पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ३०९ (१) तत्र भूताविष्ठः सग्रहः । नृपद्विष्टः राजद्विषः । वर्षनक्षत्रसूचकः सांवत्सरसूचकः । अघशंसी पापस्तेनो हिंस्रो वा । आत्मविक्रेता धनेन दासत्वमुपगतः । हीनाङ्गो बाहुपादहीनः । भगवृत्तिः स्त्रीजीवनः मुख भगो वा । मित्रध्रुक् अकार्यकारित्वात् । 'कृतघ्ने नास्ति निष्कृतिरि- त्युक्तम् । शठः स्वकार्यप्रधानत्वात् । शौण्डिको मद्य- विक्री स्ववर्गादन्यत्र मद्यप्रायत्वात् स्वस्थास्वस्थावस्थेन ज्ञायते । ऐन्द्रजालिको य इन्द्रजालेन चरति स विप्र- लम्भक एव । लुब्ध एव लुब्धः । सोऽर्थार्थ न किञ्चिन्न (२) अघशंसी अभिशापकृत् । भगवृत्तिः स्ववृत्तये करोति । उग्रः क्रूरः । सोऽपि पशुवत् प्रवर्तते । श्रेणी- भार्याया वेश्यात्वकारी । अभा.६९ विरोधिनो गणविरोधिनश्च महाजनोपघातप्रायत्वात् । नाभा. २११६३ वैधकश्चित्रकृत् मङ्ङ्खः पतितः कूटकारकः । कुहकः प्रत्यवसितस्तस्करो राजपूरुषः ॥ अप. २।७१ (३) वर्षसूचकः वृष्टिसूचकः । नैमित्तिक इति यावत् । नक्षत्रसूचकः ज्यौतिपवृत्तिः । अघशंसी पर दोषप्रकाशकः ।

  • स्मृन्च.७८

(४) अप्रशंसी वाच्यताभिधायी । हीनाङ्गः न्यून- परिमाणावयवः । चन्द्र. १४१ (५) भूताविष्टः पिशाचादिगृहीतः, अस्वतन्त्रत्वात् । नृपद्विष्टो दोषवत्त्वात् । न हि स्वधर्मस्थं राजा द्वेष्टि । वर्षसूचको नैमित्तिकः । नक्षत्रसूचको ज्योतिषवृत्तिः । सत्यानृतप्रायत्वात् प्रतिषिद्धत्वाच्चाऽऽजीवकस्य । अध शंसी परदोषकथनव्यसनी, धर्मनिरपेक्षत्वात् । आत्म विक्रेता अकार्यकारित्वात् दत्तस्वहस्तोऽप्रमाणत्वात् । हीनाङ्गः पूर्वकृतदोषत्वात् । भगवृत्तिः स्त्रीवृत्तिमनुजीवति, प्रतिषिद्धसेवित्वात् कृपणत्वाच्च । नाभा. २।१६२ (६) हीनाङ्गः उचितपरिमाणातिन्यूनाङ्गः । व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः । भगवृत्तिः भार्यादास्यादि संभोगशुल्कोपजीवी । व्यप्र. ११९ कुंनखी श्यावदन्तश्च मित्रध्रुक्शठशौण्डिकाः । ऐन्द्रजालिकलुब्धोप्रश्रेणीगण विरोधिनः ॥ (१) उग्रः क्रूरः । क्षत्रियाद्वा शूद्रायां जातः । अभा.६९ (२) कुन खिश्यावदत् त्श्वित्रिणां पूर्वजन्मकृतदोषत्वात् ।

  • पमा. स्मृचवत् ।

अपवत् ; स्मृच. ७८ (१) नासं. २ | १६३ दन्तश्च (दन् चित्री); नास्मृ.४।१८४ श्याव (श्याम); अभा. ६९ शौण्डि (कौशि) लिक (लक); अप. २।७१ (कुनखश्यावदच्छुित्रिमित्रभुक्शठशौण्डिकाः); व्यक.४६ ( कुनखिश्यावदच्छ्रित्रिमित्रध्रुक्शठ- शौण्डिका:); पमा. ९८; व्यचि. ४३ स्मृचवत् ; चन्द्र. १४० ( =) दन्तश्च (दच्चित्रि); व्यसौ. ४४ दन्तश्च मित्रभुक् (दन्धि- त्रिमित्रद्विट्(); व्यप्र. ११८ स्मृचवत; प्रका. ५०. स्मृचयत् ; समु. २९ स्मृचवत्. (१) वधकः सौनिकः । चित्रकृल्लेख्यक्रियोपजीवी । मस्रः कपटजीवी । पतितः पातकी । कूटकारकः कूट- लेख्यककार्षापणादिकर्ता | कुहकः मन्त्रौषध्यायुपायाश्र- याद्वशीकरणादिकर्ता । प्रत्यवसितः प्रव्रज्यापतितवृत्तः । तस्करश्चौरः | राजपुरुषः सेवक इति । अभा.६९ (२) शङ्खः बलीवर्दनाटनेन भिक्षाटनशीलः । व्यक, ४६ (३) मङ्खः ( मूर्ख: ? ) देवतां गृहीत्वा याचकः । कुहको दाम्भिकः । स्मृच.७८ (४) प्रत्यवसितः त्यक्तव्रतः । राजपुरुषो वाच्यः । चन्द्र. १४१ (५) वधकृत् लुब्धकादिः, वध्यानां वा वधे नियुक्तः । सोऽध्यकार्यकारित्वात् । चित्रकृत् चित्रकरः, प्रतिषिद्ध- वृत्तित्वात् । मङ्खो देवतां गृहीत्वा याचकः, देवता- द्वारेण लोकस्य विप्रलम्भकत्वात् । पतितोऽसंभाग्यत्वात् । कूटकारकोऽद्रव्यं द्रव्यवत् कृत्वा विप्रलम्भकत्वादकार्य- कारी । कुहको दाम्भिकः । सोऽपि परवञ्चनार्थमुद्धत चित्तत्वात् । प्रत्यवसूतः प्रवज्याया निवृत्तः । सोऽप्यसंभा- प्यत्वान्निःश्रीकत्वाच्च । तस्करः प्रसह्यचोरः प्रतिरोध (१) नासं. २|१६४ कश्चि (कृच्चि) सित (सृत); नास्मृ. ४|१८५ श्चित्रकृन्मङ्खः (श्चर्मकृत्प:); अभा.६९ नास्मृ वत् ; अप.२।७१ मङ्खः (नग्नः); व्यक.४६ मखः (शङ्खः); स्मृच. ७८ कश्चि (कृच्चि) मङ्खः (मूर्ख:); पमा. ९८ मङ्खः (मूर्ख :); व्यचि. ४३ व्यकवत् ; चन्द्र. १४० व्यकवत् ; व्यसौ. ४४ व्यकवत् ; व्यप्र. ११८ व्यकवत् ; प्रका.५० स्मृचवत् ; समु. २९ स्मृचवत्,