पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी रागादिशून्यानां सत्यवादित्वातिशयेऽपि तपःस्वाध्यायाग्नि- होत्रादिव्यासङ्गेन श्रावितार्थविस्मरणसंभवात् । अति पूज्यानां धर्माधिकरणप्रवेशाह्वानाद्यनौचित्याच्चेत्यर्थः । नात्र हेतु:- असत्यवादित्वप्रयोजको हेतुः स्तेनत्वादिनों दाहृत इत्यर्थः । व्यप्र. ११५ ११६ दोषादसाक्षिणः 'स्तेनाः साहसिकाश्चण्डाः कितवा वधकाञ्च ये | असाक्षिणस्ते दुष्टत्वात्तेपु सत्यं न विद्यते ॥ (१) चण्डाः कोपनाः । कितवाः द्यूतकृतः। मिता. २|७० (२) दोपतोऽपि येषामसाक्षित्वं तेपामध्यदोषदशायां साक्षित्वमायात्येव । स्तेनत्वादिकमपि प्रकृतविषयकव चनान्यथासिद्धिशङ्काधायकमिह विवक्षितमिति रत्नाकरे भिधानात् । अथ यशायां यस्य निर्वदादिना सत्य वादितैव प्रमीयते तदा सोऽपि साध्येव । चन्द्र. १३७-३८ (३) साहसिका: प्रसह्य परस्वापहारिणः । चण्डाः धनहेतोर्मारकाः परप्रयुक्ताः । वधकाः सौनिकाः । अ साक्षिणस्ते, स्वभावत एव दुष्टत्वात् परातिसंधानपरत्वात् । तेषु सत्यं नास्ति | महापातके प्रवृत्तानां साक्षित्वेऽनृत- वचनं प्रियमेव । नाभा. २।१३८ । भेदादसाक्षिण: रांज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिये ।

  • व्यप्र. (पृ. ११३) मितावत् । शेषं व्यमावत् ।

(१) नासं. २११३८; नास्मृ. ४|१५९; अभा. ६५; मिता. २।७० वधकाश्च ये (वञ्च कास्तथा ); व्यमा. ३२४ च ये (तथा); अप. २।७१ वधकाश्च ये (बान्धवास्तथा ) ; व्यक. ४५ व्यमा- बत् ; पमा. १०० चण्डा : (पण्ढा :) वधकाश्च ये (सूचकास्तथा ) असा (न सा) सत्यं (साक्ष्यं) बृहस्पतिः; स्मृसा. १०१ वत्र (व्याध ) सत्यं (साक्ष्यं); व्यचि. ४२ वधकाश्च ये (व्याधका स्तथा); स्मृचि.४५ व्यमावत् ; व्यत. २१३ चण्डा : (धूर्ता:) वध (योध) स्ते दुष्टत्वात् (स्तु ते दृष्टा: ) ; सवि. १४० च ये (तथा) स्ते (स्तु); चन्द्र. १३७ वध (योध) दुष्ट (दोप); व्यसी ४३ कितवा वधकाश्च ये (उन्मत्ता: कितवास्तथा ); व्यप्र. ११४ मितावत् ; व्यउ. ४८ व्यमावत् याज्ञवल्क्यः; विता. १६० मितावत् ; सेतु. ११९ चण्डा: (धूर्ता:) वध (क्रोध) स्ते दुष्ट- त्वात् (स्तु ते शेया:); प्रका. ५२ व्यमावत् ; समु. ३१ व्यमा बत् ; विव्य. १३ व्यमावत्. (२) नासं. २ ११३९; नास्मृ. ४११६०; अभा.६५; व्यमा. ३२५ निश्चये (निर्णये) यत्र (तत्र); अप. २१७८ निश्चये ३०३ वचनं यत्र भिद्येत ते स्युादसाक्षिणः || (१) यत्तु मेदादसाक्षिण इत्युक्तं, तत्सर्वसाम्येन अगृह्यमाणविशेषविषयम् । मिता. २।७८ (२) यत्तु राज्ञेति तत्संख्यातो गुणतश्च साम्ये सति वेदितव्यम् । न हि तत्र श्रोतृणां संशय निवृत्तिरस्ति । अप. २१७८ (३) अस्यार्थः एकस्य मापार्थस्य उत्तरार्थस्य वा निर्णयार्थ गृहीतानां साक्षिणां वचनभेदाद् असाक्षि त्वमिति । व्यचि. ४० (3) ननु भेदादसाक्षिण इत्यनुपपन्नम्। 'साक्षि द्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम्' इति विष्णुम्मरणात् । समसंख्यानां वा समगुणानां वा द्वैधे युक्तिसधीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति निबन्ध- नकारवचनादिति चेन्मैवम् | बहवः साक्षिणो मिलिया साध्यभावमेकस्मिन् निवेश्य संसदि अनेन यदुक्तं तदस्माकं संमतमित्यवोचन्, तदाऽसावेकोऽपि विसंवादी, सर्वे ते साक्षिणोऽविसंवादिन इत्येवं परं वचनमिति न कश्चिद्विरोधः । सवि. १४९ (५) राज्ञैकवचनत्वेन परिगृहीते साक्षिषु पृथक् पृथगुत्सार्य पृच्छयमानेषु वचनं भिद्येत यत्र येषु यस्मिन् वा कार्येऽन्योऽन्यद्वा ब्रूयात् अन्यधान्यथा, तेऽपि वचन- भेदादू रागाद् द्वेपालीभाद्रा मृपा वदन्तीत्यसाक्षिणः । नाभा. २।१३९ स्वयमुक्तेरसाक्षी अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शास्त्रेषु न स सात्विमर्हति ||

  • स्मृमा, चन्द्र अपगतम् ।

(निर्णये); व्यक. ४७; अपवत् ; चन्द्र.१३८ वीमि. २१७२ अपवत् ; स्मृच.८ १; स्मृसा. १०१; व्यचि.४० अपवत् ; व्यसौ. ३८,४५ यत्र (तत्र); प्रका. ५३; समु. ३२. (१) नासं. २११४० अनिर्दि... साक्षित्वे (स्वयमुक्तेरनु- दिष्टः); नास्मृ.४।१६१; अभा. ६५, मिता. २।७० अनि... त्वे (स्वयमुक्तिरनिर्दिष्टः); व्यमा. ३२६ वें (वे ) न स (न च); व्यक.४७-४८ वै (वे) सूचीत्युक्तः स ( स्वयमुक्तस्तु ) न स (न च); स्मृच.८१ अनि...वे (स्वयमुक्तिस्तु निर्दिष्ट:); स्मृचि. ४६ मितावत्, मनुः; सवि. १४० मितावत् ; व्यसौ. ४६ (अनिर्दिष्टश्च यः साक्ष्ये स्वयमेवेत्य भाषते । सूचीत्युक्तः स