पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ३१७ वचनं, तत् परिहर्तव्यमिति ह्यनृतनिन्दार्थमुच्यते 'अस नाभा. २।१८६-१८७ सत्योक्तिप्रशंसाऽनृतोत्तिितनिन्दा च वचने इयत् फलमवाप्नोति तस्मात् सत्यं ब्रूहीति उप- पद्यते स्तुतिः । नाभा. २११८९ दपी'ति । ऐकमेवाद्वितीयं तत्प्राहुः पावनमात्मनः । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव || वैरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं ऋतुशतात्पुत्रः सत्यं पुत्रशताद् वरम् || परत्वं भूयःफलत्वम् | कूपशताद् वापी भूयःफला, सर्वप्राण्यनुग्रह भूयस्त्वात् । भूतानुग्रहस्य च दुःखनिवृत्ति हेतुत्वात् । वापीशतफलाद् भूयः फलत्वं क्रतोः, श्रुति- विहितफलत्वात् । 'त्रयः प्राञ्चः त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनमुष्मिँलोक उपजीवन्ती'ति श्रुतेः । तच्छतादपि भूयःफलः पुत्रः । 'पुत्रेण लोका- अयति पौत्रेणानन्त्यमश्नुते । अथ पौत्रस्य पुत्रेण नस्याप्नोति विष्टुपम्' || 'नापुत्रस्य लोकोऽस्तीति च स्मृतेः । ऋतोरदृष्टफलत्वात् दृष्टादृष्टफलत्वाच्च पुत्रस्य । ततोऽपि भूयःफलं सत्यं सर्वप्रकृष्टाश्रमेधसहस्रातिरिक्त फळत्वात् । तस्मात् सत्ये स्थिरो भव, अनृतं मा वादी- रिति । नाभा. २।१९० इत आरम्य सत्यप्रशंसा यावदनृतनिन्देति । एक मेवाद्वितीयं तथाभूतमन्यत् नास्तीति प्राहुः । शोधन मात्मनः । अन्यदष्यस्ति, तत् सशेषं शोधयति यज्ञादि । इदं त्वद्वितीयं निरपेक्षमशेषं शोधयतीत्यर्थः । किं पुन स्तत् । सत्यमेव । अत एव स्वर्गस्य सोपानम् । यथा हर्म्यतलस्य सोपानं तथा स्वर्गमारोढुं मार्गः । पारावार समुद्रस्येति केचित् महानद्याः गङ्गादेः परकूलस्ये त्यन्ये, यथा नौरिति । नाभा. २११८८ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते ॥ 'ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः' इत्य मेधः पुण्यानामुत्कृष्टः । ततोऽपि भूतोक्तिः सत्यम् । न तयोः समत्ववैषम्यचिन्तया प्रयोजनं, फलद्वारेणोत्क- पपकर्षचिन्ता । उत्कर्षश्चापकर्षश्च तत्फलयोरेव वा । ते तुलया समधारयत् । तथाभूतप्रकृष्टपुण्यसाधनाश्र मेधसहस्रादपि सत्यं व्यतिरिच्यते । यस्यावभृथस्नाना दपि ब्रह्महत्यायाः पूयते किं ततः परम् ? तत्सहस्रादपि सत्यमतिरिच्यते । तस्मात् सत्यसमं नास्तीति सत्य- स्तुतिः । जन्मप्रभृति आ मरणात् सत्यवचनस्यैपा स्तुतिः, आहोस्विदे कैकस्येति ? यदि जन्मप्रभृत्युक्ता, इह साक्ष्यश्रवणे फलं मन्दम् । अन्यथाक्रान्तत्वादिह सत्यवचने फलाभावात् । अथ एकैकस्य, इद्द सत्य- (१) नासं. २११८८; नास्मृ. ४ | २१०; अभा. ७१ तत् (तु); ग्यमा. ३३१ उत्त.; व्यक. ५२ तत् प्राहुः (यत् प्रोक्तं); व्यचि. ४९ तत् (यत्); स्मृचि. ४७ उत्त.; चन्द्र. १४७ व्यचि वत् ; व्यसौ. ५० व्यचिवत् . (२) नासं. २११८९; नास्मृ. ४ | २११; अभा. ७१; व्यमा. ३३१ च (तु) त्तु (द्धि) उत्त.; व्यक. ५२ व्यमावत्, विष्णु- नारदौ; व्यचि. ४८ तु (द्धि) मेव (मेवा) विष्णुनारदौ; स्मृचि. ४७ तु (द्धि) व विशिष्यते (वातिरिच्यते); व्यत. २१५ स्रं च (स्रं तु) शेषं स्मृचिवत्; चन्द्र. १४७ स्मृचिवत् ; व्यसौ. ५० स्मृचिवत्; सेसु. १२२त्तु (णि) शेषं स्मृचिवत्. सूर्धारयति सत्येन सत्येनोदेति भास्करः । सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ पृथिव्यादीनां सत्येन संबन्धाद् धारणादिप्रतिज्ञाया अपरित्यागादेतान्यचेतनान्यपि स्वकार्यमुत्पत्तिप्रभृत्यव्य- भिचारेण सत्येन कुर्वन्ति, किमुत चेतनावानिति सत्य- स्तुतिः । नाभा. २।१९१ सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः ॥ (१) नासं. २०१९० वरं (पर) ; नास्मृ. ४ | २१२; अभा. ७१ ; व्यमा ३३१; व्यक. ५२; व्यचि. ४९ क्रतुः (हदः) ऋतु- शतात् (शतहदात्); स्मृचि. ४७; चन्द्र. १४८; व्यसौ. ५० (२) नासं. २११९१ देति भास्करः (दयते रवि:); नास्ट. ४।२१३ पव (प्लव); अभा. ७१; व्यमा. ३३१ भू... सत्येन (सत्येन भूर्धारयति); व्यक. ५२ नास्मृवत् ; व्यचि.४९; चन्द्र. १४८; व्यसौ. ५०. व्यक.५२ (३) नासं. २११९२; नास्मृ. ४ | २१४ वै श्रुतिः (नः श्रुतम् ); अभा. ७१ वै (नः); व्यमा ३३१ नास्मृवत् ; नास्मृवत्; स्मृच.८६ वै (नः ) ; पमा. १०८ वे श्रुतिः (हि स्मृतिः); व्यचि. ४९ दानं ( धाम ) वै श्रुतिः (निश्चितम्); स्मृचि.४७ दानं (धाम) वै श्रुतिः (नः श्रुतम् ) ; चन्द्र. १४८