व्यवहारकाण्डम् ३१० कादिः । स्तेनः छिद्रकारी पूर्वोक्तः । राजपूरुषो राजा प्रवृत्तः, यतो धनं ततो गृह्यमाणकरणत्वात् । नाभा. २।१६४ मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् । विक्रेता ब्राह्मणश्चैव द्विजो वाधुषिकश्च यः ॥ मनुष्याणां विक्रेता प्रतिषिद्धकारित्वात् । विषस्य विक्रेता शस्त्रस्य च, वधसंबद्धत्वात् अम्बुलवणापूप वीरुधां प्रतिषिद्धत्वाद् ब्राह्मणस्य ब्राह्मण एतेषां विक्रेता । द्विजातिश्च वार्धुषिकः, प्रतिषिद्धत्वात् । 'आपत्स्वपि हि कष्टारिव' ति वैश्यानामपि निस्तीपदां प्रतिषिद्धत्वात् । नाभा. २।१६५ च्युतः स्वधर्मात्कुलिकः सूचको हीनसेवकः । पित्रा विवमानश्च भेदकुञ्चेत्यसाक्षिणः ॥ (१) निगदव्याख्यातौ श्लोकौ । स्तावकस्तु नभा चार्यजातीयः । भेदकृत् सस्नेहयोरद्रव्यैर्योजकः । एते साक्षित्वेऽनिर्दिष्टाः न प्रश्नार्हाः । अभा.६९ (२) कुलिक परिच्छेदकत्वेन नियुक्तः | व्यक.४६ (३) सूचक: परदोपसूचनार्थ राजा नियुक्तः | भेद- कृत् पिशुनः । स्मृच. ७८ (४) सर्वे चैते मन्दाभिधायिनो लोभादिशङ्कनात् । अत्र यद्यपि साक्षिणां विशेपविधिनैव शेषप्रतिषेधः, इति कल्पतो निषेधोऽनर्थकः, तथापि विहितालाभेऽपि अमीषामनुपादानाय, सौर्यश्चरुर्भवतीत्युक्तेऽध्ययज्ञिया वै माषा इतिवत् । तथा च विहिताइलाभे अविहिता अनिषिद्धाः साक्षिणो ग्राह्याः, कल्पतो निषिद्धास्तु सर्वथा व्यचि. ४ न ग्राह्याः, इत्याशयः । (५) च्युतः स्वधर्मात् स्वधर्म न परिपालयति, सत्यं परिपालयतीति को विश्वासः । कुलिकः परिच्छेदकत्वेन नियुक्तः । उदासीनेन तेन भवितव्यम् । प्रत्याय्यप्रत्या- यकयोरेकत्वविरोधात् । स्तावकः प्रस्थापकादिः, परा- राधनजीवनत्वाद् धनवत्पक्षाश्रयत्वात् । हीनसेविता हीन- जातीयं यः सेवते, शूद्रस्य द्विजाति: पादमूलिकस्त्यक्त- धर्मत्वात् । पित्रा विवदमानो विरुद्धकरणात् पितुः शासनेऽनवस्थानात् । भेदकृत् पिशुनः सत्यानृतप्रवृत्त- त्वात् । चशब्द एतेषां समुच्चयार्थ: । समस्ता व्यस्ता- श्ते न साक्षिणः । सर्व एते धर्मानपेक्षाः कथमिव धर्म- मपेक्षेरन्निति निरस्ताः । अथवा किमत्रोपपत्या ? वच- नात् तेऽसाक्षिणः । नाभा. २।१६६ (६) कुलिको राज्ञा व्यवहारपरिच्छेदकतया नियुक्तः । अस्य च साक्षित्वकरणे निषेधो विधिस्त्वकृतसाक्ष्य इति कल्पतरुः । मदनरत्ने तु कुलं ब्राह्मणादिगणस्तदधिकारी कुलिक इति व्याख्यातम् । सूचको राशा परदोषान्वेषण- पूर्वकं स्वस्मै तन्निवेदने नियुक्तः । भेदकृत् मित्रादि- प्रीतिभङ्गकर्ता । व्यप्र. ११९ ' श्रेण्यादिषु च सर्वेषु कश्चिञ्चेद्वेष्यतामियात् । तेभ्य एव न साक्ष्यं स्याद्वेष्टारः सर्व एव ते || (१) अत्र श्रेण्यादिषु वर्गेषु यदि कश्चिद्राजगामित्वा- द्वाकूपारुष्यदण्डपारुष्यदोषाद् वा द्वेष्यतां गच्छेत्, ते बहवोऽपि द्वेष्टत्वात्तस्य साक्षित्वं नार्हन्ति । यतो द्वेष्टारः सर्व एव ते तस्येति । अभा. ६५ ( २ ) श्रेण्यादिषु ये यस्त्र द्वेषं कुर्वन्ति ते तस्य न साक्षिण इत्यर्थः । श्रेण्यादिग्रहणं वर्णादिप्रदर्शनार्थम् । द्वेष्टग्रहणं चायथार्थकथनकारणवतामुपलक्षणार्थम् । Xस्मृच.७७ (३) श्रेण्यादिष्वित्यस्यायमर्थ:-येषु श्रेण्यादिषु यस्यै- x सवि. स्मृचवत् । (१) नासं. २ | १३३ क्ष्यं (क्षी); नास्मृ. ४|१५६; शुनी. ४/६८६ सर्वे (वर्गे) तेभ्य एव (तस्य तेभ्यो) अभा.६५ च सर्वे (तु वर्गे); अप.२।७ १ च सर्वे (तु वर्गे) तेभ्य एव (तस्य तैश्च); व्यक.४६ च सर्वे (तु वर्गे) चेत् (वै ) तेभ्य एव (तस्य तेभ्यो); स्मृच.७७ सर्वे (वर्गे) तेभ्य एव (तस्य तेभ्यो ) ; ग्यचि. ४३ तेभ्य एव (तस्य तेभ्यो); सवि. १३६ च सर्वे (तु वर्गे) चेत् (वै ) शेषं व्यचिवत् ; व्यसौ. ४४ च सर्वे (तु वर्गे) शेषं व्यचि- वत् ; व्यप्र. ११८ व्यसौवत् ; प्रका. ४९ स्मृचवत्, कात्या- यनः; समु. २८ व्यसौवद्.
i (१) नासं. २।१६५ (मनुष्य विपशस्त्राम्बुलवणापूपवीरुधाम् ); नास्मृ. ४ | १८६; अभा. ६९; अप. २।७१ पशु (विष); व्यक. ४६ श्चैव (स्तेषां); स्मृच. ७८ अपवत् ; पमा. ९८ अपवत् ; व्यचि. ४३; चन्द्र. १४० राम्बु (राज्य); व्यसौ.. .४४; व्यप्र. ११८; प्रका. ५० अपवत् ; समु. २९ अपवत्. (२) नासं. २।१६६ सूच (स्ताव) वक: (विता); नास्मृ. ४|१८७ सूच (स्ताव); अभा. ६९ नास्मृवत्; अप. २०७१; ब्यक. ४६; स्मृच. ७८; पमा. ९८; व्यचि. ४३ कृच्चे (कश्चे); चन्द्र. १४० ; व्यसौ.४४; व्यप्र. ११८; प्रका. ५०; समु. २९.