पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ जानामीति ब्रुवाणो न साक्षी । अन्तरोऽन्तरङ्गः विवादे अर्थी, प्रत्यर्थी, धनं च । बहिरङ्गाः साक्षिसभ्यादयः । सेन यत्रासौ साक्षी कृतो गोभृत्यालङ्कारविपये, तस्मिन मृते नऐ वा साक्षी मृतान्तर उच्यते । गोभृत्यादेर्मूल भूतस्य मृतत्वात् तत्संस्थानतो विप्रतिपत्तौ हि तस्या- साक्षित्वम् । 'इममधे कस्य जानीयाः ?' इति प्रश्ना- नुपपत्तरित्यसाक्षी मृतान्तरः । तथा येनर्णादिविपये साक्षी कृतोऽर्थिना प्रत्यर्थिना वा तस्मिन् मृते माझी मृतान्तरो भवति । अर्थिना च पुत्रादिना देशकालधने- यत्त्वाद्यपरज्ञाने तत्त्वज्ञानानर्हत्वादनुपन्यस्तस्य च साक्षिणः स्वयमुक्तित्वापत्तेर्मृतान्तरो न साक्षी । व्यमा. ३२६-२७ (३) मुमूर्षुग्रहणं स्वस्थस्याप्युपलक्षणार्थम् । स्मृच.८१ (४) अस्थार्थः – यो ह्यनिर्दिष्टः स्वयमेवाह, ‘अहमत्र साक्षी' ति स्वयमुक्तः । यस्तु मृते धनिके तत्पुत्रस्य ऋणादि- परिमाणविशेषाज्ञाने परम्परया श्रुतं, 'अयमस्माकं धारयत्ययं च साक्षी' एतावन्मात्रज्ञाने यदहं न जानामि किं त्वयं यजानाति तद्यमस्मदीयं धारयतीत्यभिधाय पुत्रेणोपन्यस्यते स साक्षी मृतान्तर उच्यते । यदि तुमुमूर्षु णाऽपि पित्रा पुत्रः श्रावितो भवति, अयमस्माकमियद्धार यत्ययं च तत्र साक्षीति तदा मृतान्तरोऽपि साक्षी भव त्येव ।

  • स्मृसा. १०१ १०२

(५) यत्तु विज्ञानयोगिनो 'यत्र तु मुमूर्षुणे' त्यादि तत्तु श्रावितस्य साक्षित्वं नापगतमित्येवं परम् । न पुनर्मृतान्तरस्यापि साक्षित्वविधानार्थमित्यवगन्तव्यम् । मृतान्तरस्य साक्षित्वासंभवात् । सवि. १४९ (६) स्वयमुक्तेरमाक्षी | स्वयमेवानुद्दिष्टो गत्वा वदेत् अहं जानामीति । मृतान्तर इत्युक्तं धनिनि प्रेते, अमुष्य अमौ धारयति अत्राहं माक्षीति ब्रवीति सदसि । अत्राप बाद: - मुमपुंणा श्रावितः मुमूर्षुश्रावितः । स भवत्येव साक्षी प्रेतेऽपि धनिनि । यथा असौ मे धारयति द्रव्यं ब्राह्मणेभ्यो दापयेदिति । नाभा. २।१३६ व्यवहारकाण्डम् वचनादसाक्षिण: 'श्रोत्रियास्तापसा वृद्धा ये च प्रत्रजिता नराः । व्यचि, चन्द्र, वीमि स्मृसागतम् | (१) नासं. २११३७; नास्मृ. ४११५८; अभा.६५ नात्र (तत्र); मिता. २|७० नरा: ( दय: ) ; व्यमा ३२४; अप. i असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः ।। (१) तापसा वानप्रस्था: । आदिशब्देन पित्रा विवद- मानादीनां ग्रहणम् । यथाह शङ्खः - 'पित्रा विवदमान- गुरुकुलवा सिपरिव्राजकवानप्रस्था निर्ग्रन्थाश्चासाक्षिण' Xमिता. २७० इति । (२) वचनान्निषेधवचनादिति न्यायस्यार्थः । न हि तेषां साक्षित्वेन ग्रहणे प्रश्ने वा निषेधातिक्रमादधर्मोत्पत्ति- न्यायमूलवाद्वचनानाम् । सत्यपि बाधादोषे (?) तत्प्रश्न सत्यप्रशस्तव्यवहारसमाप्त्यविरोधाद्व्यवहारप्रकरणे लिखन- निषेधस्य पुरुषार्थत्वात् । ततश्च ते साक्षिणो न कार्याः, तेषां पूज्यतमत्वात्, अदण्डनीयत्वात्, तपःप्रकर्षाच्च, भूरिकोपवत्त्वेन तच्छापभयेन व्यवहारद्रष्टारो न तान् पृच्छन्तीति तत्साक्षिकरणानर्थक्यान्न ते कार्याः । यद्वा नित्यं तेषामग्निहोत्रादिकार्यव्यग्रतया परकीयकार्य- प्रसरणासंभवात् अनर्थकं तत्साक्षिकरणम् । वचनादिति । श्रोत्रियत्वादिरूपाभिधानान्नात्रान्यो हेतुरित्यर्थः । तेन ते साक्षिणो न कर्तव्याः | अकृतास्तु भवन्त्येव साक्षिणः । उभौ तु श्रोत्रियौ ख्यातावित्यादिवचनात् । अत एव वृद्धस्याप्यसाक्षित्वं वृद्धत्वात् ग्लानेन्द्रियत्वादित्यर्थः ।

  • व्यमा. ३२४

(३) श्रोत्रियाः अध्ययनश्रवणयुक्ताः । तापसा वान- प्रस्थाः, अन्येऽपि तपोनिष्ठाः । वृद्धा अशीतेरूर्ध्वम् । वच- नात् प्रतिषिद्धत्वात् । नात्र हेतुरुक्तः, नित्यं तेषां साधुनि कर्मणि प्रवृत्तत्वात् । तदुपरोधो मा भूदिति । वृद्धा असमधी एव । नाभा.२।१३७ (४) अत्र श्रोत्रियादयो न साक्षिणः कार्याः । तेषां x सवि., व्यउ., विता. मितागतम् ।

  • व्यचि., व्यत., सेतु. व्यमागतम् ।

२।७१; व्यक. ४५; स्मृच. ८१ मितावत् ; पमा १०१ अभा- वत्, याज्ञवल्क्यः; स्मृसा. १०१ (वचनात्तेष्वसाक्षित्वं नात्र हेतुरुदाहृतः); व्यचि. ४२; स्मृचि. ४५ मितावत् ; व्यत. २१४ स्मृसावत् ; सवि. १४० च (तु) नराः (दय: ) याज्ञ- वन्क्यः; चन्द्र. १३७ स्मृसावत् ; व्यसौ. ४३; वीमि.२।७२ येच (येन); व्यप्र. ११३ मितावत् ; व्यउ. ४८ मितावत्, याज्ञवल्क्यः; विता. १६० नरा: (दयः) नात्र हे (तन्निर्हे) त: ( तम्); सेतु. १२० ये च प्र ( हेतुप्र ) शेषं स्मृसावत् ; प्रका. ५२-५३ मितावत् ; समु. ३१ मितावत् ; विव्य. १२-१३.