पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३९८ कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥ (१) पडेते पुनरकृता अपि साक्षिणो भवन्ति । तद्यथा ग्राममध्ये वृत्तप्रयोजनस्य ग्राम एव साक्षी | धर्माधि- करणवृत्तस्य प्राड्विवाक आस्थानस्थः । राज्ञः पुरतो वृत्तस्य राजा । तथा यः कार्यस्याभ्यन्तरः । तथा कार्यार्थ मर्थिना यः प्रहितः । तथा कुलविवादेषु कुलहरक मेव (?) साक्षी । एते घडपि साक्षिण: अकृता अपि भवन्ति । एवं कृताकृतभेदेनैकादशविधः साक्षी उक्तः । अभा. ६४ । 1 (२) प्राड्विवाकग्रहणं लेखकसभ्योपलक्षणार्थम् । ‘लेखकः प्राविवाकश्च सभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्य साक्षिणः समुदाहृताः' इति ॥ #मिता. २२६८ (३) अत्र ग्रामपदेन ग्रामस्था लक्ष्यन्ते । ते ह्यकृता अपि ग्रामगतकार्य जानन्त्येवेति । तद्विषये साक्षिण एते । तथा राज्ञो यः प्राड्विवाको धर्माधिकृतस्तस्य सकल विवादनिरूपकत्वात् । प्राङ्न्यायादावकृतस्यापि साक्षित्वं भवति । तथा यः खलु धार्मिको राजा तस्य स्वयमेव विवादनिरूपकत्वात् प्राङ्न्यायादि विषये प्राविवाकवद कृतस्यापि साक्षित्वम् । तथा ऋणादिकार्य योऽभ्यन्तर कृतोऽर्थमादाय ऋणादिकं कृतं स कार्याभ्यन्तरोऽकृतोऽपि साक्षी । तथा अर्थिना यः प्रत्यर्थिनि वक्तुं प्रहितस्तेन तद्वचनं श्रुतं, सोऽप्यकृत एवार्थप्रहितः साक्षी । तथा कुलस्य विवादे अकृतमपि कुलं साक्षी भवति । ननु राज्ञः साक्षित्वं निषिद्धम् । तथा मनुः - 'न कार्यो नृपतिः साक्षी' इति तच्च कथमभिधीयते नृपतेः साक्षित्वमिति । उच्यते – मनुना खलु साक्षी नृपतिर्न कार्य इति नृपतेः साक्ष्ये करणं निषिद्धं प्रायशः स्मरणवादयोरसंभवात् ।

  • सवि. मितावत् ।

(विशेयाः); व्यमा.३२० स्यात् (च); अप. २१६९ न्तरो (तन्रे ) ल्या: कुल (ल्याकुल्य); व्यक.४१ स्यात् (च) ल्याः कुल (ल्याकुल्य); गौमि. १३११ व्यकवत् ; स्मृच.८०; स्मृसा. १०० ल्या: (लं); ब्यचि. ३७ स्यात् (च); ब्यनि. (= ) पु भवेयु ( तु विज्ञेया); स्मृचि. ४५ ल्याः कुल (ल्याकुल्य); नृप्र. ९ व्यकवत्;सवि. १४१ मितावत् ; चन्द्र. १३६ स्मृसावत् ;व्यसौ. ३९ नारदकात्यायनौ; व्यप्र. १०७ मितावत् ; व्यउ. ४७ मितावत् ; विता. १५७ मितावत् ; राकौ. ४०१ मितावत् ; प्रका. ५१; समु. ३०. स्वकृतस्त्वेवंविधविषये भवत्येवेत्य विरोधः । अत्र च कृत- साक्षिणां मध्ये ये अकृतास्ते ग्राह्याः । कृतसाक्षिष्वपि पूर्व- पूर्वाभावे उत्तरोत्तरेषां साक्षित्वमिति पूर्वपूर्वेषां स्मृति- हेतुसंस्कारकारणस्य लिखितादेर्लघीयस्त्वात् । अत एव

नारदेन पूर्वपूर्वसाक्षिणामधिककालत्वमप्युक्तम् ।
  • स्मृसा. १००.१०१

(४) पूर्ववृत्तेषु कार्येष्वधिकृतः तेषु व्यवहारकार्येषु यो व्याप्रतः । कुलं कुलविवादेषु, गृहवृत्तेषु गृहजन:, कुलधर्मेषु वा कुलम् । एते नित्या अकृताः । नाभा. २११२८-१२९ कीदृशाः कियन्तश्च साक्षिणो भवन्ति कुंलीना ऋजव: शुद्धा जन्मतः कर्मतोऽर्थतः । त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः शुद्धबुद्धयः ॥ (१) कुलीनाः कुलोत्पन्नाः । ऋजव: आर्जवस्वभावाः । तथा जन्मतः कर्मतोऽर्थतश्च शुद्धा ये भवन्ति । शुचयो ये त्वलुब्धाः । शुद्धबुद्धयः प्रतिष्ठितशास्त्रबुद्धयः । अनिन्द्याः लोकप्रसिद्धाः । एवंविधाः साक्षि गो भवन्ति । त्रयाणामधो द्वावेको वा उभयानुमतः । अधिकास्तु भूवादे । अन्यत्र कार्यविस्तरानुसारेण | अभा.६४ (२) त्रयोऽवरात्र्यवराः साक्षिण इत्यधमकोटिरियम् । नवपर्यन्ताः परा कोटिरसौ । तपस्वित्वादिगुणयुक्तत्वेन व्यवराः, पूर्वोक्तगुणेषु सत्मु यदि विद्याऽप्यधिका भवति तदा श्रोत्रियपदवाच्यौ द्वावपि साक्षिणौ, श्रोत्रियोऽपि नैकः साक्षी । तस्यैकस्यापि सात्वेि उभावित्यनर्थक स्यात् । उभौ च श्रोत्रियावित्यनन्तरं च नैकं पृच्छेत् इति श्रोत्रियस्यैव वागतस्य । व्यमा. ३१८

(३) एतैर्गुणैः समस्तैर्व्यस्तैर्बहुभिर्युक्ताः त्रयः अवरा ऊना येषां ते त्र्यवराः साक्षिणः स्युः । एष प्रथमः कल्पः । नाभा. २।१३०

  • व्यचि. स्मृसागतम् ।

(१) नासं. २ | १३० शुद्ध ( स्युः सु); नास्मृ. ४|१५३; अभा.६४; ब्यमा.३१८ निन्द्या : (ज्ञेयाः); स्मृच. ७६ र्थतः (र्थतेः) उत्तरार्धे (साक्षिणः शुचयोऽनिन्द्याः पुरुषाः स्युः सुबुद्धयः); पमा.९५ ऽनिन्द्याः(शेयाः) यः शुद्ध (यश्च सु) ; व्यचि.३८ व्यमावत् ; प्रका.४८ उत्तरार्ध स्मृचवत्; समु. २७ उत्तरार्ध स्मृचवत् ; विव्य. ११ व्यमावत् .