प्रतिष्ठितां वाचं यः स्तेययेत् चोरकर्म करोति प्रतिषिद्धं करोति अनृतं वदतीत्यर्थः, स सर्वस्तेय- कन्नरः तत्प्रभवत्वात् सर्वस्य तदन्तर्भूतत्वाच्च । तत्र स्तेनप्रणाडिकया साक्षाच सर्वस्तेनः । तस्मात् सत्ये स्थातव्यमिति । नाभा. २।२०४-२०५ साक्षिसाक्ष्यशोधनक्रमः साक्षिकदूपणे कार्य पूर्वसाक्षिविशोधनम् । शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ॥ यदा प्रतिवादी साक्षिकदूषणं प्रयच्छति तदा पूर्व साक्षिविशोधनं साक्षिप्रकरणोक्त न्यायेन कर्तव्यम् । यदि (१) नासं. २(२०४ पो (पं); नास्मृ.४१२२७ इपहरति (यात्); अभा. ७१; व्यक. ५३ पो (पं) भयः (र्णयम्); व्यचि. ४९ति (ते); व्यत. २२० पो (पी); चन्द्र. १४८ ति (ते) पो (पं); व्यसौ. ५० पो (पं). (२) नासं. २ | २०५ वाग्विनिःसृताः (वाचि मिश्रिताः) हि (बै); नास्मृ. ४।२२८ (वाच्यर्था नियताः सर्वे वाङ्मला वाग्विनिश्चिताः); अभा. ७१ वाङ्म (त्वग्मू); व्यक. ५३ यो हि (यस्तु); व्यचि.४९ व्यकवत्; व्यत. २२० व्यकवत; चन्द्र. १४८ विनिसृताः (मनस्विता: ) यो हि (यस्तु); व्यसौ. ५० यो हि (यस्तु) र्वस्ते (र्वः स्ते). (३) नास्सु. २।३९; अभा. २७ पूर्व (पूर्व). । चादुष्टदूषणं करोति ततः क्रियाद्वेषिहीनवादिविनयं ग्राह्यः । ततः शुद्धेषु साक्षिषु साक्षिवचनं विशोध्यम् । व्याजं निर्व्याजं चेति । अभा.२७ साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् सांक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः* ॥ (१) शुचिग्रहणं गृहस्थत्वादिगुणवतामुपलक्षणार्थम् । स्मृच. ९१ (२) विप्रतिपत्तिः द्वयोः परस्परविरुद्धभावाभावनि- व्यचि.६१ गदः । (३) साक्षिणां विप्रतिपत्तौ बहवो यद् ब्रूयुः तद् प्रा. ह्यम् । तेषां साम्ये शुचयः नान्यथा वदन्तीति संभा विताः अन्येषु कार्येषु दृष्टप्रत्ययाः, तेषां वचो ग्राह्यम् । तेषां साम्ये स्मृतिमत्तराः कृतज्ञा विविक्तभावाः बहुशो नाभा. २।२०६ दृष्टव्यवहाराः । (४) बहवोऽधिकाः । एवं सभ्यद्वैधेऽपि, तुल्यन्याय- विता. १७७ त्वात् । विरुद्ध साक्षिसाम्ये साक्ष्यमप्रमाणम् स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । सूक्ष्मत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः || (१) तस्मात् स्मृतिमत्साक्षिसाम्याद् व्यावर्तते । माश्यमनुस्मरणसक्तं न भवति । समक्षदर्शनानुपलब्धेरेक- विषयमेव एके आहुः । उद्दिष्टाः साक्षिण इत्यन्ये आहुः ।

  • ग्यमा. 'बहुत्वं परिगृह्णीयादिति विष्णुवचने ( १.

२४६-२४७) द्रष्टव्या (१) नासं. २ | २०६; नास्मृ. ४।२२९; अभा. ७१; व्यमा. ३२५ ( साक्षिणां विप्रतिपत्तौ प्रमाणं बहवो मताः । साम्ये तत् शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥) : ३३५ यतः (मता: ) स्मृति (शुचि); अप. २१७८ व्यमा. ३३५ बत्; व्यक. ५९ यतः (मता:); स्मृच. ९१ व्यकवत; स्मृसा. १२१ व्यकवत् । व्यचि. ६१ व्यकवत्;सवि. १४७त साम्ये स्मृति (समे तु शुचि); विता. १७७ व्यकवत; प्रका. ५९ व्यकवत्; समु. ३७ भ्यकवत् (२) नासं. २ | २०७ सूक्ष्म (तीक्ष्ण); नास्मु. ४ | २३०; अभा. ७१; व्यक. ४७ : स्मृच. ९१ ते ततः (येततः); सवि. १४७ (तत्साम्यात् साक्षिसाम्ये च विवादो यत्र दृश्यते । सूक्ष्मत्वात्साध्यधर्मस्य साध्यं व्यावर्तयेततः ॥); भ्यसौ.४५) प्रका. ५९ स्मृचवत् समु. १७ स्मृचवत्.