पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (१) यश्चान्येभ्योऽपि तत्साक्ष्यं श्रावयित्वा प्रपद्य च पुनः साक्ष्यप्रदानकाले अन्यथा ब्रूयात्तस्य महादण्डः कर्तव्यः । कूटसाक्ष्यं कूटं साक्षित्वं कूटसाक्षियोऽधिकं यस्मात् इति । अभा.७० (२) श्रावयित्वा पूर्वमन्येभ्यः साक्षित्वं ' एवं वृत्त- महं जानामीति प्रश्नकाले निहुते प्रयोजनमभिचिन्त्य 'माहं जानामि न च मयोक्तमिति, स विनेयो भृश- तरम् | कूडसावधिको यस्मात् सः । कुटसाक्ष्येवं निहुते अज्ञानाद्वा, अयं तु तच्च स्ववचनं चोभयं निहुते उभौ च विवक्षविष्यति । नाभा. २।१७६ साक्षिणो भेदे वादहानिः ने परेण समुद्दिष्टमुपेयात्साक्षिगं रहः । भेदयेत्तं न चान्येन हीये तैवं समाचरन् || (१) तत्र यः परोद्दिष्टं साक्षिगं रहसि संभाषेताऽसौ हीयेत, भेदयंश्च तर्जनभर्त्सनादिना लौकिकभेदेन च अर्थसंप्रदानेनेति । अभा.६७ (२) तेन तथा आचरन्तं हीनदण्डेन दण्डयेदित्यभि प्रायः । स्मृच. ९४ ५ (३) अन्यतरेगोपन्यस्ताः साक्षि गोऽन्येन यदि रहसि संवाद्यन्तेऽन्यद्वारेग भेद्यन्ते वा तदा प्रकृतार्थहानिस्तस्ये- त्याह न परेणेति । व्यप्र. १३८ साक्षिप्रश्न विधिः आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । (१) नालं. २११४४; नास्मृ.४|१६५; अभा. ६ ७; निता. शं८२ तं न (नैव); व्यक. ३० टमु (ष्टानु) णं (जो) तं न (भैत्र) नारदकात्यायनौ; स्मृव.९४ त्तं (त); चन्द्र. १२१ (परेण तु समुद्दिष्टान्नोरेयात् साक्षिगो रह:) त्तं न चा (च्चैव ना); ब्यसौ.३२ ष्टभु (ष्टानु) णं (णो) त्तं न चा (च्चैव ना). तै (दे); ध्यप्र. १३८ त्तं न चा (च्चैव ना); ब्यउ ५१ व्यप्र नंत्; विता. १६७ तं न चा ( च्चैव वा ); प्रका. ६१; समु. ३८. (२) मासं. २ । १७७; नास्मृ. ४ | १९८; शुनी. ४।६९४ पू.; अभा. ७० विज्ञातार्थान् (अविज्ञातान्); अपं. २।७५; व्यक. १०३ स्मृव. ८८; व्यचि.४६; स्मृचि.४७ विज्ञाता (विदिता); भूप्र. १०; सवि. १५५; चन्द्र. १४४; व्यसौ. ४९; ग्यप्र. १२६; ब्यमः १८; विता. १६८ विदिताचारान् (विदितान् चाराम् )। प्रका: ५७१ समु. ३५१ विष्य. १४. समस्तान्विदिताचारान् विज्ञातार्थान्पृथक् पृथक् ॥ (१) सादरमाहूय साक्षिगः समस्तान् पृच्छेत् । पूर्वश्रुतार्थानेकैकश: विज्ञाताचाराणामेषाम् । अथवा मस्ता विदिताचारान् पृच्छेदविज्ञाताचारांस्त्वेकैकशः । अप्रतिदूषिता ह्यविज्ञाताचारा अपि प्रष्टव्या एवेति । प्रश्नश्चोभयथाऽपि युक्तः । नियम्य शपथैर्भृशं सुतरामिति । अभा.७० (२) भयावहै: शपथैः सत्यनिष्ठान् कृत्वा प्रत्येकं पृच्छेदित्यर्थः । Xस्मृच.८८ (३) साक्षिणश्च पृथक् पृथक् प्रष्टव्याः । आहूयेति नारदवचनात् । चन्द्र. १४४ (४) आहूय साक्षिण: पृच्छेन्नियम्य नियमयित्वा 'सत्यमेव वक्तव्यं नान्यदिति । अथवा देवताग्नि- मुबर्णबीजादीनि संनिधाप्य शपथैर्भृशं नियम्येति संबन्धः। पुनः पुनर्वा शपथैः समस्तान् युगपत्सर्वान् विदिता- चारान् शुद्धाचारान् विशातार्थान् विदितवृत्तान्तान् पृथक् पृथक् वा समस्तान् वा पृथक् पृथक् पृच्छेत् । नाभा. २।१७७ सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाचनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।। (१) शपथ निर्देशार्थ श्लोकः । अभा. ७० (२) सत्येन श्रावयेद् विप्रमित्यप्रकृष्टब्राह्मणविषयम् । न ब्राह्मणमात्र विषयम् । तस्य गौतमेन शपथनिषेधात् । शापयेदित्यर्थः । ॐव्यक.५३ (३) सत्यादीष्टविघातोपदर्शनेन विप्रादीन्, वक्ष्य- माणानिष्टापत्तिदर्शनेन शूद्र शापयेदित्यर्थः । स्मृच.८८ (४) असाक्षिके विवादेऽलिङ्गे च सत्येन शापयेद् ब्राह्मणम् । 'एतासां देवतानां राज्ञश्च संनिधौ सत्यं त्वया वक्तव्यं' एवं पृष्टेन 'सत्यं दृष्टं श्रुतमनुभूतं वैत्युक्ते समाप्तो व्यवहारः । एवमितरत्रापि । यथोक्तैर- भियुक्तस्यायं यथोक्तः शपथः । क्षत्रियं वाहनायुधैः, x सवि. स्मृचवत् | * व्यचि. व्यकवत् । (१) नासं. २११७८; नास्मृ. ४|१९९; अभा. ७०; व्यक ५३ शाप ( श्राव); स्मृच.८८ त्येन (त्येच) सर्वे (एमि); व्यचि. ५० व्यकवत; ब्यसौ. ५१स्तु (श्च); वीमि. २७५ प्रका. ५७ स्मृचषत् ; समु. ३५ स्मृचवत्.