पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी वर्णादिभेदेन साक्षिभेद: श्रोह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः । प्रतिवर्ण भवेयुस्ते सर्वे सर्वेषु वा स्मृताः ॥ .(१) एते चत्वारोऽपि वर्णाः स्वकीय स्वकीयवर्णसाक्षिणो भवन्ति । अथवा सर्वेषु वर्णेषु सर्वे वर्णा भवन्ति । अभा.६४ । (२) ब्राह्मणक्षत्रियविशूद्रा ये चाप्यनिन्दिताः अकु त्सितकमाणोऽन्तरालप्रभवाः । सर्वेषामनिन्दितत्वेऽप्येते पामनिन्दितग्रहणमत्यन्तकुत्सितकर्मश्वपाकचण्डालमृतपा- दिनिवृत्यर्थम् । एतेषां गुणवतामपि हि निसर्गतः कुत्सितं कर्मति । वर्ण वर्ण प्रतिवर्ण, भवेयुस्ते साक्षिणः ब्राह्मणाः ब्राह्मणेषु क्षत्रियाः क्षत्रियेषु । एवं सर्वत्र । सर्वेषु चानियमेन साक्षिणः । प्रतिवर्ण भवेयुरिति वा शब्देन विनोक्तत्वात् प्रथमकल्प इति गम्यते, न तुल्य कल्पत्वं पुनर्वचनादनुकल्प इति गम्यते । यथा 'दशाहं शावमाशौचमि' त्यविकल्पेनोक्त्वा 'आ वा संच- यनादस्यामि' त्यादिवचनादनुकल्पः, तथाऽत्रापि । , नाभा. २।१३१

  • श्रेणिषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।

बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥ (१) श्रेणीषु अष्टादशप्रकृतिनिबद्धासु ये श्रेणिपुरुषा- स्ते तन्मध्यपतितत्वात्तादृशा एव साक्षिणः प्रमाणम् । स्वेषु वर्गेषु भाटवर्गेषु भाटिका इत्यादयः । बहिर्वासिषु अन्त्यजातिषु बाह्या एव । स्त्रीषु च व्यवहारोत्पत्तौ स्त्रिय एव साक्षित्वमर्हन्ति । एतेषु साक्षिपरीक्षा नास्ति । अभा.६५ (१) नासं. २११३१ स्मृताः (पुन:); नास्मृ. ४।१५४; अभा. ६४; व्यमा.३१८ नासंवत् ; स्मृच.७७ पूर्वार्धे (ब्राह्मणः क्षत्रियो वैश्यः शूद्रो ये चाप्यनिन्दिता : ) स्मृताः(पुनः); पमा ९५ वा स्मृताः (वादिनः); व्यचि.३८ नासंवत्; सवि. १३६ नासंवत् ; प्रका. ४९ नासंवत्; समु. २७ नामंवत् ; विव्य. ११ पू. (२) नासं. २ | १३२ स्युः (च); नास्मृ. ४/१५५; अभा. ६५; विश्व.२ । ७१; व्यमा. ३२३; अप. २६९; व्यक.४५ क्रमेण व्यासः; स्मृच.७७; पमा ९५ वर्गेषु (स्वे चैव ) स्थुः (च); स्मृसा. ९९ गेंषु वर्गिणः (र्णेषु वर्णिन:) स्युः (च); सबि.१३६ स्वेषु (तेषु); ब्यसौ. ४३ ; व्यप्र. १११णिपु (णीपु) ब्यम, १६ च (तु); बाल.२ ६९; प्रका.४९; समु. २८. २९९ (२) श्रेणयो वणिगादिसमूहाः प्रसिद्धाः, तेषु श्रेणि- पुरुषाः समूहाभ्यन्तराला इत्यर्थः । पुरुषग्रहणं स्त्रीनिवृत्य र्थम् । स्वेषु वर्गेषु वर्गिणः हस्तिपकादयः नटमल्लगायक- पाकजीवनादयः, तेषां स्ववर्गपुरुषाः । नाभा. २।१३२ (३) श्रेणिपुरुषाणां सत्यपि वर्गित्वे पृथनिर्देशो गोवृषन्यायेन । प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम् । व्यप्र. १११ उत्तरसाक्षिणः कदा प्रमाणम् साक्ष्युद्दिष्टो यदि प्रेयाद्गच्छेद्वाऽपि दिगन्तरम् । तच्छ्रोतारः प्रमाणं स्युः प्रमाणं धुत्तरा क्रिया | (१) तत्र यदि साक्ष्युद्दिष्टो म्रियेत देशान्तरं वा गच्छेत् तस्य मुमूर्षोर्यियासोर्वा तदर्थ पृष्टस्यार्थिना उद्देश श्रुतार्थस्य वा स्वयं विश्रावयतो वचनं श्रुतं यैस्ते उत्तर- साक्षिणः प्रष्टव्या इति । अयं चाऽसौ प्राक्सूत्रस्थानोक्तो त्तरसाक्षी प्रष्टव्यः । अभा.६७ (२) बहुवचन निर्देशात् नैको न द्वौ बहूनां ह्यनृते चैकमत्यं प्रायेण न भवतीति । हेतुमाह - उत्तरसाक्षिणः प्रमाणमित्युक्तं 'गूढ श्चोत्तरसाक्षी चेति । नाभा. २११४५ लिखितसाक्षिणो विशेष: सुदीर्घेणाऽपि कालेन लिखितः सिद्धिमाप्नुयात् । आत्मनैव लिखेजानन्न चेदन्येन लेखयेत् || (१) तत्र योऽसौ पञ्चविधः प्रयुक्तः साक्षी तस्य भेद- फलविवक्षयेदमुच्यते- मुदीर्घेणाऽपि कालेन लिखितस्य (१) नासं. २११४५ रा कि (रक्रि); नास्मृ. ४११६६; अभा.६७ रा क्रिया (राः क्रिया:). (२) नासं. २११४६ चदन्येन (जानानस्तु); नास्मृ. ४।१६७; अभा.६७ खित: ( खितं ) ; व्यमा ३२३ उत्तरार्धे (संजानन्नात्मनो लेख्यमजानंस्तु न लेखयंत्); व्यक. ४३ उत्त- राधे (संजानन्नात्मनो लेख्यमजानन्तु न लेखयेत् ); पमा १०४ सिद्धि (शुद्धि) जानन्न चेद (जातमशस्त्व); व्यचि ३७ उत्त- राधे (संजानन्नात्मनो लेख्यमजानन्न तु लेखयेत्); स्मृचि. ४५ व्यचिवत् ; व्यत. २१९ खित: (खितं) उत्तरार्धे (संजा- नन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत् ); सवि.१४२-१४३ ! लिखितः (निश्चित:) जानन चेद (शातमज्ञस्त्व); चन्द्र. १३६ व्यचिवत्; भ्यसौ. ४१ व्यचिवत् ; व्यप्र.१०९ (=) उत्तरार्धे (संजानन्नात्मनो लेख्यमजानन्तं तु लेखयेत्).